________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
202
विशेषा०
ज्ञानपञ्चकाभिधानमात्रमेव शास्त्रादौ मङ्गलमिष्टं, न तु तस्था नन्याः सर्वस्था अपि शास्त्ररूपाया इहाऽस्थाने व्याख्यानं युज्यते ; यथा हि पथि प्रस्थितैर्मङ्गलभूतदधि दुर्वा ऽक्षतादिवस्तूनामभिधान-दर्शनादीन्येव मङ्गलतया गृह्यन्ते, न तु तद्भक्षण-तद्गुणश्रवणादीन्यपि क्रियन्ते तथेहापि ज्ञानोत्कीर्तनमात्रमेव मङ्गलं युज्यते, न तु नन्दिव्याख्यानम्, इह तस्याऽस्थानस्वात् । न ह्यावश्यकशास्त्रारम्भे शास्त्रान्तरभूताया नन्द्या व्याख्यानं युज्यते, अतिप्रसङ्गात् । न च वक्तव्यम् - सर्वशास्त्रान्तर्भूतैव नन्दी, यद् यस्मात् सा विष्वक् पृथगेव श्रुतस्कन्धतया सिद्धान्ते प्रसिद्धा, श्रुतस्कन्धत्वं चास्याः पद-वाक्यसमूहात्मकत्वेनैव द्रष्टव्यम्, न त्वध्ययनकलापात्मकं परिभाषितैम् एकाध्ययनरूपत्वेन रूढत्वादिति ।। ८४५ ।।
ननु यदि नन्दिव्याख्यानस्यास्थानमिदम्, तर्हि किमितीत्थमादावेव भवद्भिर्ज्ञानपञ्चकं विस्तरेण व्याख्यातम् ? इति पौर्वापर्येण स्ववचनविरोधः, इत्याशङ्कयाह
Acharya Shri Kailassagarsuri Gyanmandir
इह साणुग्गहमुइयं न उ नियमोऽयमहवाऽपवादोऽयं । दाइज्जइ कहणाए कयाइ पुरिसावेक्खाए ||८४६ ||
हाकारम्भे यद्विस्तरेण ज्ञानपञ्चकस्थादौ व्याख्यानम्, तत्सानुग्रहं शिष्यानुग्रहमास्थायोदितमस्माभिर्न पुनरयं नियम एव ज्ञानोत्कीर्तनमात्रस्यैव नियमेन मङ्गलतयाऽभीष्टत्वात् । अथवा, कथनायाः कथनविधेरपवादोऽयं दर्श्यते, यथेह पुरुषापेक्षया कदाचिदुत्क्रमेणापि शास्त्राणि व्याख्यायन्ते - अन्यारम्भेऽन्यद् व्याख्यायत इति ॥ ८४६ ॥
तस्मादावश्यकश्रुतस्कन्धस्यानुयोग इति स्थिते किमिदानीं कर्तव्यम् १, इत्याह
आवस्यसुखंधो नामं सत्थस्स तस्स जे भेया । ताइं अज्झयणाइं नासो आवस्सयाईणं ॥ ८४७ ॥ aat fur fपहाणं जहत्थम जहत्थमत्थसुण्णं ति । नामे चेत्र परिच्छा गज्झं जइ होहि जहत्थं ॥ ८४८ ॥ इह प्रस्तुतशास्त्रस्याssवश्यकश्रुतस्कन्ध इति नाम । तस्य चावश्यकस्य ये सामायिकादयः षड् भेदास्तान्यध्ययनान्यभिधीयन्ते ।
१ . छ. 'कं पारि' । २ प. छ. 'कमेवाध्य' । ३ इह सानुग्रह मुदितं तु नियमोऽयमथवाऽपवादोऽयम् । वर्श्यते कथनायाः कदाचित् पुरुषाद्यपेक्षया ॥ ८४६ ॥ ४क. 'दविक्खा' । ५ आवश्यकश्रुतस्कन्धो नाम शाखस्य तस्य ये भेदाः । तान्यध्ययनानि म्यास आवश्यकानाम् ॥ ८४७ ॥ * न्यद् वा- 1
