________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
253
Acharya Shri Kallassagarsuri Gyanmandir
विशेषा०
मुलं भगवता तीर्थकरेणोक्तं वचनदृन्दं मुत्कलकुसुमनिकुरम्बमित्र ग्रथितं सूत्रीकृतं सद् ग्रहीतुं वाऽऽदातुं सुखं भवति । इदमुक्तं भवति - पद- वाक्य प्रकरणाऽध्याय- प्राभृतादिनियतक्रमस्थापितं जिनवचनमयत्नत एवं ग्रहीतुं शक्यम्- 'एतावदस्य गृहीतम्, 'एतावच्चायापि पुरस्ताद् ग्रहीतव्यम्' इत्यादिविवक्षया ग्रथितं सत् सुखेनैव ग्रहीतुं शक्यमित्यर्थः । तथा, गुणनं च धारणा च गुणन-धारणे, ते अपि ग्रथिते सूत्रे सुखं भवतः । तत्र गुणनं परावर्तनमभ्यासः, धारणा त्वविच्युतिरविस्मृतिः । तथा, दातुं प्रष्टुं च सुखमेव भवति । तत्र दानं शिष्येभ्योऽतिसर्जनम्, प्रश्नस्तु संशयापन्नस्य निःसंशयार्थ गुरुप्रच्छनम् । एतैः कारणैः कृतं रचितं गणधरैः । किं तत् ?, इत्याह- 'जीयं ति' जीवितं श्रुतं द्वादशाङ्गम् । अयमत्राभिप्रायः- यथा जीवस्य जीवितमात्रं न कदाचिद् व्यवच्छिद्यते, तथाsव्यवच्छित्तिनयाभिप्रायतः श्रुतमपि न कदाचिद् व्यवच्छिद्यते । अतो जीवितमिव जीवितं श्रुतमुच्यते, तद्गणधरैः सुखग्रहणादिकारणेभ्यः कृतम् । अथवा, न सुखादिकारणेभ्य एव किं तर्हि ?, 'जीयं ति' जीवितं मर्यादा, ततश्च गणधराणां जीवितं धर्मो मर्यादैवेयं यदुततन्नामकर्मोदयतस्तत्स्वाभाव्यात् कर्तव्यमेव तैः श्रुतविरचनम् । अथवा, 'जीयं ति जीवितमाचरितम्, कल्प एवाऽयं सर्वगणधराणां यत् तैः संदर्भणीयमेव श्रुतम् । अतः समस्तगणधरैरेतस्मादपि हेतोः कृतं श्रुतं 'इदम्' इति शेषः । इति नियुक्तिगाथार्थः ॥ १११३ ॥
अत्र भाष्यम्---
मुक्ककुसुमाणं गहणाइयाई जह दुक्करं करेउं जे। गुच्छाणं तु सुहयरं तहेव जिणवयणकुसुमाणं ॥ १११४॥ पक्क - पगरण - ज्झाय पाहुडाइनियतक्कमपमाणं । तदणुसरता सुहं चिय घेप्पइ गहियं इदं गेयं ॥ १११५॥ एवं गुणणं धरणं दाणं पुच्छा य तदणुसारेणं । होइ सुहं जीयं पि य कायव्वमिदं जओवरसं ॥ १११६ ॥
1
सव्वेहिं गणहरेहिं जीयं ति सुयं जओ न वोच्छिन्नं । गणहरमज्जाया वा जीयं सव्वाणुचिन्नं वा ॥ १११७॥ यथा मुस्कानां मुकलानां कुसुमानां ग्रहणादीनि कर्तुं दुष्कराणि, ग्रथितानां तु सुकराणि तथा जिनवचनकुसुमानामपि द्रष्टव्यम् । अतो गणधरास्तानि ग्रनन्ति । 'अज्झाय त्ति' अध्ययनम्, प्राभृतं पूर्वान्तर्गतः श्रुतविशेषः । 'गहियं इदं गेज्झं ति' एतावदस्य
