________________
Shri Mahavir Jain Aradhana Kendra
विशेषा०
www.kobatirth.org
285
Acharya Shri Kallassagarsuri Gyanmandir
द्वितीय नियुक्तिगाथाभावार्थमाह
दात्तं देव अणं अइरा मरणं वणो विसप्पंतो। सव्वस्स दाहमग्गी दिति कसाया भवमणतं ॥ १३११ ॥
स्तोकमपि ऋण क्रमेण वर्धमानं दासत्वं ददाति, यथा- काचिद् वणिग्दुहिता गृहीतव्रतस्य निजभ्रातुरागतस्य प्रतिदिनं कर्षवृद्धया हट्टात् तैलस्य कर्षमानीय दत्तवती । साधुसेवाव्याक्षेपाच तया वणिजोऽसौ न दत्तः । वर्धमानश्च क्रमेण घटादिसंख्यां प्राप्तः । तया च कर्पासकर्तनमात्रेणैव जीवनादसौ दातुं न शक्तिः । ततस्तस्यैव वणिजः सा ऋणदासी संजाता । अन्यदा चामतेन तेनैव बन्धुसाधुना विज्ञातस्तद्वयतिकरः । कृता च तस्य वणिजो देशना । मोचयित्वा चेयं ग्राहिता दीक्षाम् । इत्येव दासत्वदायकं स्तोकमपि ऋणम् । स्तोकोsपि च व्रणशेषोऽपथ्यादिकमासाद्य विसर्पन्नन्तर्बहिश्च प्रसरन्नचिराद् मरणं प्रयच्छति । अग्नेश्व लवोऽपि मार्गादौ पतितस्तृणादिके लग्नः परंपरगा क्रमेण प्रसरन् समस्तमपि ग्राम-नगरादिकं निर्दहति । एवं स्तोकशेषा अपि कषायाः कुतश्चित् निमित्ताद् वृद्धि - पगच्छन्तोऽनन्तं भवमुपकल्पयन्तीति ।। १३११ ।।
वक्ष्यमाणगाथाप्रस्तावनार्थमाह
अवसमं सामाइयमुइयं खाइयमओ पवक्खामि । सुहुम महक्खायं पि य खयसेढिसमुब्भवं तं च ॥१३१२॥ तंदेवमौपशमिकं सामायिकं चारित्रमुक्तम्, इदानीं क्षायिकं तदुच्यते । इत्येका पातना । अथवा, सूक्ष्मसंपरायचारित्रं यथा•ख्या तचारित्रं चोपशमश्रेण्याश्रितमुक्तम्, इदानीं क्षपकश्रेणिसमुद्भवं तदेवाह ।। इति गाथाद्वयार्थः ।। १३१२ ।।
अणमिच्छ - मीस - सम्मं अट्ठ नपुंस-त्थिवेय-छक्कं च । पुमवेयं च खवेइ कोहाईए य संजलणे ॥ १३१३ ॥ इह क्षपक श्रेणिप्रतिपत्तोत्तमसंहननोऽविरत- देशविरत प्रमत्ता - प्रमत्तानामन्यतम उत्पन्नविशुद्धपरिणामो विज्ञेयः । तत्र पूर्वधरो surतः शुक्लध्यानोपगतोऽप्येतां प्रतिपद्यते, शेषास्त्वविरतादयो धर्मध्यानोपगता एव । क्षपणक्रमश्चायम्, तद्यथा- प्रथममन्तर्मुहूर्तेना
१ दासत्वं ददाति ऋणमचिराद् मरणं व्रणो विसर्पन् । सर्वस्य दाहममिदेदति कषाया भवमनन्तम् ॥ १३११ ॥ २ औपशमिकं सामायिकमुदितं क्षायिकमतः प्रवक्ष्यामि सूक्ष्ममथाख्यातमपि वक्षयश्रेणिसमुद्भवं तच्च ॥ १३१२ ॥
३ अम- मिथ्या मिश्र सम्यक्त्वानि अष्ट नपुंसक-स्त्रीवेद-चकानि च । वेदं च क्षपयति क्रोधादींश्च संज्वलनान् ॥ १३१३ ॥
