________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
226
विशेषा० • इह जइ कीरा निरुत्ते तत्थ व भणियमिह भण्णए कीस ? । निक्खेवमित्तमिहई तस्स निरुत्तीए वक्खाणं ॥९६३॥
आह- यद्यत्रापीदं चतुर्विधं विशेषनाम भणनीयत्वेनायसरप्राप्तम् , नर्हि किमुच्यते- निरुक्त्यादौ वक्ष्ये ? । अथ तत्र वक्ष्यते, तयंत्र किमर्थमुच्यते ? । अत्रोत्तरमाह- 'निक्खेवेत्यादि' इह नामादिनिक्षेपमात्रस्येष भणनावसरः, स च नामादिचातुर्विध्यभणनादुक्त एव, निरुक्ती तु तदर्थो निरूपयिष्यत इत्यदोषः ।। १६३ ॥
पुनरप्यन्यथाऽऽक्षिप्य परिहरति
तो कीस पुणो सुत्ते, सुत्तालावो तओ न तन्नामं । इह उण नाम नत्थं तं वक्खायं निरुत्तीए ॥ ९६४ ॥
हन्त ! यदि निरुक्तौ सामायिक व्याख्यायते, तर्हि 'करोमि भदन्त ! सामायिकम्' इत्यादि किमिति पुनरपि सूत्रे व्याख्यायते । नैवम् , यतः पूत्रालापक एव तकोऽसौ व्याख्यायते, न पुनस्तनामव्याख्यानम्, इह पुनर्नामादिभेदैः सामायिकनाम न्यस्तम्, तच निरुक्तौ व्याख्यातम् इति विषयविभागात् सर्व सुस्थमिति ॥ ९६४ ॥
पुनः प्रेर्यमुत्थाप्य परिहरति
इह पुण कीस न भण्णइ जं निक्खेवो इमो स निज्जुत्ती । निज्जुत्ती वक्खाणं निक्खेवो नासमेत्तं तु ।।९६५॥ ___ नन्विहैव निक्षेपद्वारे किमिति न भण्यते न व्याख्यायते सामायिकम् , येन निरुक्तौ व्याख्यायते । अत्रोच्यते- यद् यस्मादसौ निक्षेपः प्रस्तुतः, तत्र च प्रस्तुते व्याख्यानस्य कोऽवसरः । 'स निज्जुत्ति ति सा पुनर्वक्ष्यमाणा नियुक्तिरुपोद्घातनियुक्तिद्वाररूपत्वाद् नियुक्तिः। यदि नाम सा नियुक्तिः, तथापि तत्र व्याख्यानस्य किमायातम् , इत्याह- 'निज्जुत्ती वक्खाणं ति' नियुक्तिरनुगमभेदत्वाद् व्याख्यानात्मिकैव भवति, अतो युक्तं तस्यां व्याख्यानम् । निक्षेपोऽपि तर्हि व्याख्यानरूपो भविष्यति, इत्याह- 'निक्खेवो नासमेत्तं तु ति निक्षेपस्तु नामादिन्यासमात्रात्मक एव वर्तते, न तु व्याख्यानरूपः, अनुगमस्यैव तद्रूपत्वात् । अतः कोऽत्र निक्षेपे व्याख्यानावसरः ? इति ॥ ९६५॥
इह यदि कस्मात् निराकी तत्र वा भणितमिह भण्यते कस्मात् ।। निक्षेपमात्रमिह तस्य निरुती व्याख्यानम् ॥ १३॥ २ ततः कस्मात् पुनः सूत्रे, सूत्रालापः सको न तमाम । इह पुनर्माम न्यस्तं तद् व्याख्यातं निहती ॥ १६॥
३ इह पुनः करमावून भव्यते यद् निक्षेपोऽयं सा नियुक्तिः । नियुक्तियाख्यानं निक्षेपो न्यासमानं तु ॥ ९६५ ॥ पुनरपि परमतमाशङ्कच प्रतिविधातुमाह
