________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
205 विशेषा०
अस्यायं भावार्थ:- पाटलीपुत्रनगरे चाणक्यप्रतिष्ठितो मौर्यः प्रथम किल चन्द्रगुप्तो राजा बभूव । ततस्तत्पुत्रो बिन्दुसारा समभूत । तदनन्तरं तु तत्पुत्रोऽशोकश्रीर्जातः । तस्य चान्धोऽसौ कुणालः पुत्रः। एवं च सत्येष चन्द्रगुप्तस्य प्रपौत्रः, बिन्दुसारस्य तु नातृका पौत्रः, अशोकश्रीभूपतेस्तु पुत्रः, 'काकणि' क्षत्रियभाषया राज्यं याचत इति । ततो यवनिकापगमं कारयित्वा किश्चित् सकौतु+न राज्ञा सविशेष पृष्टः सर्वमपि स्वव्यतिकरं कुणालः कथयामास । ततः पृथिवीपतिना पृष्टोऽन्धः-वं राज्येन किं करिष्यसि । तेन मोक्तम्-देव! मम राज्याहः पुत्र उत्पनो वर्तते । राज्ञा प्रोक्तम्- कदा। कुणालः पाह-संप्रति । तत् 'संपतिः' इत्येव तस्य नाम प्रतिष्ठितम् । राज्यं च तस्मै प्रदत्समिति । तदेवं यथेहाऽकारस्योपर्येकेमाष्यधिकेन बिन्दुना कुमारस्य नेत्राऽपायो जातः, तथा प्रस्तुतेऽपि सूत्रे बिन्द्राद्याधिक्यादर्थान्तरमाप्त्या सर्वानर्थसंभव इति संभावनीयमिति ॥ ८६२ ॥
अथ भावाधिक्येऽन्यदिह लौकिकमुदाहरणम् । तत्सूचनार्थ 'जो जहा बट्टए कालो' इत्यादिश्लोकः । अस्यार्थः कथानकादवसेयः । तच्चेदम्
कस्मिंश्चिदटवीप्रदेशे सरोवरमेकमासीत् । तच लौफिकेषु 'कामिकतीर्थम् उच्यते । तस्य हि तीरे वजुलनामा वृक्षोऽभूत । तच्छाखामारुय यदि तिर्यक् सरोवरजसे निपतति, तदा तीर्थमाहात्म्यात् किल मनुष्यो भवति । यस्तु मनुष्य एव संनिपतति, असौ देवो जायते । यस्तु लोभाधिक्याद् द्वितीयामपि वारा निपतति स बादशः मागासीत् पुनरपि तादृश एव संपद्यते । एवं चान्यदा वानरमिथुनस्य पश्यतो नरमिथुनं वजुलक्षशाखातो निपतितं तत्सरोवरजले । संजातं च भास्वरशरीरं देवमिथुनम् । ततो वानरमिथुनमपि तथैव तत्र पतितम् । जातं च प्रवररूपधरं नरमिथुनम् । ततो वानरेण मोक्तम्-पुनरपि तथैवेह निपतावः, येन देवरूपौ भवावः'। ततोऽसौ निपिद्धो योषिता- 'यद् न ज्ञायते, पुनरपीत्थं कृते कि संपद्यते , पर्याप्तं चानेनैव प्रवरमानुषत्वेन, निषिद्धो ह्यतिलोभः सर्वशास्त्रेष्वपि' इति । इत्थं निवार्यमाणोऽपि तयाऽसौ पुरुषो द्वितीयामपि बारी तथैव तत्र निपपात । जातश्च पुनरपि वानरः। ततो गृहीता सा प्रवररूपा योषित् तत्राऽऽयातेन केनापि राज्ञा । संजाता च तस्य वल्लभा पत्नी। वानरस्तु गृहीतो मायेन्द्रजालिकः, शिक्षितश्च नर्तयितुम् । नीतश्चासौ सकलत्रोपविष्टस्य राज्ञः पुरतः । प्रत्यभिज्ञाता च तेन सा राज्ञी । तयाऽप्युपलक्षितोऽसौ वानरः । धावति च पुनः पुननिगृह्यमाणोऽपि राझ्याः संमुखं ग्रहणार्थम् । अतो राझ्या पठितम्
