________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
225 विशेषा० उपक्रमभेदः समवतारः प्रस्तुतः, स च लाघवार्थ सामायिकस्य प्रतिद्वारं समवतारितत्वात् पूर्वमेवाभिहितः, इति न पुनरप्यत्रोच्यते, पौनरुक्त्यप्रसङ्गात् ॥ इति सप्तदशगाथार्थः ॥ ९५६ ॥
॥ इत्युपक्रमः समाप्तः॥ अथ निक्षेपलक्षणं द्वितीयमनुयोगद्वारमभिधित्सुराह
भण्णइ धिप्पइ य मुहं निक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं निक्खेतव्वं तओऽवस्सं ॥९५७ ॥
यस्माद् नामादिनिक्षेपानुसारतः शास्त्रम्, अध्ययनम् , उद्देशको वा सुखेनैव भण्यतेऽभिधीयते, सुखेनैव च गृह्यतेऽधिगम्यते, तस्मात् शास्त्रादेः संबन्धी ओघो, नाम, सूत्रं चावश्यमेव निक्षेप्तव्यम् । एतेन च यद् निक्षेपस्य पूर्व सामान्येन त्रैविध्यमुक्तम् , तदिदानी विशेषतो दर्शितमवगन्तव्यम् । नद्यथा- त्रिविधो निक्षेपा- ओघनिष्पन्नः, नामनिष्पन्नः, सूत्रालापकनिष्पन्नश्चेति ॥ ९५७ ॥ .
नत्रौघः किमुच्यते ?, इत्याह
ओहो जं सामण्णं सुयाभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आओ ज्झवणा य पत्तेयं ॥९५८॥ ..
नामाइचउब्भेयं वण्णेऊणं सुयाणुसारेणं । सामाइयमाउज्जं चउसुं पि कमेण भावेसु ॥ १५९ ॥ - इह यत् श्रुतस्य जिनवचनरूपस्य सामान्यमङ्गा-अध्ययनो-देशकादिक नाप तदोघ इत्युच्यते, सामान्य शास्त्रनामेत्यर्थः । तत्रेह सामायिकस्य प्रस्तुतत्वात् तद्विषयं सामान्यनाम पाह- अध्ययनम् , अक्षीणम् , आयः, क्षपणा चेति । इदं च सामायिकादिशास्त्रविशेषस्य सामान्यमध्ययनादिकमभिधानमनुयोगद्वारलक्षणश्रुतानुसारेण प्रत्येकं नामादि चतुर्विधमुपवर्ण्यते; तद्यथा- नामाध्ययनम् , स्थापनाध्ययनम् , द्रव्याध्ययनम् , भावाध्ययनम् । तथा, मामाक्षीणं, स्थापनाक्षीणम् , द्रव्याक्षीणम् , भावाक्षीणम् । एवमाय-क्षपणयोरप्युक्त्वा क्रमेण चतुलपि भावेषु भावाध्ययने, भावाक्षीणे, भावाऽऽये, भावक्षपणायां चेत्यर्थः । किम् ?, इत्याह-सामायिकमायोज्यम्सामायिकमेव भावाध्ययनादिवाच्यत्वेनात्र बोद्धव्यमित्यर्थः॥ ९५८ ॥ ९५९॥
भण्यते गृह्यते च सुखं निक्षेपपदानुसारतः शास्त्रम् । ओषो नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् ॥ ९५७ ॥ २ ओघो यत् सामान्य श्रुताभिधानं चतुर्विध सच । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥ ९५८ ॥
मामादिचतुर्भेदं वर्णयित्वा श्रुतानुसारेण । सामायिकमायोज्यं चतुर्वपि क्रमेण भावेषु ॥ ९५९ ॥ ३ प. छ. 'दि ना'। अथाध्ययनादीनां चतुर्णामपि क्रमेण निरुक्तमाह'जेण सुहज्झप्पजणं अज्झप्पाणयणमहियमयणं वा । बोहस्स संजमरस व मोक्खस्स व जं तमज्झयणं ॥९६०॥
इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच, शुभं 'अज्झप्पं चित्तं जणेइ त्ति पगारलोवाओ अज्झयणं, अहवा, अज्झप्पाणयणं प्पगार-आकार-णकारलोवाओ अज्झयणं ति' । अथवा, बोधस्य, संयमस्य, मोक्षस्य वाऽधिकमयनं तदेतुत्वात् पापकं यत् तदध्ययनमिति ॥ ९६०॥
अज्झीणं दिज्जतं अव्योच्छित्तिनयओ अलोओ व्व । आओ नाणाईणं झवणा पावाण खवणं ति ॥९६१॥ . अर्थिभ्योऽनवरतं दीयमानमपि वर्धत एव न तु क्षीयत इत्यक्षीणम् । अथवा, अव्यवच्छित्तिनयमतेन सर्वदैवाव्यवच्छेदात , अलोकवत् अक्षीणम् । आयो लाभः प्राप्तिर्ज्ञानादीनामस्मादित्यायः । क्षपणाऽपचयो निर्जरा पापकर्मणामस्मादिति क्षपणेति । तदेवमभिहितमोघनाम, तदभिधाने चोक्त ओघनिष्पन्नो निक्षेपः ॥ ९६१ ॥
अथ नामनिष्पन्न निक्षेपमभिधित्सुरध्ययनस्य विशेषनाम, तनिक्षेपं चाह
सामाइयं ति नामं विसेसविहियं चउब्विहं तं च । नामाइं निरुत्तीए सुत्तप्फासे व तं वोच्छं ॥ ९६२ ॥
प्रस्तुताध्ययनस्य सामायिकमिति विशेषविहितं नाम । तच्च चतुर्विधम् । कथम् ?, इत्याह- नामादि-नामसामायिकम् , स्थापनासामायिकम् , द्रव्यसामायिकम् , भावसामायिकं चेति । एतच्चार्थनिरूपणतो वक्ष्येऽहम् । क १, इत्याह-निरुक्तौ 'उदेसे निदेसे य नि ग्गमे' इत्याशुपोद्घातनियुक्तिगतगाथाद्वयपर्यन्ते 'भवागरिसफोसणनिरुत्ती' इति यद् नियुक्तिद्वारं तत्रार्थतोऽभिधास्य इत्यर्थः। यदिवा नियुक्त्यनुगमभेदरूपायामेव मूत्रस्पर्शिकनियुक्तौ वक्ष्य इति ॥ ९६२ ।। व अत्राक्षेप-परिहारी प्राह
, येन शुभाध्यात्मजनकमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य वा मोक्षस्य वा यत् तदध्ययनम् ॥ ९६० ॥+निरूक्ति-1 २ अध्यात्म चित्तं जनयतीति प्प(कार)लोपादध्ययनम् , अथवा, अध्यात्मानयनं प्प(कार) आकार-णकारलोपादध्ययनमिति । १ अक्षीणं दीयमानमव्यवच्छित्तिनयतोऽलोक इव । आयो ज्ञानादीनां क्षपणा पापाना क्षपणमिति ॥ ९६१॥ ४ क. ग. 'लोय व्व' । उय। ५ सामायिकामिति नाम विशेषविहितं चतुर्विधं तच्च । नामादि निरुती सूत्रस्पर्शे वा तद् वक्ष्ये ॥ ९६२ ॥ ६ गाथा ९७३। ७ गाथा ९७४ ।
For Private and Personal Use Only