नणु निज्जुत्तिअणुगमे भणिया एसा वि नासनिज्जुत्ती । सञ्चमियं निज्जुत्ती इयं तु निक्खेवमित्तस्स॥९६६॥ - ननु यदि निर्युक्तावेव व्याख्यानमिष्यते भवद्भिः, तत्रापि ब्रूमो वयं यदुत-एषाऽपि नियुक्त्यनुगमे न्यासनियुक्तिभणिता, अयमपीह प्रस्तुतो निक्षेपो वक्ष्यमाणे नियुक्त्यनुगमे निक्षेपनियुक्तित्वेन भणिष्यत इत्यर्थः । इदमुक्तं भवति-अनुगमो द्विविधो वक्ष्यते, तद्यथा-मूत्रानुगमः, नियुक्त्यनुगमश्च । नियुक्त्यनुगमस्त्रिविधोऽभिधास्यते-निक्षेपनियुक्त्यनुगमः, उपोद्घातनिर्युक्त्यनुगमः, सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति । तथा- “से किं तं निक्खेवनिजुत्तिअणुगमे । निक्खेवनिज्जुत्तिअणुगमे अणुगए, वक्खमाणे य" । एतदपि वक्ष्यते । तत्रायमर्थः- अत्रैव प्रागावश्यकसामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यद् व्याख्यानं कृतम् , तेन निक्षेपनियु
क्त्यनुगमोऽनुगतः मोक्तो द्रष्टव्यः, सूत्रालापकानां निक्षेपप्रस्तावे पुनर्वक्ष्यते च । तदेवमेतेनैषोऽपि निक्षेपो निक्षेपनियुक्तित्वेनाऽनुगमे । प्ररूप्यमाणेऽभिधास्पते । अतः किमुच्यते-'नेह व्याख्यानम् , किन्तु निरुक्तावेव इति । - तदेवमतिनिपुण परस्य प्रेर्यमवलोक्याऽभ्युपगमपूर्वकमुत्तरमाह- 'सच्चमित्यादि सत्यम् , इयमपि प्रस्तुतनिक्षेपलक्षणा नियुक्तिः, किन्त्वियं निक्षेपमात्रस्य नाम-स्थापनादिनिक्षेपस्वरूपनिरूपणायैव, न विशेषार्थस्येत्यर्थः निरुक्तौ तु 'सम्मदिहि अमोहो सोहीसम्भावदसणं बोही' इत्यादिना ग्रन्थेम शब्दार्थादिविचारः करिष्यत इति भावः ॥ ९६६ ॥
अथवा, किमनेन बहुना प्रोक्तेन ?, अतिगहन प्रकरणमिदम् , अतः संक्षिप्य विशेषविषयविभागतात्पर्यमुच्यते, तथा चाह
निक्खेवमित्तमिह वा अत्थवियारो य नासजुत्तीए । सहगओ य निरुत्ते सुत्तप्फासम्मि सुत्तगओ ॥९६७॥
अथवा, इह निक्षेपद्वारे सामायिकस्य नामादिनिक्षेपमात्रमेवोच्यते, तदर्थनिरूपणमात्रमेव च निक्षेपनियुक्तौ निर्दिश्यते । नैरुक्तस्तु शब्दगतो विचार उपोद्घातनिर्युक्त्यन्तर्गते निरुक्तिद्वारे- 'सम्मदिद्धि अमोहो' इत्यादिना ग्रन्थेन शब्दार्थविचारः करिष्यत इत्यर्थः । मूत्रस्पर्श तु मूत्रगतो विचार:- सूत्रस्पर्शिकनियुक्ती सूत्रालापद्वाराऽऽयातस्य सामायिकस्यार्थविचारः क्रियते, न तु सामायिकनाम्न इत्यर्थः । एवं विषयविभागेनाऽवस्थानात् सर्व समञ्जसमिति । तदेवमभिहितो नामनिष्पन्नोऽपि निक्षेपः॥ ९६७॥
मनु नियुक्त्यनुगमे भणिसैपाऽपि न्यासनियुक्तिः । सत्यमियं नियुक्तिरिय तु निक्षेपमात्रस्य ॥ ९५६॥ २ अघ कः स निक्षेपनियुक्त्यनुगमः। निक्षेपनियुक्त्यनुगमोऽनुगतः, वक्ष्यमाणश्च । ३ गाथा २७४। • निक्षेपमात्रमिह वाऽर्थविचारच न्यासनियुक्तौ । शब्दगतश्च निरुक्के सूत्रस्पर्शे सूत्रगतः ॥ ९॥ .
For Private and Personal Use Only