________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
196 वेशेषा. न सामान्यम् । अतो ज्ञानरूपमेवेदम्, न पुनरिह दर्शनमस्ति, सति च तस्मिन् पश्यतीत्युपपद्यते, इति कथपिहोक्त 'पासई' इति ?, इति चेतसि संमधार्य माह- . .
सो य किर अचक्खुइंसणेण पासइ जहा सुयन्नाणी । जुत्तं सुए परोक्खे पञ्चक्खे न उ मणोनाणे १ ॥८१५॥
स च मनःपर्यायज्ञानी किलाञ्चक्षुर्दर्शनेन पश्यति, यथा श्रुतज्ञानी केषांचिद् मतेनाऽचक्षुर्दर्शनेन पश्यतीति प्रागुक्तम् । तथा चे पूर्वमभिहितम्
'उवउत्तो सुयनाणी सव्वं दव्वाई जाणइ जहत्थं । पासइ य केइ सो पुण तमचक्खुद्दसणेणं ति' ॥१॥
इत्यादि । इदमत्र हृदयम्- परस्य घटादिकमर्थं चिन्तयतः साक्षादेव मनःपर्यायज्ञानी मनोद्रव्याणि तावजानाति, तान्येव च मानसेनाऽचक्षुर्दर्शनेन विकल्पयति; अतस्तदपेक्षया 'पश्यति' इतीत्युच्यते । ततश्चैकस्यैव मनःपर्यायज्ञानिनः प्रमातुर्मनःपर्यायज्ञानादनन्तरमेव मानसमचक्षुर्दर्शनमुत्पद्यते, इत्यसावेक एव प्रमाता मनःपर्यायज्ञानेन मनोद्रव्याणि जानाति, तान्येव चाऽचक्षुर्दर्शनेन पश्यतीत्यभिधीयत इति !
अत्र कश्चित् प्रेरकः प्राह- 'जुत्तमित्यादि' "मति-श्रुते परोक्षम्" इति वचनात् परोक्षार्थविषयं श्रुतज्ञानम् , अचक्षुर्दर्शनमपि मतिभेदत्वात् परोक्षार्थविषयमेवः इत्यतो युक्तं घटमानकं श्रुतज्ञानविषयभूते मेरु-स्वर्गादिके परोक्षेऽर्थेऽचक्षुर्दर्शनम् , तस्यापि तदालम्बनत्वेन समान विषयत्वात् । किं पुनस्तर्हि न युक्तम् , इत्याह- 'न उ इत्यादि' "अवधि-मनःपर्याय-फेवलानि प्रत्यक्षम्" इति वचनात् पुनः प्रत्यक्षार्थविषयं मनःपर्यायज्ञानम् । अतः परोक्षार्थविषयस्याऽचक्षुर्दर्शनस्य कथं तत्र प्रवृत्तिरभ्युपगम्यते, भिन्नविषयत्वात् १ ॥८१५॥
अत्र सूरिराह
जैइ जुज्जए परोक्खे पच्चक्खे नणु विसेसओ घडइ । नाणं जइ पञ्चक्खं न दंसणं तस्स को दासो ?॥८१६॥
यदि परोक्षेऽर्थेऽचक्षुर्दर्शनस्य प्रवृत्तिरभ्युपगम्यते, तर्हि प्रत्यक्षे सुतरामस्येयमङ्गीकर्तव्या, विशेषेण तस्य तदनुग्राहकत्वात् , चक्षुःप्रत्यक्षोपलब्धघटादिवदिति । अत्राह- को वै न मन्यते, यत् प्रत्यक्षोऽर्थः सुतरामचक्षुर्दर्शनस्याऽनुग्राहक इति ?; केवलं प्रत्यक्षमनो
सच किलाचक्षुदर्शनेन पश्यति यथा श्रुनज्ञानी । युक्तं श्रुते परोक्ष प्रत्यक्षे न तु मनोज्ञाने ॥८१५॥ २ गाथा ५५३ ।
