________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
254
विशेषा०
आह-ननु भाष्यमाणः सर्वत्र शब्द एव दृश्यते, यस्त्वर्थः सोऽनभिलाप्यः- अशब्दात्मकत्वाद् वक्तुमशक्य एव, इति कथं स तीर्थकरस्तमशब्दरूपमर्थ भाषते ? । उच्यते- अर्थप्रत्यायनफले शब्द एव तदुपचारोऽर्थोपचारः क्रियते । एतदुक्तं भवति- अर्थप्रतिपादनस्य कारणभूते शब्देऽर्थोपचारं कृत्वार्थ भाषत इत्युच्यत इत्यदोष इति ॥ ११२०॥ प्रेरका माहतो सुत्तमेव भासइ अत्थप्पञ्चायगं, न नामत्थं । गणहारिणो वि तं चिय करेंति को पडिविसेसो त्थ ? ॥११२१॥
ततस्तहि त्वदुक्तयुक्त्या शब्दभाषकस्तीर्थकरः सूत्रमेवाऽर्थप्रत्यायकं भाषते, न त्वर्थम् । गणधारिणोऽपि तदेव कुर्वन्ति, तत् को नामोभयव विशेषः १- न कश्चिदिति ॥ ११२१॥
आचार्यः माह
सो पुरिसोविक्खाए थोवं भणइ न उ बारसंगाई । अत्थो तर्देविक्खाए सुत्तं चिय गणहराणं तं ॥११२२॥ - ननु प्रागेवोक्तं यत्- गणधरलक्षणपुरुषापेक्षया स तीर्थकरः "उपजेइ वा, विगमेइ वा, धुवेइ वा" इति मातृकापदत्रयमात्ररूपं स्तोकमेव भाषते, न तु द्वादशाऽङ्गानि । ततश्च तद् मातृकापदत्रयमात्र शब्दरूपमपि सत् तदपेक्षया द्वादशाङ्गापक्षया तदर्थसंक्षेपरूपत्वादों भण्यते । गणधराणां तु गणधरापेक्षया स्वित्यर्थः, तदेव मातृकापदत्रयं शब्दरूपत्वात् सूत्रम् , इति नोभयत्र समानतादोष इति ॥११२२।।
आह- ननु मातृकापदत्रयस्य शब्दरूपत्वात् मूत्ररूपता बुध्यते, अर्थरूपतां तु तस्य नावगच्छाम इत्याशङ्कय पुनरपि तस्य तां 'समर्थयन्नाह
अंगाइसुत्तरयणानिरवेक्खो जेण तेण सो अत्थो । अहवा न सेसपवयणहियउ त्ति जह बारसंगमिण॥११२३॥ पवयणहियं पुण तयं जं सुहगहणाइ गणहरेहितो। बारसविहं पवत्तइ निउणं सुहुमं महत्थं च ॥ ११२४ ॥
१ ततः सूत्रमेव भाषतेऽर्थप्रत्यायकं, न नामार्थम् । गणधारिणोऽपि तदेव कुर्वन्ति का प्रतिविशेषोऽत्र ॥११२१॥ २स पुरुषापेक्षया स्तोकं भणति न तु द्वादशाङ्गानि । अर्थस्तदपेक्षया सूत्रमेव गणधराणां तत् ॥ ११२२॥ ३ क. ग.'सावेक्खा' । ४ क.ग. दवेक्खा '। ५ उत्पद्यते वा, विगच्छति वा, ध्रुवं वा। ६ 'क. घ. छ. 'प्पण्णेई'। ७ अङ्गादिसूत्ररचनानिरपेक्षी येन तेन सोऽर्थः । अथवा न शेषप्रवचनहितक इति यथा द्वादशाङ्गमिदम् ॥ ११२३ ॥
