________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
228 विशेषा० - अज्झयणं उद्देसोऽभिहियं सामाइयं ति निदेसो । सामण्ण-विसिट्ठाणं अभिहाणं सत्थ-नामाणं ॥९७५॥
शास्त्रं च नाम च शास्त्र-नामनी तयोः सामान्य-विशिष्टयोः सामान्य-विशेषभूतयोरोघनिष्पने नामनिष्पन्ने च निक्षेपे यदभिधानमभिहितम् , तावुदेश-निर्देशौ । यथासंख्येन चेह योजना, सपथा- सामान्यस्य शास्त्रस्यौघनिष्पननिक्षेपे यदध्ययनमित्यभिधानमभिहित स उद्देश इत्युच्यते, नामनिष्पन्ने च निक्षेपे विशिष्टस्य नानो यत् सामायिकमित्यभिधानमभिहितं स निर्देश इत्यभिधीयत इति ॥९७५॥
अथ प्रेरक माह
दारोवनासाइसु निक्खेवे ओह-नामनिप्फन्ने । उद्देसो निद्देसो भणिओ इह किं पुणग्गहणं १ ॥ ९७६ ॥
आह- नन्वसावावश्यकशास्त्रस्य प्रथममध्ययन सामायिकम् , तस्य च चत्वार्यनुयोगद्वाराणि, इत्यादिना द्वारोपन्यासादिषु मक्रमे यदिवा, ओघनिष्पन्न नामनिष्पन्न योनिक्षेपयोः सामान्यनामरूप उद्देशा, विशेषनामरूपश्च निर्देशोऽनेकशः प्रोक्त एव: किमर्थमिहोपोडातनियुक्तौ पुनरपि तयोर्ग्रहणम् ? इति ॥ ९७६ ।।
अत्रोत्तरमाह
इह विहियाणमणागयगहणं तत्थन्नहा कहं कुणउ । तेसिं गहणमकाउं दारन्नासाइकज्जाई ? ॥ ९७७ ॥
इहोपोद्धाते आद्यद्वारद्वयविहितयोरेवोदेश-निर्देशयोस्तत्र द्वारोपन्यासादौ शास्त्रकृताऽनागतमेव ग्रहणं कृतम् , अन्यथा हि तयोः सामान्य-विशेषनामरूपयोरुद्देश-निर्देशयोस्तत्र ग्रहणमकृत्वा कथं निराश्रयाणि द्वारोपन्यासादिकार्याणि करोतु ? इति ॥ ९७७ ॥
प्रतिविधानान्तरमाह
अहवा तत्थुदेसो निदेसो वि य कओ इहं तेसिं । अत्थाणुगमावसरे विहाणवक्खाणमारद्धं ॥ ९७८ ॥
१ अध्ययनमुदेशोऽभिहितं सामायिकमिति निर्देशः । सामान्थ-विशिष्टयोरभिधानं शास्त्र-नानोः ॥ ९७५ ॥ २ द्वारोपन्यासादिषु निक्षेप ओघ-नामनिष्पन्नयोः । उद्देशो निर्देशो भणित इह किं पुनर्ग्रहणम् ॥ ९७६ ॥ ३ इह विहितयोरमागतग्रहणं तवान्यथा कथं करोतु । तेषां ग्रहणमकृत्वा द्वारम्यासादिकार्याणि ॥ ९७७ ॥
५ अथवा तत्रोद्देशो निर्देशोऽपि च कृत इह तयोः । अर्थानुगमावसरे विधानव्याख्यानमारब्धम् ॥ ९७८ ॥ अथवा, नत्र द्वारोपन्यासादौ सामान्य-विशेषाभिधानरूप उद्देशो निर्देशश्च कृत इत्युपगच्छामः, केवलमिहानुगमावसरेऽर्थव्याख्याप्रस्ताने नयोः पूर्वविहितयोरुदेश-निर्देशयोर्विधानतो भेदतो व्याख्यानमारब्धमित्यदोष इति ।। ९७८ ।।
अन्ये तु-ब्रुवते । किम् ?, इत्याह--
अन्ने उ विसेसमिहं भणंति नोदेसबद्धमेयं ति । जाणावियमज्झयणं समासदारावयारेणं ॥ ९७९ ॥
अन्ये तु पूर्वविहितयोरपीह विशेपमाचक्षते- नोद्देशकबद्धमिदमध्ययनमित्येतज्ज्ञापितं किल । कुतः १, अङ्ग-श्रुतस्कन्धाध्ययनसमासद्वारावतारात् । इदमत्र हृदयम्
नाम ठवणा दविए खेत्ते काले समासउद्देसे । उद्देसुद्देसम्मि य भावम्मि य होइ अट्ठमओ ॥१॥ इति पुरस्तादिव वक्ष्यमाणगाथायामुद्देशोऽष्टविधोऽभिधास्यते; तथा, ऐमेव य निद्देसो' इत्यादिगाथायां निर्देशोऽपि चाष्टविधो वक्ष्यते । तत्र च समासद्वारे संक्षेपाभिधायकं नाम समासोद्देश इति व्याख्यास्यते । तद्यथा- अङ्गम् , श्रुतस्कन्धः, अध्ययनम् , उद्देश इत्यादि । नत्रेदं सामायिकाध्ययन किलाध्ययनोद्देशो भवति, न तूदेशोदेशः, उद्देशरहितत्वात् । एतच्च तत्र व्याख्यास्यते । तदत्रोद्देश-निर्देशयोरष्टविधत्वभणनेन पष्ठं समासद्वारमायातम् । अनेन च समासद्वारेण विचार्यमाणेनेदमध्ययनमुद्देशरहितमिति ज्ञापितम् । एतच्चेहोद्देश-निर्देशाभणनेन निर्मूलस्य समासद्वारस्यैवाऽभावात् किल न ज्ञायतेति ॥ ९७९ ॥
एतच्च यत्किञ्चिदेव, इति दर्शयति
अंगाइपण्हकाले कालियसुयमाणसमवयारे य । तमणुद्देसयबद्ध भणियं चिय इह किमब्भहियं ॥ ९८० ॥
'आवश्यक किमङ्गम्, अङ्गानि ?' इत्यादिप्रश्नकाल एव कालिकश्रुतपरिमाणसंख्यावतारे चाध्ययनसंख्यावतारात् , 'नोदेशकः, नोद्देशकाः' इति निषेधाच्च तत् सामायिकाध्ययनमुद्देशकवद्धं न भवतीति भणितमेव, इह किमभ्यधिकमज्ञातं ज्ञायते । तस्माद् यत्किञ्चिदेवेदम् । अत एतयोरिह भणनं व्याख्यानार्थमेवेति स्थितम् । तदेवं कृतोद्देश-निर्देशविषया चालना, प्रत्यवस्थानं च ॥९८० ॥
, अन्ये तु विशेषमिह भणन्ति नोहेशबद्धमेतदिति । ज्ञापितमध्ययनं समासद्वारावतारेण ॥ ९७९ ॥ २ नाम स्थापना द्रव्ये क्षेत्रे काले समासोद्देशे । उहशोद्देशे च भावे च भवत्यष्टमकः ॥1॥ एवमेव च निर्देशः। ४ अङ्गादिप्रश्नकाले कालिक श्रुतमानसमवतारे च । तदनुदेशकबद्धं भणितमेवेह किमभ्यधिकम् ॥१८॥
For Private and Personal Use Only