________________
Acharya Shri Kallassagarsuri Gy
an
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
255 विशेषा. ज्ञानस्य निर्वाणहेतुत्वं न स्यात् , किन्तु चरणस्यैव ज्ञानरहितस्यापि तत स्यात, अनिष्टं चैतत , “सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः" तथा, "नाण-किरियाहि मोक्खो" इत्यादिवचनादिति । इह तु ज्ञान-चरणयोः समानेऽपि निर्वाणहेतुत्वे गुण-प्रधानभावख्यापनार्थमित्यमुपन्यासः 'तस्स वि सारो चरण' इति । 'सारो चरणस्स निव्वाणं ति' अत्र सारशब्दः फलबचना, चरणस्य संयम-तपोरूपस्य सारः फलं निर्वाणमित्यर्थः । इहापि शैलेश्यवस्थाभाबिसर्वसंवररूपचारित्रमन्तरेण निर्वाणस्याऽभावात् , तद्भावे चावश्यंभावादित्यमुक्तम्, अन्यथा सम्यग्दर्शनादित्रयस्य समुदितस्यैव निर्वाणहेतुत्वमवगन्तव्यम् , शैलेश्यवस्थायामणि क्षायिकदर्शन-ज्ञानयोरवयं सद्भावात् ॥ इति नियुक्तिगाथार्थः ॥११२६ ॥
तदेवं तं पुण किमाइ-पज्जन्तमाणमह को व से सारो' इत्यनया प्रागुक्तसामान्यतया समायातं व्याख्यातं 'तस्स वि सारो चरणं' इति गाथादलम् । साम्प्रतं त्वस्य पातनान्तरमाह
सोउं सुयण्णवं वा दुग्गेझं सारमेत्तमेयस्स । घेच्छं तयं ति पुच्छइ सीसो चरणं गुरू भणइ ॥११२७॥
'वा' इत्यथवा पातनान्तरमूचकः । 'सोउं ति' सामायिकादि विन्दुसारपर्यन्तं श्रुतार्णवं दुर्ग्राह्यमतिदुस्तरं श्रुत्वा 'यदि समस्तमपि तं ग्रहीतुं न शक्ष्यामि, तर्हि सारमात्रमस्य श्रुतार्णवस्य ग्रहीष्यामि' इति सश्चिन्त्य शिष्यस्तत्सारमात्रं पृच्छति-'कोऽस्य द्वादशाङ्गस्य सारः' इति सोपस्कारमिह व्याख्येयम् । तत्र गुरुर्भणति- तस्यापि श्रुतज्ञानत्य सारश्वरणमिति । एतत्पुनरपृष्टेनापि गुरुणा नियुक्तिगाधान्ते भोक्तम्- सारश्चरणस्य निर्वाणमिति ॥११२७॥
अथ प्रेरकः प्राहअन्नाणओ हय त्तिय किरिया नाण-किरियाहिं निव्वाणं। भणियं तोकिह चरणं सारो नाणस्स तमसारो ?॥११२८॥
ननु 'हयं नाणं कियाहीणं हया अन्नाणओ किया' इत्यादिवचनादज्ञानतो हतैव क्रिया, इति ज्ञान-क्रियाभ्यां समुदिताभ्यामेत्र निर्वाणमागमे भणितम्- अनेकस्थानेषु प्रतिपादितम् । ततः कथं ज्ञानस्य सारश्चरणम् , तत्तु ज्ञानमसारः ? इति ॥११२८ ॥
