________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
284
विशेषा०
उपशमकसूक्ष्मसंपर। यस्याधिकारे तत्समभाग इति कृत्वा तत्क्षपकोऽप्ययमेव निर्दिष्टः । यथोपशमश्रेण्यां नवमगुणस्थानकादुपरितनभागे सूक्ष्मसंपरायो भवति, तथा क्षपकश्रेण्यामपि, इति सामानभागत्वादुपशमकाधिकारे लाघवार्थ क्षपकोऽपि निर्दिष्ट इत्यर्थः । उपशमकसूक्ष्म संपरायचैतद्गुणस्थानकादतिक्रान्त उपशान्तमोहनिर्ग्रन्थलक्षणो यथाख्यातो भवति ।। १३०३ ।
ततः किम् १, इत्याह
बेडाऊ डिनो सेढिगओ वा पसंतमोहो वा । जइ कुणइ कोइ कालं वच्च तोऽणुत्तरसुरेसु || १३०४|| अनिबद्धाऊ होउं पसंतमोहो मुहुत्तमेतद्धं । उइयकसायो नियमा नियत्तए सेढिपडिलोमं ॥ १३०५ ॥
Acharya Shri Kallassagarsuri Gyanmandir
यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानकवर्ती वा, उपशान्तमोहो वा भूत्वा कालं करोति, तदा नियमेनानुतरसुरेष्वेवोत्पद्यते श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनादिति । अथाऽद्धायुस्तां प्रतिपद्यते, तदाऽन्तर्मुहूर्तमुपशान्तमोहो भूत्वा ततः कुतश्चिद् निमित्तादुदितकषायः स नियमेन श्रेणिप्रतिलोमं पश्चान्मुखं विप्रतिपतति एतावन्मात्रकाल भावित्वादेवास्याः ।। इति गाथात्र्यार्थः ।। १३०४ ।। १३०५ ॥
अत एव दुरन्तं कषायसामर्थ्यमुत्कीर्तयन्नाह -
सामं उवणीया गुणमया जिणचरित्तसरिसं पि । पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥१३०६ ॥ उपशमनमुपशमस्तमपिशब्दात् क्षयोपशममप्युपनीताः । केनोपशममुपनीताः १, इत्याह-- गुणैर्महान गुणनहान् उपशमकस्तेन गुणमहतोपशमकेन । प्रतिपातयन्ति कषायाः संयमात्, भने वा । कम् । तमेवोपशमकम् । कथंभूतम् ? जिनस्य केवलिनश्चारित्रेण कृत्या सदृशस्तुल्यो जिनचारित्रसदृशः, द्वयोरप्युपशान्त- मोहकेवलिनोः कषायोदयरहितचारित्रयुक्तत्वाज्जिनसमानचारित्र इत्यर्थः, तमेवंभूतमपि । किं पुनः शेषान् सरागस्थान् न प्रतिपातयन्ति १ ॥ इति नियुक्तिगाथार्थः ।। १३०६ ।।
१ बद्धाः पतिपन्नः श्रेणिगतो वा प्रशान्तमोहो वा । यदि करोति कोऽपि कालं व्रजति ततोऽनुरसुरेषु ॥ ६३०४ ॥ अनिवायुर्भुवा प्रशान्तमोहो मुहूर्तमात्रार्धम् । उदितकपायो नियमाद् निवर्तते श्रेणिप्रतिलोमम् ॥ १३५ ॥
२ उपशमना गुणमहता जिनचारित्रसदृशमपि । प्रतिपातयन्ति कषायाः किं पुनः शेषान् मरागस्थान् । ॥ ३०६ ॥
भाष्यम्
देवमियं जो छारच्छन्नोऽगणि व्व पच्चयओ । दावेइ जह सख्यं तह स कसायोदए सुज्जो ॥१३०७॥ यथा दवाग्निदग्पोऽञ्जनद्रुमः पुनरपि प्रत्ययत उदकाऽऽसेचनादिकारण संसर्गादिक्रूर-मवाल-पत्र- पुष्पादिरूपं निजस्वरूपं दर्शयति, यथा वा भस्माच्छन्नोऽनिः प्रत्ययतस्तृणादीन्धनकारणसाहाय्यात् पुनरपि दाहपाकादिकर्तुत्वलक्षणं निजस्वरूपं प्रकटयति, यथा वा मिथ्यापनी नामयोऽपथ्यादिप्रत्ययतः पुनरपि निजस्वभावमाविष्करोति, तथा सोऽप्युपशान्तकपायो जीवः खशरीरोपपादिमुच्छादि प्रत्ययतः पुनरपि कषायोदये पूर्वस्वरूपं दर्शयति, यतोऽयमुपशान्तमोहः 'अण्णयरसेदिवज्जं' इत्यादिवचनात् सैद्धान्तिकतेन तस्मि क्षेत्र भने क्षपकश्रेणि न करोति, तामन्तरेण च न सिध्यति, उत्कृष्टतश्च देशोनार्थपुद्गलपरावर्तरूपं संसारं पर्यटति । तमाद विहितोशमश्रेणिरन्तर्मुहूर्ता नियमेन प्रतिपततीति ।। १३०७ ॥
एनदेवाह
तम्भि भवे निव्वाणं न लभइ उक्कोसओ व संसारं । पोग्गलपरिवदृद्धं देतोणं कोइ हिण्डेजा ॥१३०८॥ ना || इति गाथाद्वयार्थः ।। १३०८ ॥
अहो ! महदाश्चर्यम्, यदेकादशं मोक्षप्रासादसोपानमारुह्यापि हतजीवः पुनरपि परिभ्रष्ट एतावद् दुःखमनुभवति, इति विस्मि तात्मा गुरुरुपदेशमाह -
इ उवसंतकसाओ लहइ अणतं पुणो वि पडिवायं । न हु भे वीससियव्त्रं थेवे वि कसाय से सम्मि || १३०९ ॥ अणथोवं वणथोत्रं अग्गीथोवं कसायथोवं च । न हु भे वीससियव्वं थेवं पि हु तं बहु होइ ॥ १३१ ॥ न हु भेत्ति ' नैव भवद्भिर्विश्वसितव्यं स्तोकेऽपि कषायशेषे, किन्तु मिथ्यादुष्कृतादिभिर्झटित्येव ततो निवर्तनीयमिति । अ ऋणम् । शेषं सुगमम् ॥ इति नियुक्तिगाथाद्वयम् ।। १३०९ ॥ १३१० ॥
"
१ दवदग्धा अनमो भमच्छन्नोऽग्निरिव प्रत्ययतः । दर्शयति यथा स्वरूपं तथा स कषायोदये भूयः ॥ १३०७ ॥ ३ तस्मिन् भत्रे निर्वाणं न लभत उत्कृष्टतो वा संसारम् । पुलपरिवर्तार्थं देशोनं कचिद् हिण्डेत् ॥ १३०८ ॥ पशान्तकषायो लभतेऽनन्तं पुनरपि प्रतिपातम् । न हि भवद्भिविश्वसितव्यं स्तोकेऽपि कषायशेषे ॥ १३०९ ॥ ऋणस्तीकं व्रणस्तोकमनिस्तोकं कपायस्तोकं च । न हि भवद्भिर्विश्वसितव्यं स्तोकमपि हि तद् बहु भवति ॥ १३१० ॥
४
For Private and Personal Use Only
२ गाथा १२२३।