________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
204
विशेषा०
नन्यागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकम् , इत्येतावतैव सिद्धमागमतो द्रव्यावश्यकम् , 'कि शिक्षितम् , स्थितम् , जितम्' इत्याचावश्यकश्रुतगुणविशेषणैरिहाभ्यधिकं फलम् इति ॥ ८५८ ॥
अत्रोत्तरमाहजह सव्वदोसरहियं पि निगदओ सुत्तमणुवउत्तस्स । दव्वसुयं, दव्यावासयं च तह सव्वकिरियाओ ॥८५९॥
उवउत्तस्स उ क्खलियाइयं पि सुद्धस्स भावओ सुत्तं । साहइ तह किरियाओ सव्वाओ निज्जरफलाओ ॥८६०॥
इह शिक्षितादिविशेषणकलापं कुर्वन्नाचार्य इति साधयति- एतत कथयति, इति द्वितीयगाथायां किया। किं साधयति', इत्याह- यथा शिक्षितादिगुणोपेतत्वात् सर्वदोषरहितमपि सूत्रमनुपयुक्तस्य निगदतो द्रव्यश्रुतम् , वक्ष्यमाणद्रव्यावश्यकं चोक्तस्वरूपं भवति, तथा, प्रत्युपेक्षण-प्रमार्जने-र्यादि क्रिया अपि सर्वा अनुपयुक्तस्य कुर्वतोऽन्तामणिधानशून्यत्वाद् द्रव्यक्रियास्तत्फलविकला भवन्ति, 'तथा-तथैव' सामादिदं लभ्यते, उपयुक्तस्य त्वन्तम्मणिधानयुक्तस्य करणाऽवैफल्यादिकारणात् कथमपि स्खलितादिदोषदुष्टमपि सूत्र निगदतो भावतः शुद्धस्य तस्य भावसूत्रमेव भवति, तथा, सर्वा अपि प्रत्युपेक्षणादिक्रिया उपयुक्तस्य कुर्वतः कर्मनिर्जराफला एव भवन्ति । अतः सर्वेष्वपि भगवदुक्तानुष्ठानेष्वन्तामणिधानेऽतिप्रयत्नः कार्य इति ॥ ८५९ ।। ८६०॥ इह चाधिक-हीनाक्षरश्रुतपाठेऽपायदर्शनार्थमुदाहरणान्याह
अहिए कुणाल-कविणो हीणे विजाहराइदिळंता । बाला-उरातिभोयण-भेसज्जविवजआ उभए ॥ ८६१ ॥
अक्षर-विन्द्वाद्यधिकसूत्रपाठे कुणालनामा राजपुत्रः, कपिश्च वानर उदाहरणम् । हीनाक्षरपाठे तु विद्याधरादयः । अधिकहीनाक्षरलक्षणे तूपये वाला-ऽऽतुरयोरतिभोजन-भेषजविपर्ययौ बाला-ऽऽतुरातिभोजन-भेषजविपर्ययो, इति समास:- अतिमात्र हीनमात्र च भोजनं यथा वालस्य, भेषजं तु तथाभूतं यथाऽऽतुरस्य दोषाय, तथा सूत्रमपीति भावः ॥ ८६१॥
, यथा सर्वदोषरहितमपि निगदतः सूत्रमनुपयुक्तस्य । द्रव्यश्रुतं द्रव्यावासकं च तथा सर्वक्रियाः ॥ ८५९ ॥
उपयुक्तस्य तु स्खलितादिकमपि शुद्धस्य भावतः सूत्रम् । कथयति तथा क्रियाः सर्वा निर्जराफलाः ।। ८६०॥ .