१ मुत्ककुसुमानां ग्रहणादिकानि यथा दुष्कराणि कर्तुम् । गुच्छानां तु सुखकरं तथैव जिनवचनकुसुमानाम् ॥ १११४ ॥ पद- वाक्य प्रकरणाsध्याय- प्राभृतादिनियतक्रमप्रमाणम्। तदनुसरता सुखमेव गृह्यते गृहीतमिदं ग्राह्यम् ॥ १११५ ॥ एवं गुणनं धरणं दानं पृच्छा च तदनुसारेण । भवति सुखं जीवितमित्यपि च कर्तव्यमिदं यतोऽवश्यम् ॥ १११६ ॥ रजतमिति श्रुतं यतो न व्यवच्छिन्नम् । गणधर मर्यादा वा जीवितं सर्वानुचणं वा ॥ १११७ ॥
गृहीतम् एतावचाचापि पुरस्ताद् ग्रहीतव्यम्, इत्यादिविवक्षया पद वाक्यादिक्रमेण विरचितं सत् तत्पदायनुसरता सुखेनैव श्रुतं गृह्यते, एवं गुणनाद्यपि सुखं भवति, अत एतेभ्यः कारणेभ्यः 'जीयं पि य त्ति' जीवितं श्रुतम् । अथवा, जीवितं मर्यादा । यदिवा जीवितं सर्वानुचीर्णम् । कोऽर्थः ९, इत्याह- 'कायन्त्रमित्यादि' कर्तव्यमिदं यतोऽवश्यं सर्वैर्गणधरैः, इत्युत्तरगाथायां संबन्धः । ततो जीवितं द्वादशाङ्गश्रुतं, मर्यादा, सर्वगणवराचीर्ण वेदमिति कृत्वा कृतं कथितं गणधरैरिति । तदेवं 'जीयं' इति शब्दस्वार्थत्रयं भवति, इति तांखीनप्यर्थस्तस्य दर्शयति- 'जीयं ति सुर्य' इत्यादि । शेषं सुगमम् ।। इति गाथाचतुष्टयार्थः ॥ १११४ ॥ १११५ ।। १११६ ।। १११७ ।।
उत्तरनिर्युक्तिगाथा संबन्धनार्थमाह
जिंणभणिइ चिय सुत्तं गणहरकरणम्मि को विसेसो त्थ ? । सो तदविक्खं भासइ न उ वित्थरओ सुयं किंतु ॥ १११८ ॥ ननु 'तित्थयरभासियाईं गंथति' इत्यादिवचनाज्जिनभणितिरेव तीर्थकरोक्तिरेव तर्हि श्रुतम् गणधरसूत्रीकरणे तु तत्र को विशेषः १ । अत्रोच्यते स तीर्थकरस्तदपेक्षं गणधरमज्ञापेक्षमेव किञ्चिदल्पं भाषते, न तु सर्वजनसाधारण विस्तरतः समस्तमपि द्वादशाङ्गश्रुतम्, किन्तु यद् भाषते तद्दर्श्यते ॥ इति गाथार्थः ॥ १११८ ॥ किं पुनस्तत् १, इत्याह
अथ भाइ अरहा सुतं गंथंति गणहरा निउणं । सासणस्स हियद्वाए तओ सुत्तं पवत्तेइ ॥ १११९ ॥ अर्थमेवान् भापते, न सूत्रं द्वादशाङ्गरूपम् । गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकं बहर्थे चेत्यर्थः अथवा, नियताः प्रमाणनिश्चिता गुणा यत्र तद् नियतगुणं निगुणं ग्रथ्नन्ति । ततः शासनस्य हितार्थ सूत्रं प्रवर्तते ।। इति निर्युक्तिगाथाक्षरार्थः ॥ १११९ ॥
भावार्थं त्वभिधित्सुर्भाष्यकारः मेर्य परिहारं च प्राह
ty अत्थोऽभिलप्पो स कहं भासइ न सद्दरूवो सो ? । सद्दम्मि तदुवयारो अत्थप्पञ्चायणफलम्मि ॥११२० ॥
१ जिनभणितिरेव सूत्रं गणधरकरणे को विशेषोऽत्र । स तदपेक्षं भाषते न तु विस्तरतः श्रुतं किन्तु ॥ १११८ ॥ २ गाथा १०९५ ।
३. अर्थ भाषतेऽर्हन् सूत्रं प्रश्नन्ति गणधरा निपुणम् शासनस्य हितार्थं ततः सूत्रं प्रवर्तते ॥ १११९ ॥
४ नम्वर्थोऽमभिलाप्यः स कथं भाषते न शब्दरूपः सः ? शब्दे तदुपचारोऽर्थप्रत्यायनफले ॥ ११२० ॥
For Private and Personal Use Only