________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
289 विशेषाः
जे निजरिजमाणं निजिणं ति भणियं सुए जं च । नोकम्मं निजरिइ नावरणं तेण तस्समए ॥१३३८॥
यद् यस्मात् "चलमाणे चलिए, जाव निजरिजमाणे निजिण्णे" इति वचनाद् निर्जीयमाणं कर्म निर्जीर्ण श्रुतेऽप्युक्तम, अतः क्षीयमाणं क्षीणमेव, इति नानयोः कालभेदः। 'जं च ति यस्मादिदं चागमे प्रोक्तम् । किम् १, इत्याह- "कैम्म बेइज्जइ नोकम्म निलरेज" इत्येतावत सूत्रं द्रष्टव्यम् , वेद्यमानावस्थायां कर्म वेद्यते, निर्जरावस्थायां तु नोकर्म- अकर्मेत्यर्थः, अन्यश्च वेदनासमयः, अन्यश्च निर्जरासमयः । ततस्तस्मात् कारणात् तत्समय आवरणक्षीयमाणतासमये- आवरणस्य निर्जरणसमय इत्यर्थः, 'नावरणं ति' नास्त्यावरण-नास्ति प्रतिबन्धकं कर्म, क्षीयमाणस्य क्षीणत्वादित्यर्थः ॥ १३३८॥
प्रतिबन्धकाभावाच भवत्येवावरणक्षीयमाणतासमये केवलज्ञानोत्पत्तिः, कस्ता निरुणद्धि । अहमिति चेत्, इत्याह
जइ नाणमनावरणे वि नत्थि तो तं न नाम पच्छा वि। जायं च अकारणओ तमकारणओ च्चिय पडेजा॥१३३९॥ यद्यनावरणेऽप्यावरणाभावेऽपि केवलज्ञानमुत्पत्तिं न लभते. ततः पश्चादप्यावरणक्षयोत्तरकालं यदा किल त्वयेष्यते तदापि तदुत्पत्तिर्न स्यात् । अथावरणाभावाविशेषेऽप्यावरणक्षयसमये केवलझानं न भवति, तदुत्तरकालं तु पश्चाद् भवति, इति यहच्छया मोच्यते; हन्त । ताकारणा यदृच्छयैव प्रसूतिरस्य, ततोऽकारणत एव जातम् , अकारणतयैव तत् प्रतिपतेत् , विशेषाभावादिति ॥ १३३९॥
तस्मात् किमिह स्थितम् १, इत्याह- .
नाणस्सावरणस्स य समयं तम्हा पगास-तमसो व्व । उप्पाय-व्वयधम्मा तह नेया सव्वभावाणं ॥१३४०॥
तस्मात् केवलज्ञानस्य तदावरणस्य च युगपदेवोत्पाद-व्ययधौं द्रष्टव्यौ । कयोरिव १, इत्याह- प्रकाश-तमसोरिय । यथा हि युगपदेव तमो निवर्तते, प्रदीपादिप्रकाशस्तूत्पद्यते, इति य एव तमसो निवृत्तिसमयः स एव प्रकाशस्योत्पादसमयः । एवमिहापि युगपदेवावरणं निवर्तते, केवलज्ञानं तूत्पद्यत इति । आत्मद्रव्यं स्ववतिष्ठत इति । य एवावरणस्य क्षयसमयः स एव केवलज्ञानस्योत्पादस
, यद् निर्जीयमाणं निर्जीर्णमिति भणितं श्रुते यच्च । नोकर्म निर्जीयते नावरणं तेन तत्समये ॥ १३३८ ॥ x मुत्पत्तुंन+(निजिर) २ चल्यमाने चलितः, यावद् निर्जीयमाणे निर्जीर्णः । ३ कर्म वेद्यते नोकर्म निर्यिंत ।
यदि ज्ञानमनाचरणेऽपि नास्ति ततस्तद् न नाम पश्चादपि । जातं चाकारणतस्तदकारणत एवं पतेत् ॥ १३३९॥
