________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
195 विशेषा० अथ ज्ञानपञ्चकभणनक्रमाऽऽयातस्य मनःपर्यायज्ञानस्य प्रस्तावनी कर्तुमाह- मनःपयोयतानम ||
ओहिविभागे भणियं पि लद्धिसामण्णओ मणोनाणं । विसयाइविभागत्थं भणइ नाणकमायातं ॥८०९॥ प्रकटाथैव ॥ इत्येकादशगायार्थः ॥ ८०९॥ तद प्रतिज्ञातं मनःपर्यायज्ञानमाह
मजपज्जवनाणं पुण जणमणपरिचिंतियत्थपागडणं । माणुसखेत्तनिबद्धं गुणपञ्चइयं चरित्तवओ ॥१०॥
मनःपर्यायज्ञानं प्राग् निरूपितशब्दार्थम् । पुनः शब्दोऽवधिज्ञानादस्य विशेषयोतनार्थः । इदं हि रूपिद्रव्यनिषन्धनत्व-क्षायोपशमिकत्व-प्रत्यक्षत्वादिसौम्येऽपि सत्यवधिज्ञानात् वाम्यादिभेदेन विशिष्टमिति । तत्र विषयमाश्रित्य स्वरूपत इदं प्रतिपादयति-जायन्त इति जनास्तेषां मनांसि जनमनांसि तैः परिचिन्तितो जनमनःपरिचिन्तितः स घासावर्थश्च तं प्रकटयति प्रकाशयति जनमनःपरिचितितार्थमकटनम् । मानुपक्षेत्रमर्धवृतीयद्वीप-समुद्रपरिमाणं तनिबद्धम्, न खलु ताहिर्भूतमाणिमनास्यवगच्छतीति भावः। गुणा विशिष्टदिमाप्ति-क्षान्त्यादयस्त एव प्रत्ययाः कारणानि यस्य तद् गुणप्रत्ययम् । चारित्रमस्याऽस्तीति चारित्रवांस्तस्य चारित्रवत एवेदं भवति, तस्याऽप्यप्रमत्तद्धिमाप्तत्वादिसमयोक्तविशेषविशिष्टस्यैव ॥ इति नियुक्तिगाथार्यः ॥ ८१०॥ अथ भाष्यं तत्र पुनःशब्दार्थ तावदाह
पुणसहो उ विससे रूविनिबंधाइतुल्छभावे वि । इदमोहिन्माणाओ सामिविसेसाइणा भिन्नं ॥ ८११ ॥ गताथैव ॥ ८११ ॥ अथ कस्य तद् भवति, कियत्क्षेत्रविषयं च ?, इत्याह
"तं संजयस्स सव्वप्पमायरहियस्स विविहरिद्धिमओ। समयक्खेतभितरसण्णिमणोगयपरिणाणं ॥८१२॥ १५. छ, 'नभणनस्य' । २ क. ग. 'नो कुर्वनाह' ।। अवधिविभागे भणितमपि लब्धिसामाम्यतो मनोज्ञानम् । विषयादिविभागार्थ भणति ज्ञानक्रमायातम् ॥ ८०९ ॥
मनःपर्यवज्ञानं पुनर्जनमनःपरिचिन्तितार्थप्रकटनम् । मनुष्यक्षेत्रनिवडू गुणप्रत्ययितं चारित्रवतः ॥१०॥ ५क. ग. 'सामान्येऽपि । ६ पुनःशब्दस्तु विशेपे रूपिनियन्धादितुल्यभावेऽपि । इदमबधिज्ञानात् स्वामिविशेषादिना भिन्नम् ॥ ८॥ - तत् संयतस्य सर्वप्रमादरहितस्त्र विविधर्द्धिमतः । समयक्षेत्राभ्यन्तरसंशिमनोगतपरिज्ञानम् ॥ १३॥ क. ख, ग, 'तभंत'। . प्रकटार्था ॥ ८१२॥ तदेवं क्षेत्रतस्तद्विषय उक्तः। अथ द्रव्यतः, कालतः, भावतश्च तद्विषयमाह'मुणइ मणोदव्वाइं नरलोए सो मणिजमाणाई । काले भूय-भविस्से पलियाऽसंखिजभागम्मि ॥ ८१३ ॥
दव्यमणोपजाए जाणइ पासइ य तग्गएणंते । तेणावभासिए उण जाणइ बज्झेऽणुमाणेणं ॥ ८१४ ॥