३ यदि युज्यते परोक्षे प्रत्यक्षे ननु विशेपतो घटते । ज्ञानं यदि प्रत्यक्षं न दर्शनं तस्य को दोपः॥८६॥ क. 'ओ मुणद' । द्रव्यार्थग्राहकत्वादित्यं मनःपर्यायज्ञानस्य प्रत्यक्षता युज्यते, न पुनरचक्षुर्दर्शनस्य, मतिभेदत्वेन तस्य परीक्षार्थग्राहकत्वात् । ततः प्रत्यक्षज्ञानित्वं यनःपर्यायज्ञानिनो विरुध्येत; इत्याशङ्कयाह- 'नाणं जईत्यादि' यदि मनःपर्यायज्ञानलक्षणं ज्ञान प्रत्यक्षार्थग्राहकत्वात् प्रत्यक्षम् , न त्वचक्षुर्दर्शनलक्षणं दर्शनं प्रत्यक्षम् , परोक्षार्थग्राहकत्वेन परोक्षार्थत्वात् । तर्हि हन्त ! तस्य मनःपर्यायज्ञानिनः प्रत्यक्षज्ञा. नितार्या को दोषः- को विरोधः?- न कश्चित् , भिन्नविषयत्वात् , अवधिज्ञानिनश्चक्षुर्दर्शना-ऽचक्षुर्दर्शनवदिति । न ह्यवधिज्ञानिनश्चक्षुरचक्षुर्दर्शनाभ्यां परोक्षमर्थं पश्यतः प्रत्यक्षज्ञानितायाः कोऽपि विरोधः समापद्यते, तद्वदिहाऽपि । तस्माद् मनःपर्यायज्ञानी खज्ञानेन मनोद्रव्य-पर्यायान् जानाति, मानसेन त्वचक्षुर्दर्शनेन पश्यतीति स्थितम् ॥ ८१६ ॥
अन्ये तु 'पश्यति' इत्यन्यथा समर्थयन्ति, इति दर्शयति
अन्नेऽवहिदसणओ वयंति न य तस्स तं सुए भणियं । न यमणपज्जवदसणमन्नं च चउप्पयाराओ॥८१७॥
अन्ये त्ववधिदर्शनेनाऽसौ मनःपर्यायज्ञानी पश्यति, मनःपर्यायज्ञानेन तु जानातीति वदन्ति । एतच्चाऽयुक्तमेव, इत्याहन च नैव तस्य मनःपर्यायज्ञानिनस्तवधिदर्शनं श्रुतेऽभिहितम् । न हि मनःपर्यायज्ञानिनोऽवधिज्ञान-दर्शनाभ्यामवश्यमेव भवितव्यम्, अवधिमन्तरेणापि मति-श्रुत-मनःपर्यायलक्षणज्ञानत्रयस्याऽऽगमे प्रतिपादितत्वात् तथा चाह-"मणपजवनाणलद्धीया गं भन्ते ! जीवा किं नाणी, अन्नाणी । गोयमा! नाणी, नो अन्नाणी । अत्थेगइया तिनाणी, अत्थेगइया चउनाणी । जे तिनाणी ते आभिणिबोहियसुय-मणपज्जवनाणी; जे चउनाणी ते आभिणिवोहिय-सुय-ओहि-मणपज्जवनाणी"तदेवं मनःपर्यायज्ञानिनोऽवधिनियमस्याऽभावात् कथमवधिदर्शनेनाऽसौ पश्यतीत्युपपद्यते । अथैवं मन्यसे-किमतैर्वहुभिः प्रलपितः १, यथाऽवधेर्दर्शनम् , तथा मनःपर्यायस्याऽपि तद् भविष्यति, ततस्तेनाऽसौ पश्यति, इत्युपपत्स्यत एव; इत्याशङ्कयाह- 'न य मणेत्यादि' न च नैव चतुष्पकाराच्चक्षुरादिदर्शनादन्यत् पञ्चमं मनःपर्यायदर्शनं श्रुते भणितम् , येन पश्यतीत्युपपत्स्यते । तथाचाह-"कइविहे गं भंते ! दंसणे पण्णत्ते । गोयमा! चउबिहे,
. अन्येऽवधिदर्शनतो वदन्ति न च तस्य तत् श्रुते भणितम् । न च मनःपर्यवदर्शनमन्यच चतुष्पकारात् ॥१७॥
२ मनःपर्यवज्ञानलब्धिका भगवन् ! जीवाः किं ज्ञानिनः, अज्ञानिनः । गौतम ! ज्ञानिना, नो अज्ञानिनः । सन्त्यके विज्ञानाः, सन्त्येके चतुर्ज्ञानाः। ये त्रिज्ञानास्ते आभिनिबोधिक-श्रुत-मनःपर्यवज्ञानिनः; ये चर्तुज्ञानास्ते भाभिनिबोधिक-श्रुता-ऽवधि-मनःपर्यवज्ञानिनः। ३ कतिविधं भगवन् ! दर्शनं प्रजप्तम् ।। गौतम ! चतुर्विधम् , तद्यथा- चक्षुर्दर्शनम् , अचक्षुर्दर्शनम् , अवधिदर्शनम् , केवलदर्शनम् ।
For Private and Personal Use Only