________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
194
विशेषा० कथं पुनर्जायते चक्रवर्तिलब्धिर्भव्यानामेव भवति ?, इत्याह
पोग्गलपरियट्टद्धं जं नरदेवंतरं सुए भणियं । तो सो भव्वो, कालो जमयं निव्वाणभावीणं ॥८०५॥ - यद् यस्माद् नरदेवाश्चक्रवर्तिनस्तेषामन्तरमपार्धपुद्गलपरावर्तलक्षणं भगवत्यामुक्तम् , यदाह- "नरदेवाणं भंते ! अंतरं कालओ केचिरं होइ ? । गोयमा ! जहण्णेणं साइरेगं सागरोवमं, उकोसेणं अवड्ढं पोग्गलपरियह देसूर्ण" इति । तस्मादसौ चक्रवर्ती भव्य एव भवति नाभन्या, यदस्मादयमपापुद्गलपरावर्तलक्षणोऽन्तरकालो भाविनिर्वाणपदानामेव घटते । अभव्यानां तु भवनपत्यादिभाविदेवानामुत्कृष्टतो वनस्पतिकालस्यैवाऽन्तराभिधानात् । किञ्च, अन्यत्रापि देवेन्द्र-चक्रवर्तित्वादिपदयोग्यकर्मणां बन्धो भव्यानामेवोक्त इति भव्य एव चक्रवर्तीति ॥८०५॥
- तदेवं प्रसङ्गाऽऽयाताः शेषीः प्रतिपाद्याऽवधिज्ञानं च समसङ्ग विस्तरतः प्ररूप्योपसंहरन् वक्ष्यमाणसंक्षेपमरूपणस्य प्रस्तावना च कर्तुमाह
भणिओऽवहिणो विसओ तहावि तस्संगहं पुणो भणइ । संखेवरुईण हियं अव्वामोहत्थमिटं च ॥८०६॥
भणितः प्ररूपितः 'ओही खेत्तपरिमाणे संठाणे' इत्यादिना सर्वेणापि पूर्वोक्तग्रन्थेनावधेः स्वरूपाधन्वितो विषयो द्रव्य-क्षेत्रादिका, तथा तत्संग्रहं विषयस्य संक्षेपप्ररूपणं पुनरपि भणत्यत्रान्तरे देववाचको नन्यध्ययनसूत्रकारः । अनेन चेदं सूचितम्-नन्धध्ययनसूत्रकारेण प्रथमं विस्तरतोऽवधिज्ञानं भरूप्य पर्यन्ते पुनरपि संक्षेपतस्तद्विषयः प्ररूपितः, तद्यथा- "तं समासओ चउन्विहं पन्न, तं जहा-दव्वओ, खेतओ, कालओ, भावओ" इत्यादि । ननु नन्दिसूत्रकारेणापि किमित विषयः पुनरपि प्ररूपितः, पौनरुक्त्यप्रसङ्गात् ?, इत्याशङ्कयाह- 'संखेवेत्यादि' यस्मादतिसंक्षेपरुचीनां हितमिदं संक्षेपभणनम् , अतस्तेषां हितार्थ मन्दमतीनामव्यामोहार्थ चेष्टः मेतदिति ॥ ८०६॥
१. पुद्गलपरिवर्धिं यद् नरदेवाऽन्तरं श्रुते भणितम् । ततः स भव्यः, कालो यदयं निर्वाणभाविनाम् ॥ ८०५॥ २ नरदेवानां भगवन् ! अन्तरं कालतः कियच्चिरं भवति ।। गौतम ! जघन्येन सातिरेकं सागरोपमम् , उत्कर्षेणाऽपाधैं पुदलपरिवतै देशोनम् । ३ भणितोऽवधेर्विषयस्तथापि तत्संग्रहं पुनर्भणति । संक्षेपरुचीमा हितमव्यामोहार्थमिष्टं च ॥ ८०६॥ ४ गाथा ५७७ ।
५ तत् समासतश्चतुर्विधं प्रज्ञप्तम् , तद्यथा-वृष्यतः, क्षेत्रतः, कालतः, भावतः। तमेव विषयसंग्रहमाह
देव्वाइं अंगुला-वलिसंखेज्जाईयभागविसयाई । पेच्छह चउग्गुणाई जहण्णओ मुत्तिमंताई ॥ ८०७ ॥
उक्कोसं संखाईयलोगोग्गलसमानिबद्धाइं । पइदव्वं संखाईयपज्जयाइं च सव्वाइं ॥ ८०८ ॥ .
जघन्यतो मूर्तिमन्ति द्रव्याण्यवधिशानी पश्यतीति संटङ्कः । कथंभूतानि ?, इत्याह- 'अंगुलेल्यादि' अङ्गुलसंख्यातीतभागविषयाणि, आवलिकासंख्यातीतभागविषयाणि चेत्यर्थः । भावतस्तु प्रतिद्रव्यं चत्वारो गुणा धर्माः पर्याया येषां तानि चतुर्गुणानि पश्यति । इदमुक्तं भवति- जघन्यतोऽवधिज्ञानी द्रव्यतः, क्षेत्रतश्चाङ्गुलासंख्येयभागवर्तीनि मूर्तद्रव्यागे पश्यति, कालतस्त्वेतावद्व्याणामावलिकाऽसंख्येयभागाभ्यन्तरवर्तिनोऽतीतान् , अनागतांश्च पर्यायान् पश्यति, भावतस्तु प्रतिद्रव्यं चतुरः पर्यारान् पश्यतीति । ... उत्कृष्टतस्तु द्रव्यतः क्षेत्रतश्चाऽसंख्येयलोकाकाशखण्डावगाढानि सर्वाण्यपि मूर्तद्रव्याणि पश्यति । एतानि चैकस्मिन्नेव लोकाकाशेऽवगाहानि प्राप्यन्ते, शेषलोकावगाढानां तु दर्शनं शक्तिमात्रापेक्षयैवोच्यते । कालतस्त्वेषां द्रव्याणामसंख्यातोत्सर्पिण्य-वसर्पिणीसमान्तर्गतानतीता-ऽनागतांश्च पर्यायान् पश्यति । भावतस्त्वेकैकद्रव्यमाश्रित्याऽसंख्येयपर्यायाण्येतानि पश्यति । इह च दर्शनक्रियासामान्यमात्रमाश्रित्य 'पश्यति' इत्युक्तम् , विशेषतस्तु जानाति पश्यतीति च सर्वत्र द्रष्टव्यम् ॥ ८०८॥
तदेवं जघन्यत उत्कृष्टतश्च प्राग विस्तरतः प्रोक्तोऽवधिविषयः, इदानीं तु स एव संक्षेपत उक्तः ॥
॥ तहणने च सप्रसङ्गमवधिज्ञानं समाप्तमिति ॥
ब्याण्यङ्गुला-ऽऽवलिसंख्यातीतभागविषयाणि । प्रेक्षते चतुर्गुणानि जघन्यतो मूर्तिमन्ति ॥ ८०७ ॥+थिग्गल-1 उत्कृष्टतः संख्यातीतलोकपुद्गलसमानिबद्धानि । प्रतिद्रव्यं संख्यातीतपर्ययाणि च सर्वाणि ॥ ८०८ ॥२ घ. छ. 'ताना' ।
For Private and Personal Use Only