५ज्ञानस्यावरणस्य च समकं तस्मात् प्रकाश-समसोरिव । उत्पाद-व्ययधौं तथा ज्ञेयौ सर्वभावानाम् ॥ १३४॥ मयः, तत्र हि समय आवरणस्य क्षीयमाणस्य क्षीणत्वात् , केवलज्ञानस्य चोत्पद्यमानस्योत्पनत्वात , आत्मद्रव्यस्य त्ववस्थितत्वादिति । एवं सर्वेषामपि भावानां मृद-ऽङ्गुल्यादिपदार्थानां घट-ऋजुतादिभिरपूर्वपर्यायैरुत्पादः, पिण्ड-शिवक-स्थास-कोशादिभिः, वक्रत्वादिभिश्च प्राक्तनपर्यायैर्व्ययः, मृद-ऽङ्गुल्यादिद्रव्यरूपतया त्ववस्थानं युगपद् भवतीति ज्ञातव्यमिति ॥ १३४०॥
यदि चरमसमये केवललाभा, ततः किम् ?, इत्याह
उभयावरणाईओ केवलवरनाण-दसणसहावो। जाणइ पासइ य जिणो नेयं सव्वं सयाकालं ॥ १३४१॥
ततश्च सर्वमपि ज्ञेयं साय-ऽपर्यवसितं सदाकालं जिनः केवली जानाति केवलज्ञानेन, पश्यति च केवलदर्शनेन । कथंभूतः सन् १, केवलवरज्ञान-दर्शनखभावस्तदव्यतिरिक्तखरूपः । तर्हि पूर्वमित्थमदृष्ट्रा किमितीदानीमेवं पश्यति', इत्याह- यत इदानीमुभयावरणातीतः केवलज्ञान-केवलदर्शनावरणद्वितयातीतत्वादित्यर्थः । इत्यष्टाविंशविगाथार्थः॥ १३४१॥
अत एवाह
संभिन्नं पासंतो लोगमलोगं च सवओ सव्वं । तं नत्थि जं न पासइ भूयं भव्वं भविस्सं च ॥१३४२॥ . सम्-एकीभावेन भिन्न संभिन्न-यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा, द्रव्य-क्षेत्र-काल-भावलक्षणं सर्वमपि शेयमत्र केवलज्ञानस्य विषयत्वेन दर्शितम् , तत्र संभिन्नमिति द्रव्यं गृह्यते, काल-भावौ च तत्पर्यायत्वाद् गृह्यते ताभ्यां च समस्ताभ्यां समन्ताद् वा भिन्न संभित्रमिति कृत्वा द्रव्यं संभिन्नमुच्यते । तत् पश्यन्नुपलभमानो 'लोकमलोकं च प्रसिद्धखरूपं पश्यन्' अनेन क्षेत्र प्रतिपादितं भवति । एतावदेव द्रव्यादि चतुर्विध क्षेयं, नान्यदिति । किमेवमेकया दिशा पश्यन् ?, इत्याह- सर्वतः सर्वासु दिक्षु । ताखपि किं कियदपि द्रव्यादि, उतन, इत्याह- सर्व निरवशेषम् । अमुमेवार्थ स्पष्टयन्नाह- तद् नास्ति किमपि शेयं भूतमतीतम् , भवतीति भव्यं वर्तमानम् , भविष्यच्च, यद् न पश्यति केवली ॥ इति नियुक्तिगाथार्थः ।। १३४२ ॥
'संभित्रं पश्यन्' इत्युक्तम् , तत्र 'संभिन्नम्' इति कोऽर्थः १, इत्याह
उभयावरणातीतः केवलवरज्ञान-दर्शनस्वभावः । जानाति पश्यति च जिनो शेयं सर्व सदाकालम् ॥ १३४१॥ १ संभित्रं पश्यन् लोकमलोकं च सर्वतः सर्वम् । तद् नास्ति यद् न पश्यति भूतं भव्यं भविष्यच्च ॥ १३४२ ॥
For Private and Personal Use Only