२ अधिक कुणाल कपी हीने विद्याधरादिदृष्टान्ताः । बाला-ऽनुरातिभोजन-भैपापविपर्ययाधुभयस्मिन् ॥ ८६१० अथ कोऽयं कुणालनामा राजपुत्र उदाहरणम् १, इति तत्कथासूचनाय श्लोकमाह- "चंदगुत्तेत्यादि । अस्यार्थः कथानकादनसेयः, तच्चेदम्
पाटली नामनगरे मौर्यवंशसमुद्भवोऽशोकश्रीनार्म भूपालः । तस्य चैकस्या राज्याः कुणालनामा तनयः समुत्पन्नः । तस्य च भुक्तौ उज्जयिनीनगरी नरपतिना प्रदत्वा । ततश्च सातिरेकाष्टवापिंके तस्मिन् कुमारे लेखवाहकेनाऽऽगत्याऽशोकश्रीराजाय निवेदितम् , यथाएतावति वयसि वर्तते युष्मत्पुत्रः। ततश्चान्तःपुरोपविष्टेन भूपतिना स्वहस्तेनैव लिखितः कुमाराय लेखः। तस्य तत्र चेदमलेखि, यथा'इदानीमधीयतां कुमार' । तं च लेखमसंवर्तितमेव मुक्त्वा शरीरचिन्तार्थमुत्थितो नरनाथः । ततश्चैकया राझ्या गृहीत्वा वाचितोऽसौ लेखः । चिन्तितं च, यथा- ममापि विद्यते पुत्रः, केवलं लघुरसौ, महांश्च कुणालः, ततस्तस्मिन् राज्ययोग्यतां विभ्रति न मदीयपुत्रस्य राज्यावाप्तिः, ततस्तथा करोमि, यथा कुणालो राज्यस्याऽयोग्यो भवति, अवसरवायम् । इति विचिन्त्य निष्ठीवनाीकृतया हस्तस्थितनयनाञ्जनशलाकयाऽकारस्योपरि प्रदत्तो बिन्दुः । जातं च ततः 'अंधीयतां कुमारः। ततस्तथैव राझ्या मुक्तस्तत्रैव प्रदेशे लेखः। राज्ञा च कथमपि पुनरवाचित एव संवर्तितोऽसौ। गतश्च कुमारसमीपम् । अवधारितश्च केनापि नियोगिना, अप्रकटश्च विरुद्ध इति मत्वान वाचितः । कुमारनिर्वन्धे च वाचितः । ततो विज्ञातलेखार्थेन प्रोक्तं कुमारेण-मौर्यवंशोद्भवानामस्माकमाझा भुवनेऽपि न कश्चित् खण्ड-1 यति, तत् किमहमेव तातस्याऽऽज्ञा लयिष्यामि', न भवत्येवैतत् , इत्युक्त्वा तत्क्षण एवाऽनितप्तां लोहशलाको गृहीत्वा मुक्तहाहारखे सर्वस्मिन्नपि परिजने निवारयति अञ्जिते अभिणी । जातश्चान्धः । ततो विज्ञातसमस्तैतद्वयतिकरो राजा महान्तं खेदं विधाय कुणालस्योजयिनीमुत्सार्योचितं किमप्यन्यग्राममात्रं दत्तवान् ।
तत्र च स्थितेन कुणालकुमारेण शिक्षिता प्रकर्षवती गीतकला। पुत्रवान्यदा तस्य समुत्पनः। ततस्तद्राज्यावाप्तिनिमित्तं गतः । पाटलीपुत्रं नगरं कुणालः । समाक्षिप्तश्चातीव तन्नगरनिवासी समस्तोऽपि लोकस्तेन गीतकलया। गता च तत्पसिद्धिः। भूपालान्तिक नीतश्चासौ। तत्र कृतं च यवनिकान्तरे तेन गीतम् । अतीवाक्षिप्तश्च जगाद पृथिवीपतिः- याचख भोः, प्रयच्छामि तव समीहितम् ।। ततः पठितं कुणालेन
चंदगुत्तपपुत्तो उ बिंदुसारस्स नत्तुओ । असोगसिरिणो पुत्तो अंधो जायइ कागणिं ॥ ८६२ ॥
क. ग. 'थानकसू' । २ घ. छ. 'अन' । । चन्द्रगुप्तप्रपौत्रस्तु मिन्दुसारस्य नप्तकः । अशोकश्रियः पुत्रोऽन्धो याचते राज्यम् ॥ ८५२ (प्र.)
५२.
For Private and Personal Use Only