________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
200 विशेषा० केवलज्ञानिनाम् । दर्शनद्वारे-केवलदर्शनिनाम् । संयतद्वारे- संयवानाम् नोसंयता-संयतानां च उपयोगद्वारे- साकारा- नाकारीपयोगयो। आहारकद्वारे- आहारका-नाहारकयो भाषकद्वारे- भाषका-भाषकयोः परीत्तद्धारे- परीत्तानां, नोपरीत्ता-परीत्ताना च; पर्याप्तद्वारे- पर्याप्ताना नोपर्याप्ता-पर्याप्तानां च सूक्ष्मद्वारे-बादराणां, नोबादर-सूक्ष्माणां च; संझिद्वारे-नोसंश्य-संझिनाम् । भव्यद्वारे- भव्यानां, नोभव्या-ऽभव्यानां च । चरमद्वारे- चरमाणां भवस्थकेवलिना, नोचरमा-ऽचरमाणां च सिद्धानां केवलज्ञानं माप्यते। पूर्वप्रतिपन-प्रतिपद्यमानकयोजना तु स्वख्या कर्तव्येति । द्रव्यप्रमाणद्वारे- प्रतिपद्यमानकानाश्रित्योत्कृष्टतोऽष्टोत्तरशतं केवलिना प्राप्यते, पूर्वमतिपन्नास्तु जघन्यत उत्कृष्टतश्च कोटिपृथक्त्वप्रमाणा भवस्थकेवलिनः प्राप्यन्ते, सिद्धास्त्वनन्ताः । क्षेत्र-स्पर्शनाद्वारयोस्तु जघन्यतो लोकस्याऽसंख्येयभागे केवली लभ्यते, उत्कृष्टतस्तु सर्वलोके । कालद्वारे- सायपर्यवसितं कालं सर्वोऽपि केवली भवति । अन्तरं तु केवलज्ञानस्य नास्ति, उत्पन्नस्य प्रतिपाताऽभावात् । भागद्वारं मतिज्ञानवदिति । भावद्वारे- क्षायिके भावे केवलमवाप्यते । अल्प-बहुत्वद्वारे भतिज्ञानवद् वाच्यमिति ॥
तदेवं केवलज्ञानं समाप्तम् । ॥ तत्समाप्तौ च ज्ञानपञ्चकं समाप्तमिति ॥
-00000000000
॥ अहम् ।। तदेवं तस्स फल-जोग-मंगल-समुदायथा तहेव दाराई' इत्यादिकायां धुरि निर्दिष्टद्वितीयगाथायां मङ्गलरूपं तृतीयद्वारं परिसमाप्य, चतुर्थ समुदायार्थद्वारमभिधानीयम्, इति चेतसि निधाय तावदिदमाह
केवलनाणं नन्दी मंगलमिति चेह परिसमत्ताई । अहुणा स मंगलत्थो भण्णइ पगओऽणुओग त्ति ॥८३७॥
केवलज्ञानमिह समाप्तम् , सत्समाप्तौ च नामादिभेदभिन्ना नन्दी समाप्ता, तत्समाप्तौ च मङ्गल परिसमाप्तम् । अधुना स एव मङ्गलार्थः प्रकृतानुयोगो भण्यते । मङ्गलेनाऽर्थ्यते- प्राप्तुं साधयितुमिष्यत इति मङ्गलार्थो मङ्गलसाध्यः । अथवा, अर्यते गम्यते साध्यत इत्यर्थः, मङ्गलस्यार्थो मङ्गलार्थो मङ्गलसाध्यः, इतीहापि स एवार्थः । स च कः १, प्रकृतोऽधिकृतोऽनुयोग इति ॥ ८३७॥ ..
ननूक्तज्ञानपञ्चकस्य मध्ये कतमस्य ज्ञानस्याऽयमनुयोगः १, इत्याह
"सो मइनाणाईणं कयरस्स, सुयस्स, जं न सेसाई । होंति पराहीणाई न य परबोहे समत्थाई ॥ ८३८ ॥ • पाएण पराहीणं दीवो व्व परप्पबोहयं जं च । सुयनाणं तेण परप्पबोहणत्थं तदणुओगो ॥ ८३९ ॥ ..
स प्रकृतानुयोगः पूर्वोक्तमत्यादिज्ञानपश्चकस्य मध्ये कतरस्य ज्ञानस्य १, इति प्रश्ने सत्याह- श्रुतस्य श्रुतज्ञानस्येत्यर्थः यद् यस्माद् न शेषज्ञानानि पराधीनानि गुर्वायत्तानि भवन्ति, किन्त्वावरणक्षय-क्षयोपशमाभ्यां खत एव जायन्ते । अनुयोगश्च व्याख्यानरूपः परायत्तस्यैव भवति, श्रुतमेव च प्रायः पराधीनम् , न शेषज्ञानानि । प्रत्येकबुद्धादीनां श्रुतस्य स्वयमेव भावात् तब्यवच्छेदार्थ प्रायोग्रहणम् । किञ्च, श्रुतज्ञानमेव परप्रवोधे समर्थम् , मुखरत्वात् । न शेषज्ञानानि, मूकत्वात् । इदमुक्तं भवति-उपदेशेनैव परः प्रबोध्यते, उपदेशश्च शब्देनैव, शब्दश्च कारणे कार्योपचारात् श्रुतज्ञान एवाऽन्तर्भवति, न शेषज्ञानेषुः अतः शब्दात्मकं श्रुतमेव परप्रबोधकम् । तथा, गाथा २ । २ केवलज्ञानं नन्दी मालमिति चेह परिसमाप्तानि । अधुना स मङ्गलार्थो भण्यते प्रकृतोऽनुयोग इति ॥ ८३॥
३ स मतिज्ञानादीनां कतरस्य, श्रुतस्प, यदू न शेषाणि । भवन्ति पराधीनानि न च परबोधे समर्थानि ॥१८॥ मायेण पराधीनं दीप इव परप्रबोधकं यच्च । श्रुतज्ञानं तेन परप्रबोधनार्थ तदनुयोगः ॥ ८३९ ॥
For Private and Personal Use Only