________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
252
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
गते कत्थो जेणोदिन्नं जिणिन्दनामं से । तदवझष्फलं तस्स य खवणोवाओऽयमेव जओ ॥ ११०३ ॥ जं व कयत्थस्स वि से अणुवकयपरोवगारिसाभव्वं । परमहियदेसयत्तं भासयसाभव्वमिव रविणो ॥ ११०४॥ किं व कमलेसु राओ रविणो बोहेइ जेण सो ताइं । कुमुएस व से दोसो जं न विबुज्झति से ताई | | | ११०५॥ जं बोह-मउलणाई सूरकरामरिसओ समाणाओ । कमण कुमुयाण तो तं साभव्वं तस्स तेसिं च ॥ ११०६॥ जह बोलूगाईणं पगासधम्मा वि सो सदोसेणं । उइओ वि तमोरूवो एवमभव्वाण जिणसूरो ॥ ११०७ ॥ सज्यं तिच्छिमाणो रोगं रागी न भण्णए वेज्जो । मुणमाणो य असज्यं निसेहयंतो जह अदोसो ॥११०८ ॥ तह भव्वकम्मरोगं नासंतो रागवं न जिणवेज्जो । न य दोसी अभव्वासज्झकम्मरोगं निसेहतो ॥११०९ ॥ मोत्तुमजोग्गं जोग्गे दलिए रूवं करेइ रूयारो । न य रागद्दोसिलो तहेव जोग्गे विबोहंतो ॥ १११० ॥
सर्वा अपि सुगमाः, नवरं नैकान्तेन तीर्थकरः कृतार्थः, येन तीर्थकरनाम 'से' तस्योदीर्णम्, तच्चाऽवन्ध्यफलम् इति नाऽवेदितं atra | तत्क्षणोपायच यस्मादयमेव धमेकथनादिकः, ततः कथयतीति । किश्वच, कृतार्थत्वे सत्यपि रवेर्भासकस्वाभाव्यमित्र यत् यस्मात् 'से' तस्य भगवतस्तीर्थकरस्य कृतार्थस्यापि यदिदं परमहितदेशकत्वं तदनुपकृतोपकारिणः स्वभावोऽनुपकृतोपका रिस्वभावस्तस्य भावो - Sनुपकृतोपकारिस्वाभाव्यं तस्मात् कथयति । कृतार्थस्याऽप्यनुपकृतोपकारिणो भगवतः परोपदेशदातृत्वं स्वभावत एव इत्यतस्तस्वाभान्यात् कथयतीति तात्पर्यमिति ।
१ नैकान्तेन कृतार्थो येनोदीणं जिनेन्द्रनाम तस्य । तद्वन्ध्यफलं तस्य च क्षपणोपायोऽयमेव यतः ॥ ११०३ ॥ यद्वा कृतार्थस्यापि तस्यानुपकृतपरोपकारिस्वाभाव्यम्। परमहितदेशकत्वं भासकस्वाभाव्यमित्र रवेः ॥ ११०४ ॥ किंवा कमलेषु रागो बोधयति येन स तानि । कुमुदेषु वा तस्य दोषो यद् न विबुध्यन्ते तस्य तानि ? ॥ ११०५ ॥ 3. 10 ( है ) नबोध-मुकुलने सूरकरामर्शतः समानात् । कमल कुमुदानां ततस्तत् स्वाभाव्यं तस्य तेषां च ॥ ११०६ ॥ यथा वोकादीनां प्रकाशधर्माऽपि स स्वदोषेण । उदितोऽपि तमोरूप एवम भव्यानां जिनसूरः ॥ ११०७ ॥ साध्यं चिकित्सन रोगं रागी न भव्यते वैद्यः । जानंश्वासाध्यमनिषेधन् यथाऽदोषः ॥ ११०८ ॥
I
