________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-----
197
विशेषा० तं जहा- चक्खुदसणे, अचक्खुईसणे, ओहिदसणे, केवलदसणे" इति । तस्मात् पश्चमस्य मनःपर्यायदर्शनस्याऽनुक्तत्वात् । पश्यति' इत्येतदपि नोपपद्यत इति ॥ ८१७ ॥
अभिमायान्तरमाशङ्कमान आह
अहवा मणपज्जवदसणस्स मयमोहिदसणं सण्णा । विभंगदसणस्स व नणु भणियमिदं सुयाईयं ॥ ८१८
अथवा कश्चिदेवं मैन्येत- यथा विभङ्गदर्शनमवधिदर्शनमेवोच्यते, तथा मनःपर्यायदर्शनस्याऽप्यवधिदर्शनमिति संज्ञाऽभिमत भविष्यति । इदमुक्तं भवति- चक्षुरादिदर्शनचतुष्टयाऽऽधिक्येनाऽनुक्तमपि यथाऽवधिदर्शनेऽन्तर्भूतं विमङ्गदर्शनमिष्यते, तथा मनःपर्याय दर्शनमपि भविष्यति । ततः 'तेन मनापर्यायज्ञानी पश्यति' इत्युपपत्स्यत एवेति । अत्र सूरिराह- नन्वेतत् श्रुतातीतमागमविरुद्धमेव त्वय भणितम् ।। ८१८॥ कुतः.१, इत्याह
जेण मणोनाणविओ दो "तिण्णि व दसणाई भणियाई।जइ ओहिदसणं होज, होज नियमेण तो तिण्णि॥८१९
यस्माद् भगवत्यामाशीविषोद्देशके मनःपर्यायशाने चक्षु-रचक्षुदर्शनलक्षणे द्वे दर्शने, चक्षु-रचक्षु-रवधिदर्शनलक्षणानि त्रीणि व दर्शनानि प्रोक्तानि- यो मति-श्रुत-मनःपर्यायज्ञानत्रितयास्तस्य दे दर्शने, यस्तु मति-श्रुता-ऽवधि-मनःपर्यायज्ञानचतुष्टयवस्तिस्य त्रीणि दर्शनानीति भावः । तस्मादुत्सूत्रं मनःपर्यायज्ञानवतोऽवधिदर्शनसंज्ञितदर्शनाभिधानम् । यदि पुनरित्यं स्यात् , तदा मति-श्रुत-मनःपर्या यज्ञानत्रयवतोऽपि दर्शनानि नियमात् त्रीण्येव स्युः, न तु कापि दे, तस्मात् श्रुतातीतमिदमिति ॥ ८१९ ।।.
अन्ये त्वाहुः । किम् ?, इत्याह
'अन्ने उ मणोनाणी जाणइ पासइ य जोऽवहिसमग्गो । इयरो य जाणइ च्चिय संभवमेत्तं सुएऽभिहियं ॥८२.