तवार्थाधिगमसूत्रे १,१ । २ ज्ञान-क्रियाभ्यां मोक्षः । ३ गाथा ११२५ । ४ श्रुत्वा श्रुतार्णवं वा दुग्रहं सारमात्रमेतस्य । ग्रहीष्यामि तदिति पृच्छति शिष्यश्चरणं गुरुर्भणति ॥ ११२७ ॥ ५ अज्ञानतो हनेति च किया जान-क्रियाभ्यां निर्वाणम् । भणितं ततः कथं चरणं सारो ज्ञानस्य तदसारः ॥ १२॥ ६ गाथा ११५९ । अत्रोत्तरमाहचरणोवलडिहेऊ जं नाणं चरणओ य निव्वाणं । सारो त्ति तेण चरणं पहाण-गुणभावओ भणियं ॥११२९॥ नाणं पयासयं वि गुत्ति-विसुडिफलं च जं चरणं । मोक्खो य दुगाहीणो चरणं नाणस्म तो सारो ॥११३०॥
यद् यस्माद् मति-श्रुतादिकं ज्ञानं चरणोपलब्धेश्चारित्रप्राप्लेरेच मुख्य कारणम् , ज्ञानं विना चरणविषयस्य जीवा-जीवादेयापादेयादेश्च वस्तुनोऽपरिज्ञानात् , अपरिज्ञातस्य च यथावत् कर्तुमशक्यत्वात् । चरणाच तपःसंयमरूपाद् निर्वाणमुपजायते । अतो निर्वाणस्य सर्वसंवररूपं चरणमेव मुख्यं प्रधानं कारणम् , ज्ञानं तु कारणकारणत्वाद् गौणं तस्य कारणम् । अतस्तेन कारणेन प्रधानगुणभावाज्ज्ञानस्य सारश्चरणं भणितम् ।
प्रधान-गुणभावमेव भावयति- 'नाणमित्यादि' ज्ञानं यस्मात् कृत्या-ऽकृत्यादिवस्तुनः प्रकाशकमेव वस्तुपरिज्ञानमात्रे व्याप्रियत इत्यर्थः । चरणं पुनर्गुप्ति-विशुद्धिफलम्-- गुप्तिः संवरः, विशुदिस्तु कर्मनिर्जरा, गुप्ति-विशुद्धी फलं यस्य तत् तथा । एवं च सति शान-चरणलक्षणद्वयाधीनो मोक्षः, केवलं प्रधानतया चरणस्याऽधीनोऽसो, गीणतयेव च ज्ञानस्य । ततः प्रधान-गुणभावाच्चरणं ज्ञानस्य सार इति ॥११२९ ।। ११३० ॥
प्रकारान्तरेणापि ज्ञानाच्चारित्रस्य प्रधानत्वं भावयन्नाह' जै सम्बनाणलाभाणंतरमहवा न मुच्चए सव्वो । मुच्चइ य सव्वसंवरलाभे तो सो पहाणयरो ॥११३१॥
अथवा, यद् यस्मात् सर्व जानातीति सर्वज्ञानं केवलज्ञानं तल्लाभानन्तरमेव सर्वोऽपि प्राणी न मुच्यते- न मुक्ति प्राप्नोति, मुच्यते च यस्माच्छैलेश्यवस्थायां सर्वसंवरलाभेऽवश्यमेव सर्वः । ततो ज्ञायते केवलज्ञानादप्यन्वय-व्यतिरेकाभ्यां मुख्यो मोक्षकर्ता सर्वसंवर एवं प्रधानतरः, स च क्रियारूपत्वाच्चारित्रमिति ॥ ११३१ ॥ अमुमेवार्थ समर्थयबाह
चरणोपलब्धिहेतुर्यज्जानं चरणतश्च निर्वाणम् । सार इति तेन चरणं प्रधान-गुणभावतो भणितम् ॥ ११२९॥ ज्ञानं प्रकाशकमपि गुप्ति-विशुविफलं च यचरणम् । मोक्षश्च द्विकाधीनश्चरणं ज्ञानस्य ततः सारः ॥११३०॥ २ यत् सर्वज्ञानलाभानन्तरमथवा न मुच्यते सर्वः । मुच्यते च सर्वसंवरलाभे ततः स प्रधानतरः ११३१॥ ।
For Private and Personal Use Only