प्रवचनहितं पुनस्तद् यत् सुखग्रहणादि गणधरेभ्यः । द्वादशविधं प्रवर्तते निपुणं सूक्ष्म महार्थं च ॥ १२४ ॥ ८ ‘णहेउ' । अङ्गा-ऽनङ्गादिविभागेन विरचितमेव मूत्र प्रसिद्धम् , अयं तु मातृकापदत्रयरूपः शब्दो येन कारणेनाऽङ्गादिविभागेन या सूत्ररचना तन्निरपेक्षस्तत्समुदायार्थरूपत्वेन तदहिभूत इत्यतः सोऽर्थ इति व्यपदिश्यते । अथवा, शेषस्य गणधरापेक्षयाऽन्यस्य संघरूपस्य प्रवचनस्य यः सुखग्रहण-धारणादिभ्यो हितः शब्दराशिः स एव मूत्रतया प्रोक्तः । अयं तु मातृकापदत्रयरूपः शब्दो न शेषप्रवचनस्येत्थं हितः, यथेदं द्वादशाङ्गम् , अतो नासौ मूत्रम्, किन्त्वर्थ इति । तत्पुनः शब्दजालं शेपप्रवचनस्य हितमेव । यत् किम् ?, इत्याह- यत् सुखग्रहणादिकारणेभ्यो द्वादशधा- आचारादिद्वादशभेदं गणधरेभ्यः प्रवर्तते । अतस्तदेव मूत्रम्, मातृकापदत्रयं त्वर्थ इति स्थितम् । अथ "निउणं' इति नियुक्तिगाथावयत्रस्यार्थमाह- तदाचारादिकं द्वादशविधं मूत्रं कथम्भूतम् ?, निपुणं मूक्ष्मम् , सूक्ष्मार्थप्रतिपादकत्वात् । महानपरिमितोऽर्थो यास्मिंस्तद् महार्थं च निपुणमिति ॥ ११२३ ॥ ११२४॥
अर्थान्तरमाह--- 'निययगुणं वा निउणं निदोसं गणहराऽहवा निउणा । तं पुण किमाइ-पजंतमाणमह को न से सारो ?॥११२५॥
अथवा, नियतगुणं निश्चितगुणं निगुणं संनिहितसमस्तमूत्रगुणत्वाद् निर्दोषमित्यर्थः । 'निउणा' इति पाठान्तरे गणधरा विशेप्यन्ते-निपुणाः, सूक्ष्मार्थदर्शित्वात् , निगुणा वा गणधराः, संनिहितसमस्तगुणत्वादित्यर्थः । वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाहतत् पुनः श्रुतं किमादि ?, किंपर्यन्तमानं-कियत्परिमाणम् १, को वाऽस्य सारः ॥ इति गाथाषद्कार्थः ॥ ११२५ ॥ .
अनन्तरपृष्टस्यैवोत्तरमाह
सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ । तस्स वि सारो चरणं सारो चरणरस निव्वाणं ॥ ११२६ ॥
तच्च श्रुतज्ञानं सामायिकादि वर्तते, चरणप्रतिपत्तिकाले सामायिकस्यैवादौ प्रदानात् । यावद् बिन्दुसारादिति बिन्दुसाराभिधानचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दादेव च द्वय-ऽनेक-द्वादशपरिमाणं तद् वेदितव्यम् । तस्यापि श्रुतज्ञानस्य सारश्चरणम् । सारशब्दोत्र प्रधानवचनः, फलवचनश्च मन्तव्यः; तस्मादपि श्रुतज्ञानाचारित्रं प्रधानम् , तस्य फलं च तदित्यर्थः । अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव । अथवा, अपिशब्दस्य व्यवहितः संवन्धः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दाद् निर्वाणमपीत्यर्थः, अन्यथा
१ गाथा १११९। २नियतगुणं वा निपुणं निर्दोषं गणधरा अथवा निपुणाः । तत्पुनः किमादि-पर्यन्तमानमथ को वा तस्य सारः॥ ११२५॥ ३ क. ग. 'श्रुतज्ञानं कि' । ४ सामायिकादिकं श्रुतज्ञानं यावद् बिन्दुसारात् । तस्यापि सारश्चरणं सारश्चरणस्य निर्वाणम् ॥ २६ ॥
For Private and Personal Use Only