जो जहा वट्टए कालो तं तहा सेव वानरा!। मा बंजुलपरिभट्ठो वानरा! पडणं सर ॥ ८६३ ॥
.. यो यथा वर्तते कालतं तथा सेवस्व वानर! । मा बम्जुलपरिभ्रष्टो वानर ! पतनं मार ॥ ६५३ ॥
उत्तानार्थश्चार्य श्लोकः । तदेवं यथाधिको लोभाभिप्रायः कृतो वानरस्याऽनर्थाय जातः, तथा मात्राथधिक सूत्रमपीति भावनीयमिति ॥ ८६३॥
अथाऽक्षरादिहीनसूत्रपाठेऽपायप्रदर्शनार्थमुदाहरणम्--
'विजाहर रायगिहे उप्पय पडणं च हीणदोसेण । कहणो सरणागमणं पयाणुसारिस्स दाणं च ॥ ८६४॥ .. अस्या अप्यर्थः कथानकादवसेयः। तच्चेदम्-राजगृहनगरे भगवान् महावीरः समवसृतः । तदन्तिके च धर्म श्रुत्वोत्थितायां परिपदि गृहं प्रति गच्छता श्रेणिकराजेन दूरे दृष्टा कोऽपि विद्याधारो विधुरितपक्षः पक्षीव नभस्युत्पात-निपातौ विदधानः। ततः समुत्पन्नकौतुकः प्रतिनिवृत्य पुनरपि समवसरणमागतः। पृष्टवांश्च तद्वयतिकरं सर्वमेव भगवन्तम् । 'कहण ति' कथनं च कृतं भगवतायदस्य खेचरस्य विस्मृतमेकमक्षरं नभोगामिन्या विद्यायाः। ततो न सा स्फुरत्यस्य सम्यक् । अतोऽयमुत्पात-निपातौ विदधाति । एतचाकर्णितं पितृसमीपस्थितेनाऽभयकुमारेण । ततस्तेन गत्वाऽभिहितो विद्याधरः- यद् भवतो विस्मृतमेकमक्षरं, तदहं लब्ध्वा तव कथया. मि, यदि समानसिद्धिकं मां करोष्यस्या विद्यायाः । ततः प्रतिपन्नमिदं खेचरेण । कथितं पदानुसारिलब्ध्या समुपलभ्य तदक्षरमभयकुमारेण । प्रदत्ता च तस्य पदानुसारिणः खेचरेण विद्या । वयं च ततः क्षेमेण प्राप्तो वैताव्यशिखरिशिखरस्थितमवरविद्याधरीसंगमसुखानि । तदेवं यथाऽक्षरहीना विद्या न स्फुरति, अनर्थफला च जायते, तथा सूत्रमपीति ॥ ८६४ ॥
अथ हीना-ऽधिकाक्षरोभयोदाहरणमाह
तित्त-कडुभेसयाई मा णं पीलेज ऊणए देइ । पउणइ न तेहिं अहियेहिं मरइ बालो तहाहारे ॥ ८६५॥
तिक्त-कटुभेपजान्यातुरस्य 'मा पीड्येताऽयमेतैः' इति विचिन्त्य माता-पितृ-वैधादिर्यानानि ददाति तदाऽसौ तैर्न प्रगुणीभवति, हीनमात्रत्वात् । अथ कथमप्यधिकानि प्रयच्छति, तदा तैरधिकमात्रैराकान्तोऽसौ म्रियत एवाऽऽतुरः। 'घालो तहाहारे त्ति तथा तेनैव प्रकारेण हीना-ऽधिके आहारेऽपि बालोऽपायमाप्नोति । एवं सूत्रेऽपि हीना-ऽधिके दोषा वाच्या इति ॥ ८६५॥
, विद्याधरो राजगृहे उत्पात पतनं च हीनदोपेण । कथनं शरणागमनं पदानुसारिणो दानं च ॥ ८१४॥ तिक्त कदुर्भपज्यानि मा तं पीढगगुरुनानि ददाति । प्रगुणीभवति न तैरधिनियते बालस्तथाहारे ॥ ८६५ ॥
For Private and Personal Use Only