for referधार्थमर्थशून्यमिति । नाम्नैव परीक्षा माझं यदि भवेद् यथार्थम् ॥ ८४८ ॥
अंत आवश्यकादिपदानाम्- 'आवश्यकम् श्रुतस्कन्धः, अध्ययनम्' इत्येषां पदानां न्यासो निक्षेपः पृथक् पृथक् कार्यः । कुतः १, इत्याहयस्माद्धेतोः किञ्चिद् नाम तावद् यथार्थ भवति, यथा दीपः, दहन इत्यादि किञ्चित् स्वयथार्थ भवति, यथा पलाशः, मण्डप इत्यादि । अपरं स्वर्थशून्यं भवति, यथा डित्थः, डवित्थ इत्यादि । यथार्थं च शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थात्रगतेः । अतो नान्नेत्र परीक्षा विचारणा क्रियते, ततो ग्राह्यमिदं यदि यथार्थ स्यादिति ।। ८४७ ।। ८४८ ।।
तमेवाssवश्यकादिन्यासमाह -
नामाईओ नासो चउन्विहो मंगलस्स व स नेओ । विष्णेओ य विसेसो सुत्तगओ, किंचि वुच्छामि ||८४९|| 'इह तावदावश्यकस्य नाम-स्थापना- द्रव्य भावैरूपश्चतुर्विधो निक्षेपो भवति, स चेहैव प्रागुक्तमङ्गलपदस्येव ज्ञातव्यः, यश्च मङ्गलनिक्षेपेण सह विशेषः स सूत्रेऽनुयोगद्वारादिलक्षणे गतः स्थितो भणितः सूत्रगतो विज्ञेयः । किश्चित्पुनस्तद्विशेषं विनेयानुग्रहार्थमहमत्रापि वक्ष्यामीति ।। ८४९ ॥
तत्र नाम-स्थापने क्षुण्णत्वाद् नोच्येते । द्रव्यावश्यकं तु द्विधा- आगमतः, नोआगमतश्च । तत्राऽऽगमतः प्राह
आगमओ दव्वावासयं तमावासयं पयं जस्स । सिक्खियमिच्चाइ तयं तयणुवउत्तो निगदमाणो ||८५०|| आगतो द्रव्यावश्यकं भवति । कः १, इत्याह- तदावश्यकं निगदन् पठन्- अध्येता । कथंभूतः १, तस्मिन्नावश्यके ऽनुपयुक्तः । यस्याध्येतुः, किम् ?, इत्याह- यस्य तदावश्यकपदं प्रथमं शिक्षितं स्थितं, जितमित्यादिविशेषणविशिष्टं भवति ।। ८५० ।।
अथ तान्येवानुयोगद्वारादिमूत्रप्रोक्तानि शिक्षितादिविशेषणानि व्याख्यानयन्नाह -
सिक्खियमंतं नीयं हिययम्मि ठियं जियं दुयं एइ । संखियवण्णाइ मियं परिजियमेत्तुकमेणं पि ॥ ८५१ ॥ सिक्खियं सना तह तं पि तहा ठियाइ नामसमं । गुरुभणियघोससरिसं गहियमुदत्तादओ ते य ॥ ८५२॥
१ नामादिको न्यासश्रतुर्विधो मङ्गलस्येव स ज्ञेयः । विज्ञेयश्व विशेषः सूत्रगतः किञ्चिद् वक्ष्यामि ॥ ८४९ ॥ २ क. ख.ग. 'वस्वरू' ।
३ आगमतो द्रव्याजासकमावासकं पदं यस्य । शिक्षितमित्यादि तत् तदनुपयुक्तो निगदन् ॥ ८५० ॥
४ शिक्षितमन्तं तं हृदये स्थितं जितं हुतमेति । संख्यातवर्णादि मितं परिजितमेत्युत्क्रमेणापि ॥ ८५१ ॥
यथा शिक्षितं स्वनाम तथा तदपि तथा स्थितादि मामससम् । गुरुभणितत्रोपसदृशं गृहीतमुदानादयस्ते च ॥ ८५२ ॥
For Private and Personal Use Only