________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
201
विशेषा०
प्रदीप इव श्रुतज्ञानमेव यस्मात् स्व-परस्वरूपप्रकाशकम् , न शेषज्ञानानि । न हि श्रुतज्ञानं विहाय स्वकीय स्वरूपं, शेषज्ञानचतुष्टयस्वरूपं चाऽन्यज्ज्ञानं परस्य प्रकाशयितुं शक्नोति । अनुयोगोऽपि परमवोधनायैव प्रवर्तते । अतः परप्रबोधकत्वेनाऽऽसनत्वात् तस्यैव श्रुतस्याऽनुयोगः परमवोधनार्थमारभ्यते, न शेपज्ञानानामिति ।। ८३८ ॥ ८३९ ॥
अथ प्रेर्यमुत्थाप्य परिहरन्नाह
सोऽहिगओ च्चिय आवस्सयस्स कयरस्स किं त्थ चिंताए ।तं चिय सुयं ति साहइ सुयाणुयोगाभिहाणेण ॥८४०॥
आह- ननु 'कैयप्पवयणप्पणामो' इत्यादौ 'आवस्सयाणुओर्ग' इत्यनेनाऽसावावश्यकानुयोगोऽधिकृत एवाऽऽस्ते, किमत्र 'सो मइनाणाईणं कयरस्स' इत्यनया चिन्तया कार्यम् - न किश्चिदित्यर्थः । अत्रोत्तरमाह- इह श्रुतज्ञानस्यानुयोग इत्यभिधानेन तदेवावश्यकं श्रुतविशेष एव, नापरं किश्चिद् घटादिवस्तु, इति साधयति कश्रयति । अतो नन्यादिषु यदुक्तम्- 'आवश्यकस्याऽनुयोगं वक्ष्यामि' इति, तत् 'श्रुतविशेषरूपस्यैवैतस्य' इत्यावेदितं भवतीति ॥ ८४०॥.
आह- यद्येवम् , 'अनुयोगः' इति कः शब्दार्थः १, इत्याह
अणुवयणमणुओगो सुयस्स नियएण जमभिहेएणं । वावारो वा जोगो जोऽणुरूवोऽणुकूलो वा ॥ ८४१ ॥ अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणु तस्स । अभिहिए वावारो जोगो तेणं व संबंधो ॥ ८४२॥
यत् मूत्रस्य निजेनाभिधेयेनाऽनुयोजनमनुसंवन्धनमसावनुयोग इत्यर्थः । अथवा, योऽनुरूपोऽनुकूलो वा घटमानः संबध्यमानो व्यापारः प्रतिपादनलक्षणः सूत्रस्य निजार्थविपयेऽयमनुयोगः । अथवा, यद् यस्मादर्थतोऽर्थात् सकाशादणु सूक्ष्म लघु सूत्रम् , काभ्याम् , इत्याह- स्तोक-पश्चाद्भावाभ्यां- एकस्यापि मूत्रस्यानन्तोऽथे इत्यर्थात् स्तोकत्वात् , तथा, प्रथममुत्पाद-व्यय-ध्रौव्यलक्षणं तीर्थकरोक्तमर्थं चेतसि व्यवस्थाप्य पश्चादेव मूत्रं रचयन्ति गणधराः, इत्येवमर्थात् पश्चाद्भावाच सूत्रमणु एवेति भावः, तस्मात् तस्याऽणोः सूत्रस्य यः स्वकीयाभिधेये योगो व्यापारः, तेन वाऽणुना मूत्रेण सह यः संवन्धो योगोऽसावनुयोग इति ॥ ८४१॥ ८४२ ॥
, सोऽधिकृत एवावश्यकस्य कतरस्य किमत्र चिन्तया ? । तदेव श्रुतमिति कथयति श्रुतानुयोगाभिधानेन ॥ ८४०॥ २ गाथा १।३ गाथा ८३८॥ १ अनुवचनमनुयोगः श्रुतस्य नियतेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥४॥+धेये
अथवा यदथतः स्तोक-पश्चाद्भावाभ्यां श्रुतमणु तस्य । अभिहिते व्यापारो योगस्तेन वा संबन्धः ॥ ८४२ ॥ तस्मादावश्यकस्याऽनुयोग इति स्थिते विनेयपृच्छाम् , उत्तरं चाह--