तथा भव्य कर्मरोगं नाशयन् रागवान् न जिनवैद्यः । न च दोष्यभव्यासाध्यकर्मरोगमनिषेधन् ॥ ११०९ ॥ मोक्तुमयोग्यं योग्ये दलिके रूपं करोति रूपकारः । न च राग-दोपवस्तथैव योग्याम् विबोधन् ॥ १११० ॥ २. छ. 'हो'। (३) न च भव्याने प्रतियोधयतस्तस्य राग-द्वेषौ इति दृष्टान्तेन दर्शयति- 'किं व कमलेसु इत्यादि' | 'से त्ति' । 'से' तस्य रवेः प्रतिबोधोऽपि यत् तानि कुमुदानि न विबुध्यन्त इति । तस्मात् कोऽत्राभिप्रायः १, इत्याह- 'जं बोहेत्यादि' समानादपि सूरकरपरामर्शाद् यतो बोध-मुकुलनानि यथासंख्यमेव कमल-कुपुदानां जायमानानि दृष्टानि, 'तो त्ति' ततो ज्ञायते तस्य रवेः, तेषां च कमल-कुमुदानां स्वभावोऽयं यद्- रविः कमलान्येव वोधयति न तु कुमुदानि, कमलान्यपि रवेः सकाशाद् बुध्यन्ते न कुमुदानि, न पुनरिह कस्यापि राग-द्वेषौ । एवं भगवतोऽपि भव्या-भव्येषु योज्यमिति । दृष्टान्तान्तरमाह- 'जह वेत्यादि' उलूकादीनां रात्रिञ्चराणां घूकादीनां 'सोत्ति' रविः । अपरमप्यत्र दृष्टान्तमाह- 'सज्झमित्यादि' । अत्रैवोदाहरणान्तरमाह- 'मोतुमित्यादि' दलिके काष्ठादौ 'रूयारो' रूपकारः । इति व्याख्याता प्रथमनियुक्तिगाथा ।। ११०३ ।। ११०४ ।। ११०५ ।। ११०६ ।। ११०७ ।। ११०८ ।। ११०९ ।। १११० ।।
अथ द्वितीयनियुक्तिगाथा व्याख्यानमाह
* तं नाणकुसुमबुद्धिं घेत्तुं बीयाइबुद्धओ सव्वं । गंधति पवयणट्ठा माला इव चित्तकुसुमाणं ॥ ११११ ॥
यं वयणं पवयणमिह सुयनाणं कहं तयं होज्जा ? । पवयणमहवा संघो गहंति तयणुग्गहंडाए ||१११२ ॥
तां तीर्थकरमुक्त ज्ञानकुसुमदृष्टिं गृहीत्वा बीजादिबुद्धयो गणधराः, यः पदादप्यनेकानि पदशतानि गृह्णाति, असौ बीजबुद्धिः, आदिशब्दात् कोष्ठबुद्धयादिपरिग्रहः; कोष्ठकमक्षिप्तं धान्यमिव यस्य सूत्रार्थी सुचिरमपि तिष्ठतः स कोष्ठबुद्धिः ; सर्व तीर्थकर भाषितं विचित्रकुसुममालामिव प्रवचनार्थ प्रश्नन्ति । प्रवचनशब्दार्थमेव कथयति प्रगतं प्रधानं प्रशस्तपादौ वा वचनम्, अत्र श्रुतज्ञानं द्वादशाङ्गम्, 'तत् कथं नु नाम भवेद् निष्पद्यते ?" इत्येवं संप्रधारयन्तस्तदर्थं ग्रथ्नन्ति । अथवा, प्रवक्तीति प्रवचनं संघस्तदर्थं ग्रथ्नन्ति || इत्येकादशगाथार्थः ॥ ११११ ।। १११२ ।।
'प्रवचनार्थ ग्रथ्नन्ति' इत्युक्तम् । अथवा प्रयोजनान्तरमाह
घेत्तुं व सुहं सुहगुणण-धारणा दाउं पुच्छिउं चैत्र । एएहिं कारणेहिं जीयं ति कथं गणहरेहिं ॥ १११३ ॥
१ क. ग. 'पत्र' । २ त ज्ञानकुसुमवृष्टिं गृहीत्वा बीजादिबुद्धयः सर्वम् । प्रश्नन्ति प्रवचनार्थ माला इव चित्रकुसुमानाम् ॥ ११११ ॥
प्रकृतं वचनं श्रुतज्ञानं कथं तद् भवेत् ? । प्रवचनमथवा संघो ग्रध्नन्ति तदनुग्रहार्थम् ॥ १११२ ॥ ३ ग्रहीतुं वा सुखं सुखगुणन-धारणा दातुं प्रष्टुं चैत्र । एतैः कारणैर्जीवितमिति कृतं गणधरैः ॥ १११३ ॥
For Private and Personal Use Only