समनःपर्यायज्ञानी मुणत्यवगच्छति । कानि ?, इत्याह- मनश्चिन्तापवर्तकानि द्रव्याणि मनोद्रव्याणि । तानि किं मनोयोग्यान्यप्याकाशस्थानि जानाति । न, इत्याह-नरलोके तिर्यग्लोके मन्यमानानि संज्ञिभिर्जीवैः कार्य-मनोयोगेन गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानीत्यर्थः । तदयं द्रव्यतो विषय उक्तः । अथ कालतो भावतश्च तमाह- 'काले इत्यादि ' भावतस्तावजानाति पश्यति च । कान् ?, इत्याह- चिन्तानुगुणान् सर्वपर्यायराश्यनन्तभागरूपानन्तान् रूपादीन् पर्यायान् । कस्य संवन्धिनः ?, इत्याह- मनस्त्वपरिणतानन्तस्कन्धसमूहमयस्य द्रव्यमनसः, न तु भावमनसा, तस्य ज्ञानरूपत्वात् , ज्ञानस्य चामूर्तत्वात, छद्मस्थस्य चामूर्तविषयाऽयोगादिति । तांश्च तद्गतानेव मनोद्रव्यस्थितानेव जानाति, नपुनश्चिन्तनीयवाह्यघटादिवस्तुगतानिति भावः।न च वक्तव्यमेते मनोद्रव्यसंवन्धिन एव न भवन्ति, किमेतद्वयवच्छेदपरेण तद्गतग्रहणेन ? इति; मनोद्रव्याणि दृष्ट्वा पश्चादनुमानेन ते ज्ञायन्ते, इत्येतावता मनोद्रव्यैरपि सह संवन्धमात्रस्य विद्यमानत्वात् । एतदेवाह- तेन द्रव्यमनसाऽवभासितान् प्रकाशितान् बाह्यांश्चिन्तनीयघटादीननुमानेन जानाति, यत एव तत्परिणतान्येतानि मनोद्रव्याणि, तस्मादेवं विधेनेह चिन्तनीयवस्तुना भाव्यम् , इत्येवं चिन्तनीयवस्तूनि जानातिन साक्षादित्यर्थः। चिन्तको हि मूर्तममूर्त च वस्तु चिन्तयेत् । न च च्छमस्थोऽमूर्त साक्षात् पश्यति, ततो ज्ञायते- 'अनुमानादेव चिन्तनीयं वस्त्ववगच्छति। कियति कस्मिंश्च काले मनोद्रव्य-पर्यायानसौ जानाति ?, इत्याह- 'काले भूयेत्यादि' भूतेऽतीते, भविष्यति चाऽनागते पल्योपमासंख्येयभागरूपे काले ये तेषां मनोदव्याणां भूता व्यतीताः, भविष्यन्तश्चाऽनागताचिन्तानुगुणाः पर्यायास्तान् जानातीति ॥८१३।। ८१४ । - अत्र चान्तरे "तं समासओ चउव्विहं पन्न, तं जहा- दबओ, खेत्तओ, कालओ, भावओ । दबओ गं उजुमइ अणते अणंतपएसिए खन्धे जाणइ पासइ" इत्यादि नन्दिसूत्रेऽभिहितम् । तत्र मनःपर्यायज्ञानं पटुक्षयोपशमप्रभवत्वाद् विशेषमेव गृह्णदुत्पद्यते,
१ जानाति मंनोदव्याणि नरलोके स मन्यमानानि । काले भूत-भविष्यतोः पल्यासंख्येयभागे ॥ ८१३॥ द्रव्यमनःपर्यायान् जानाति पश्यति च तद्ताननम्तान् । तेनावभासितान् पुनर्जानाति बाह्याननुमानेन ॥ ८१४॥ २ क. ग. 'संखेज्ज'। ३ क. 'ययो'। तत् समासतश्चतुर्विध प्रज्ञप्तम्, तद्यथा-द्रव्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत ऋजुमतिरनन्ताननन्तप्रदेशिकान् स्कन्धान जानाति, पश्यति ।
For Private and Personal Use Only