आवस्सयस जइ सो तत्थंगाईण अट्ठ पुच्छाओ। तं होइ सुयक्खंधो अज्झयणाई च, न उ सेसा ॥८४३॥
यद्यावश्यकस्याऽयमनुयोगः, तथाऽऽवश्यकं श्रुनविशेषः, तीत्राङ्गादीन्याश्रित्याऽष्टौ पृच्छाः संभवन्ति, तद्यथा- 'आवस्सयं णं किं अंगं, अंगाई सुयक्खंधो, सुयक्खंधा; अज्झयणं, अज्झयणाई उद्देसो, उद्देसा?' इति । अत्रोत्तरमाह-इह तदावश्यक पडध्ययनसमुदायलक्षणश्रुनस्कन्धः, प्रत्येकमध्ययनानि च पडिति । शेषाः पद् प्रकाराः प्रतिपेद्धव्याः, असंभवित्वादिति ॥ ८४३॥
अत्र प्रेरकः प्राह
नणु नंदीवक्खाणे भणियमणंगं इहं कओ संका ? । भण्णइ अकए संका तस्सानियमं च दाएइ ॥८४४॥ .. ननु नन्द्यध्ययने व्याख्यायमाने 'इमं पुण पढवणं पडुच्च अंगवाहिरस्स उद्देसो, समुद्देसो, अणुण्णा, अणुओगो पवत्तई' इत्यादिवचनादावश्यकमगवाह्यस्वादशं न भवतीति भणितमेव, इति कुतोऽत्र शङ्का, येन पृच्छा क्रियते । अत्र निर्वचनमाह- भण्यतेऽत्रोत्तरम् , श्रुतस्कन्धादिविपये तावदस्त्येव शङ्का, तत्राऽस्यार्थस्याऽनिर्णीतत्वात् । अतस्तद्विषयास्तावत् कर्तव्या एवं पृच्छाः। अङ्गाऽनङ्गरूपतायामपि यदा नन्द्यध्ययनमश्रुत्वा विनेयः प्रथमत एवेदं शृणोति, तदाऽकृते नन्दिव्याख्यानेऽस्त्येव शङ्का-किमावश्यकमङ्गम् , तद्बाह्यं वेति । आह- ननु नन्धध्ययनं श्रुत्वा तदावश्यकं श्रोतव्यम् , इतीत्थं क्रमः, अतः कथं नन्द्यध्ययनस्य प्रथमं व्याख्यानाकरणम् , येन प्रस्तुतशङ्का स्यात् , इत्याशङ्कयाह-- 'तस्सेत्यादि' तस्य प्रथम नन्दिव्याख्यानकरणस्याऽत एवाऽङ्गा-ऽनङ्गमश्ननिर्णयवचनादाचार्योऽनियमं दर्शयति, पुरुषाद्यपेक्षयाऽन्यथाऽपि नन्द्यादिव्याख्यानकरणादिति ॥ ८४४ ॥
आह- ननु मालार्थ सर्वेपामपि शास्त्राणामादौ नन्दिव्याख्यानं कर्तव्यमेव, इति कथं तदनियमः १, इत्याहनाणाभिहाणमेत्तं मंगलमिटुं न तीए वक्खाणं । इहमट्ठाणे जुजइ, जं सा वीसुं सुयक्खंधो ॥ ८४५ ॥
1 आवश्यकस्य यदि स तत्राङ्गादीनामष्ट पृच्छाः । तद् भवति श्रुतस्कन्धोऽध्ययनानि च, न तु शेषाः ॥४३॥ २ क. ग. 'तच्चाव' । ३ आवश्यक किमङ्गम् , अङ्गानि श्रुतस्कन्धः, श्रुतस्कन्धाः; अध्ययनम्, अध्ययनानि; उद्देशः, उद्देशाः। ४ ननु नन्दीव्याख्याने भणितमनङ्गमिह कुतः शङ्का । भण्यतेऽकृते शङ्का तस्यानियमं च दर्शयति ॥८४४॥ ५ इदं पुनः प्रस्थापनं प्रतीत्याऽङ्गवारस्योद्देशः, समुद्देशः, अनुज्ञा, अनुयोगः प्रवर्तते । .६ ज्ञानाभिधानमा मङ्गलमिष्टं न तस्या व्याख्यानम् । इहाऽस्थाने युज्यते, यत् सा विष्वक् श्रुतस्कन्धः ॥ ८४५॥ ७ क. 'हसट्ठा।
For Private and Personal Use Only