अन्ये तु मन्यन्ते- योवधिज्ञानयुक्तो मनःपर्यायज्ञानी चतुर्ज्ञानीत्यर्थः, असौ मनःपर्यायज्ञानेन जानाति, अवधिदर्शनेन । १ अथवा मनःपर्यवदर्शनस्य मतमवधिदर्शनं संज्ञा । विभङ्गदर्शनस्येव ननु भणितमिदं श्रुतातीतम् ॥ ८१८॥ २ क. ग. 'मन्यते य' ।
येन मनोज्ञानषिदो वे श्रीणि वा दर्शनानि भणितानि । यद्यवधिदर्शनं भवेन् , भवेयुर्नियमेन तसस्त्रीणि ॥ ८११॥ ४ क. ख, ग. 'तिन्नि व । ५क.ग.. 'तिनि ६ अन्ये तु मनोज्ञानी जानाति पश्यति च योऽवधिसहितः । इतरश्च जानात्येव संभवमानं श्रुतेऽभिहितम् ॥ ८२०॥
पश्यति । यस्त्ववधिरहितस्त्रिज्ञानी स मनःपर्यायज्ञानेन जानात्येव, न तु पश्यति, तस्याऽवधिदर्शनाभावात् । अतो मनःपर्यायज्ञानमात्रमाश्रित्य संभवमात्रतो जानाति, पश्यति चेति नन्दिसूत्रेऽभिहितमिति ॥ ८२० ।।।
अन्ये तु 'जानाति, पश्यति' इत्यन्यथा समर्थयन्ति, इत्याह
'अन्ने ज सागारं तो तं नाणं न दंसणं तम्मि । जम्हा पुण पच्चक्खं पेच्छइ तो तेण तन्नाणी ॥ ८२१ ॥
अन्ये त्वाः - यत् यस्मात् पटुक्षयोपशमप्रभवत्वाद् मनःपर्यायज्ञानं साकारमेवोत्पद्यते, ' तोत्ति' ततस्तज्ज्ञानमेव, तेन जानात्येवेत्यर्थः, न पुनस्तत्र मनःपर्यायज्ञानेऽवधि केवलयोरिव दर्शनमस्ति । तर्हि 'पश्यति' इति कथम् ?, इत्याह यस्मात् पुनः प्रत्यक्ष मनःपर्यायज्ञानं, 'तो त्ति' ततः प्रत्यक्षत्वात् तेनैव मनःपर्यायज्ञानेन पश्यत्यसौ तज्ज्ञानी- स चासौ ज्ञानी चे तज्ज्ञानी, मनःपर्यायज्ञानीत्यर्थः । इदमुक्तं भवति- 'हशिर प्रेक्षणे' प्रकृष्टं चेक्षणं प्रत्यक्षस्यैवोपपद्यते, प्रत्यक्षं च मनःपर्यायज्ञानम् , अतस्तेन पश्यतीति घटत एव । साकारत्वेन.तु तस्य ज्ञानत्वात् 'तेन जानाति इति निर्षिवादमेव सिद्धम् । तस्माद् दर्शनाभावेऽपि यथोकन्यायात् 'मनःपर्यायज्ञानी 'जानाति, पश्यति' इत्युपपद्यत एवेति ।
__ एतदपि मूलटीकाकृता दूषितमेव, तद्यथा- ननु मनःपर्यायज्ञाने साकारत्वेन ज्ञानत्वाद् दर्शनं नास्ति, अथ च 'प्रत्यक्षत्वेन दृश्यतेऽनेन वस्तु' इति विरुद्धैवेयं वाचोयुक्तिः, साकारत्वेन निषिद्धस्यापीह दर्शनस्य 'दृश्यतेऽनेनेति दर्शनम्' इति व्युत्पैच्या सामर्थ्यादापत्तेः । किञ्च, 'जानाति' इत्यनेनात्र साकारत्वं स्थापितम् , 'पश्यति' इत्यनेन च दर्शनरूढेन शब्देनाऽनाकारत्वं व्यवस्थाप्यते, अतो विरुद्धोभयधर्ममाप्त्याऽपि न किश्चिदेतदिति ॥ ८२१ ॥ आह- यद्यमी सर्वेऽपि पूर्वोक्ता अन्येषामेवाभिमायाः, सदोषाच केऽपि कथञ्चित् । तर्खाचार्यस्य कोऽभिमायः १, इत्याशङ्कयाह
भैण्णइ, पन्नवणाए मणपज्जवनाणपासणा भणिया । तो एव पासए सो, संदेहो हेउणा केण ? ॥ ८२२ ॥ भण्यते स्थितः पक्षोत्र । कः १, इत्याह- प्रज्ञापनायां त्रिंशत्तमपदे मनःपर्यायज्ञानस्य प्रकृष्टेक्षणलक्षणा साकारोपयोगविशेषरूपा
अन्ये यत् साकारं ततस्तज्ज्ञानं न दर्शनं तस्मिन् । यस्मात् पुनः प्रत्यक्षं प्रेक्षते ततस्तेन तज्जानी ॥ २१ ॥ २ क. ख. 'च म'1३ क. ग. 'त्पत्तिसा' ४ भण्यते, प्रज्ञापनायां मनःपर्यवज्ञानपश्यत्ता भणिता । तत ण्व पयायतिम संदेहोरेनमा केमamuxii.-९०००) -
For Private and Personal Use Only