'नन्तानुबन्धिनश्रतुरोऽपि क्रोधादीन् युगपत् क्षपयति, तदनन्तभागं च मिध्यात्वे प्रक्षिप्य ततो मिध्यात्वं सहैव तदंशेन युगपत् क्षपयति तथाहि - अतिसंभृतो दावानलः खल्वर्धदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि निर्दहति एवमसावपि क्षपकस्तीवशुभपरिणामत्वात सावशेषमन्यत्र प्रक्षिप्य क्षपयति । ततस्तथैव सम्यग्मिथ्यात्वम्, ततः सम्यक्त्वम् । इह च यदि बद्धायुः प्रतिपद्यते, अनन्तानुबन्धिक्ष ये च व्युपरमते, ततः पश्चात् कदाचिद् मिध्यात्वोदये पुनरप्यनन्तानुबन्धिचतुष्टयं बध्नाति, तस्याऽवन्ध्यतत्कारणत्वात् क्षीणमिथ्यात्वस्त तद् न बध्नाति, कारणाभावात् । तस्मिंश्चानन्तानुबन्धिचतुष्टये क्षीणेऽप्रतिपतितशुभपरिणाम एव यदि म्रियते तदा सुरलोकमेव एवं दर्शन सप्तकक्षयेऽपि कृते वाच्यम् । प्रतिपतितपरिणामस्तु यदि पश्चाद् म्रियते, तदा नानामतित्वाद् नानागतिको भवति । यदि च बद्धारियां श्रेणि प्रतिपद्यते तदा दर्शन सप्तकं समस्तमपि क्षपयित्वा नियमाद् व्युपरमत एव ततो यत्रायुर्वद्धं तत्रोत्पद्यते । यः पुनर बद्धायुः प्रतिपद्यते स निःशेषामप्येतां श्रेणीं समापयत्येव । तस्याश्चायं क्रमः- सम्यक्त्वस्य क्षपितशेषे स्वल्पेऽवतिष्ठमान एवाप्रत्याख्या न-प्रत्याख्यानावरणकषायाष्टकं समकमेत्र क्षपयितुमारभते । एतैश्चार्धक्षपितैरेवान्याः षोडश कर्मप्रकृतीः क्षपयति, तद्यथा - नरकानुपूर्व तिर्यगानुपूर्वी, नरकगति- तिर्यग्गतिलक्षणं गतिद्वयम् पञ्चेन्द्रियजातिवर्जाश्चतसचाया जातयः- एक द्वि-त्रि- चतुरिन्द्रियजातय इत्यर्थ आतपोद्योत - स्थावर- साधारण-सूक्ष्माणि । निद्रानिद्रा प्रचलाप्रचला - स्त्यानर्धिलक्षणं महानिद्रात्रयम् । एतत्क्षपणोत्तरकालं कषायाष्टकस् यच्छेषं तत् क्षपयति । ततो नपुंसकवेदम्, ततः स्त्रीवेदम्, ततो हास्यादिषट्कम्, ततः पुरुषवेदं खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्ष यति । तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति । पुरुषे प्रतिपत्तर्ययं क्रमो बोद्धव्यः, नपुंसकादौ तु प्रतिपत्तर्युदितवेदस्य पश्चा क्षपणम् ; शेषानुदितवेदद्वयस्य तु मध्येऽधमवेदस्य प्रथमम् इतरस्य तु तदनन्तरं क्षयः प्रागुक्तोपशमवद् वाच्यः । ततः क्रोधाद चतुरः संज्वलनान् प्रत्येकमन्तर्मुहूर्त कालेन क्षपयति । क्षपणं चैषां खण्डत्रयादिकरणक्रमेण पुरुषवेदवद् वाच्यम् । क्रोधसत्कं च तृतीय खण्डं माने प्रक्षिपति, मानसत्कं मायायाम्, तत्सत्कं तु लोभे । क्षपणकालश्च प्रत्येकं सर्वत्रान्तर्मुहूर्तमानो मन्तव्यः । श्रेणिरप्येषा बृह तरान्तमुहूर्तमानैव । सर्वाप्येकस्मिन्नपि बृहदन्तर्मुहूर्ते लघुतरान्तर्मुहूर्तानामसंख्येयानां प्राप्ते, लोभतृतीयखण्डं तु संख्येयानि खण्ड कृत्वा पृथक् पृथक् कालभेदेन क्षपयति । एषामपि संख्याततमं चरमखण्डमसंख्येयानि खण्डानि करोति । तान्यपि समये सम एकैकं क्षपयति । इह च क्षीणदर्शन सप्तको निवृत्तिवादर उच्यते । तत ऊर्ध्वं त्वनिवृत्तिवाद यावत् संख्याततमं लोभखण्डम तत ऊर्ध्वमसंख्येयानि तत्खण्डानि क्षपयन् सूक्ष्मसंपरायोऽभिधीयते, यावच्चरमलोभशिक्षयः । तत ऊर्ध्वं क्षीणमोहयथाख्यातचारिः भवति । स्थापना चेहोक्तानुसारेण विधेया ।। इति निर्युक्तिगाथार्थः ॥ १३१३ ॥ * निवर्ति- ।
For Private and Personal Use Only