________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
288
विशेषा ०
'तदसंखिज्जइभागं ति' तस्य संज्वलनलोभसंख्येयभागस्यासंख्येयतमो भागस्तदसंख्येयतमो भागस्तम् । 'खीणे त्ति' लोभाणुमात्रेऽपि सर्वथा क्षीण इत्यर्थः, क्षपकनिर्ग्रन्थतामवाप्य मोहसागर तीर्खाऽर्मुहूर्तकालं विश्राम्यति यथोदधिं बाहुभ्यामुत्तीर्य स्तापे - sir पदमचालङ्घनीये जानुदनादिके जले प्राप्तः कश्चित् तारकपुरुषो विश्राम्यति । शेषं गतार्थमेवेति ।। १३३० ।। १३३१ ।। १३३२|| 'ततः क्षीणमोहः सन्नसौ किं करोति ?, इत्याह
छेउमत्थकालदुरिमसमए निदं खवेइ पचलं च । चरिमे केवललाभो खीणावरणंतरायस्स ॥१३३३|| क्षीणमोहच्छद्मस्थकालस्यान्तर्मुहूर्तमानस्य योऽसो द्विचरमसमयः, चरमाद् द्वितीयो द्विचरमः, चरमो वा द्वितीयो यस्मादसौ द्विचरमः, असंख्येयानामेतद्गुणस्थानक समयानामुपान्त्यसमय इत्यर्थः, तत्र द्वित्वरमसमये निद्रां प्रचलां च क्षपयति चरमस विधं 'ज्ञानावरणम्, पञ्चविधमन्तरायम्, दर्शनचतुष्टयलक्षणं च चतुर्विधं दर्शनावरण क्षपयित्वा केवलज्ञानपत्रामोति ।। १३३३ ।। अथावरणक्षये केवलज्ञानलाभ इत्यत्र निश्चय व्यवहारनयवादमुपदर्शयन्नाह-
Acharya Shri Kallassagarsuri Gyanmandir
आवरणक्यसमए नेच्छइ अनयस्स केवलुप्पत्ती । ततोऽणंतरसमए वबहारो केवलं भणइ ॥ १३३४|| निश्चयनयस्याऽयमभिप्रायः- यस्मिन्नेव समये आवरणस्य क्षय:- क्षीयमाणमावरणमित्यर्थः तस्मिक्षेत्र समये केवलज्ञानोत्पत्तिः, क्षीयमाणस्य क्षीणत्वात्, क्रियाकाल-निष्ठाकालयोरेकत्वात् भेदे चान्यत्र काले क्रिया, अन्यत्र व कार्योत्पत्तिरिति स्यात्, इदं चायुक्तम्, क्रियाविरहेsपि कार्योत्पत्यभ्युपगमात् इत्थं च क्रियारम्भकालात् पूर्वमपि कार्योत्पत्तिप्राप्तेरतिप्रसङ्गादिति ।
व्यवहारनयस्तु- आवरणक्षयसमयादनन्तरसमये केवलोत्पत्ति भणति, आवरणस्य क्षयसमये क्षीयमाणत्वात्, क्षीयमाणस्य चाक्षीणत्वात्, क्रियाकाल-निष्ठाकायोर्भेदात्, तदेकत्वे च क्रियाकालेऽपि कार्यस्य सच्चे क्रियावैयर्थ्यप्रसङ्गात् । न च समानकालविनोः क्रिया-कार्ययोः कार्यकारणभावो युज्यते, सव्येतरगोविषाणादीनामपि तत्प्रसङ्गात् ।। १३३४ ॥
तथाच व्यवहारनयों निजपक्षं समर्थयति
१ छद्मस्थकाद्विश्वरमसमये निद्रां क्षपयति प्रचलां च । चरमे केवललाभः क्षीणावरणान्तरायस्य ॥ १३३३ ।। २ आवरणसमये नैश्चयिकनयस्य केवलोत्पत्तिः । ततोऽनन्तरसमये व्यवहारः केवलं भणति ॥ १३३४ ॥
आणं न खिज्जमाणे, खीणे जुत्त जओ तदावरणे । न य किरियानिद्वाणं कालेगतं जओ जुत्तं ॥ १३५ ॥
यस्मात् क्षीयमाणे तदावरणे ज्ञानमुत्पद्यत इत्येतद् न युक्तम्, अस्य क्रियाकालत्वात्, तत्काले च कार्यसन्चाभ्युपगमस्य दूषितत्वात् ; किन्तु क्षीण एव तदावरणे ज्ञानं युज्यते, अस्य निष्ठाकालत्वात् । न च क्रिया-निष्ठयोः कालकत्वं युज्यते, प्रतिविहितत्वादिति ।। १३३५ ॥
अथ निश्चयनयः प्राह
जैइ किरियाए न खओ को हेऊ तप्परिक्खए अन्नो ? । अह ताए, किह काले अन्नत्थ तई, खओ णत्थ ? ॥ १३३६ ॥
हन्त ! व्यवहारवादिम् ! आवरणस्य क्षये भवता केवलोत्पत्तिरिष्यते, न तु तत्र क्षीयमाणे । तदत्र भवन्तं पृच्छाम:- आवरणक्षयकाले क्रिया समस्ति, नवा १ । यदि नास्ति, तर्हि क्रियामन्तरेणावरणक्षये कोऽन्यो हेतुरिति वक्तव्यम् - न कोऽपि प्राप्नोतीत्यर्थः । अथास्त्यावरणक्षयकाले तद्धेतुभूता क्रिया, तया च तत्क्षयो विधीयते; तर्ह्ययातं क्रियाकाल-निष्ठाकालयोरेकत्वम्, इति कथमुच्यते- 'अन्यसमये क्रिया, अन्यत्र च तत्परिक्षयः' १ ।। १३३६ ।।
किश्व
किरियाकालम्मि खओ जइ नत्थि तओ न होज्ज पच्छावि । जइवाकिरियस्य खओ पढमम्मि वि कीस किरियाए १॥ १३३७ यदि क्रियाकालेsयावरणस्य क्षयो नास्ति, ततः पश्चादप्यसौ न भवेत्, अक्रियत्वात्, पूर्वकालवदिति । अथवा, यदि क्रियानिवृत्तौ द्वितीयसमयेऽक्रियस्य सत आवरणक्षयोऽभ्युपगम्यते, तर्हि क्रियान्वितमथमसमये किं क्रियया, तामन्तरेणाप्यावरणक्षयोपपत्तेः, क्रियाविरहितद्वितीयसमयवदिति ।। १३३७ ॥
क्रियाकाल-निष्ठाकालयोश्चैकत्वमागमेऽप्युक्तम्, इति निश्चयः स्वपक्षं द्रढयन्नाह -
१ ज्ञान न क्षीयमाणे, क्षीणे युक्तं यतस्तदावरणे । न च क्रियानिहानं कालैकत्वं यतो युक्तम् ॥ १३३५ ॥
२ यदि क्रियया न क्षयः को हेतुस्तत्परिक्षयेऽन्यः १ अथ तया, कथं कालेऽन्यत्र सा, क्षयोऽन्यत्र ? ॥ १३३६ ॥
३ क्रियाकाले क्षयो यदि नास्ति ततो न भवेत् पश्चादपि । यदिवाऽक्रियस्य क्षयः प्रथमेऽपि किं क्रियया ? ॥ १३३७ ॥
For Private and Personal Use Only