________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
230
विशेपा०
माह
तेषां सरूपव्याख्यानम्, अथवा, तत्रोपक्रान्ताः, इह स्वयं तदनुमतावतारश्चिन्त्यते । इदमुक्तं भवति-मागुपक्रमाधिकारादध्ययनं नयैरुपक्रम्यते, इह तु कस्य नयस्य किं सामायिकमनुमतम् । इति चिन्त्यते। तथा च वक्ष्यति
तय संजमो अणुमओ निगथं पवयणं च ववहारो । सज्जुसुयाणं पुण निव्वाण संजमो चेव ॥१॥ तेषां च नयानामिह समवतरण समवतारो पत्र संभवति तत्र दर्शनीपः, यत् वक्ष्यते- 'मूढनइयं सुर्य कालियं तु न नया समोयरति इह' इत्यादीति ॥ ९८७॥
मूलद्वारमयैः सहामीषां भेदमाह- ...
सामाइयसमुदायत्थमेत्तवावारतप्परा एए । मूलद्दारनया पुण सुत्तप्फासोवओगपरा ॥ ९८८ ॥
सर्वेऽपि चैते नय-प्रमाणोक्ताः, उपोलातनियुक्तिद्वारोक्ताश्च नयाः सामायिकसमुदायार्थमात्र व्याप्रियन्ते, न तु सूत्रार्थविनियोगिनः । वक्ष्यमाणास्तु मूलद्वारनयाः प्रतिपदं सूत्रार्थविषया इति विशेष इति ।। ९८८ ॥ अथ किंद्वारे आक्षेप-परिहारौ पाहजीवगुणो नाणं ति य भणिए इह किं ति का पुणो संका ?। तं चिय किं जीवाओ अण्णमणनं ति संदेहो ॥९८९॥
ननु प्रमाणद्वारभेदे गुणप्रमाणे सामायिक जीवगुणः तत्रापि ज्ञानम, इत्याधुक्तंत्र 'किं सामायिकम्” इति का शङ्का येन किंद्वारमुच्यते , इत्याह-' तं चियेत्यादि' तदेव सामायिकं किं जीवादन्यत्, अनम्प वा इति संदेह, तदपनोदाथमिह किंद्वारो। पन्यास इति ॥ ९८९ ॥
अथ कथंद्वारविषयावाक्षेप-परिहारौ पाहभणिए खओवसमियं ति किं पुणो लब्भए कहं तं ति। इह सोच्चिय चिंतिज्जइ किह लब्भइ सो खओवसमो ? ॥९९०॥
तपः संयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्द-जुसूत्रयोः पुनर्निर्माण संयम एवं 10 २ मूतनयिकं श्रुत कालिकं तु न नयाः समवतरन्तीह। ३ सामायिकसमुदायाधमावब्यापारतत्परा एते । मूलद्वारनयाः पुनः सूत्रस्पोपयोगपराः ॥९८८॥ " जीवगुणो ज्ञानमिति च भाणते इह किमिति का पुनः शङ्का । तदेव किं जीवादन्यदनन्यविति संदेहः ॥९८९॥
५ भणिते सायोपयामिकमिति किं पुनर्लभ्यते कथं तदिति । इह स एव चिन्मयते कर्थ सभ्यते स क्षयोपशमः १ ॥९९०॥ ननु नामद्वारे 'क्षायोपशमिकं सामायिकम्' इत्युक्त 'तदावरणक्षयोपशमात् तल्लभ्यते' इत्यथोदुक्तमेव भवति । अतः कथं तल्लभ्यने । ' इत्यर्थप्रतिपादक किमितीह पुनरपि कथंद्वारमुच्यते । अत्रोत्तरमाह-इह कथपितिद्वारे स एवं क्षयोपशमश्चिन्त्यते । कथम् ?, इत्याह-कथं लभ्यते स क्षयोपशमः १ , इत्येष विशेषः ॥ ९९०॥ . अथ द्वारवाहुल्याद् ग्रन्थविस्तरमवलोक्य संक्षिपनाह
किं बहुणा, जमुबक्कम-निक्खेवेसु भणियं पुणो भणइ । अत्थाणुगमावसरे तं वक्खाणाहिगारत्थं ॥९९१॥ किंबहुना?, सर्वेष्वप्येतेषपोद्वातद्वारेषु यदुपक्रम-निक्षेपयोर्भणितमपि पुनरप्याचार्यो भणति, तदिहार्थानुगमावसरे पूर्वोपक्रान्तनिक्षिप्तवस्तुव्याख्यानाधिकारार्थम् , इत्येवं भावनीयमिति ॥ ९९१ ॥
तदेवमुपोद्धातोतेष्वेतपदेशादिद्वारेषु प्रत्येक विशेषतचालना-प्रत्यवस्थाने अभिधाय, इदानीं सामान्येन सर्वस्याऽप्युपोद्धातस्य बाल
सत्यसमुत्थाणत्यो पायेणोवक्कमो तहाऽयं पि । सत्थस्सोबग्घाओ को एएसि पइविसेसो ? ॥ ९९२ ॥
आह- ननूपक्रमोऽपि प्रायः शास्त्रसमुत्थानार्थमेव, तत्रानुपूर्व्यादिभिरैरुपक्रम्य शास्त्रं नामादिन्यासव्याख्यानयोग्यतामानीयत इत्यर्थः। तथाऽयमप्युपोद्धातः शार्खस्योदेश-निर्देश-निर्गमादिभिरैरुत्थानमुपवर्ण्य व्याख्यानयोग्यतामुपकल्पयति, इति कोऽनयोर्विशेषः -- न कश्चित् । तत एतयोर्द्वयोरन्यतर एव वाच्य इत्यभिमाय इति ॥ ९९२ ॥
प्रत्यवस्थानमाह
उद्देसमेत्तनियओ उवकमोऽयं तु तब्विबोहत्थं । पाएणोवग्धाओ नणु भणिओऽयं जओऽणुगमो ॥ ९९३ ॥
उद्देशमात्रनियत एवोपक्रमः- नाम-स्थापना-द्रव्यादिभिः, आनुपूादिभिश्च भेदैरुपक्रमः शास्त्रमुद्दिशत्येव, न तु व्याख्यानयतीत्यर्थः । अयं पुनरुपोद्धातः प्रायेण तस्य शाखस्य विवोधार्थो व्याख्यानार्थः । कुत इदं ज्ञायते ?, इत्याह-- ननु यस्मादयं प्रस्तुतोऽनुगमो भणितः, उपोद्घातश्चानुगमभेद एव, अनुगमस्य च व्याख्यानरूपत्वात सिद्धमुपोद्धातस्य व्याख्यानार्थत्वमिति ॥ ९९३॥
१ क. ग. 'पच क्ष'। २ किंबहुना, बदुपाक्रम-निक्षेपयोर्भणितं पुनर्भणति । अर्थानुगमावसरे तद् व्याख्यानाधिकारार्थम् ॥ ९९१ ।। २ शाखसमुत्थानार्थः प्रायेणोक्रमस्तथाऽयमपि । शाखस्योपोडातः क एतेषां प्रतिविशेषः ॥९९२ ॥ ४ क. 'स्त्रोदेशोद्देशनि'। ५ देशमात्रनियत उपक्रमोऽयं तु तद्विवोधार्थम् । प्रायेणोपोदातो ननु भणितोऽयं यतोऽनुगमः ॥ ९९३ ।।
नामाह
For Private and Personal Use Only