________________
Acharya Shri Kailassagarsun Lyamanall
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
193
विशेषा०
एवमेता अन्याच जीवानां शुभ-शुभतर-शुभतमपरिणामवशाद् बहुमकारा अपरिमितसंख्या लब्धयो भवन्ति । कथंभूताः १, | इत्याह- 'उदय त्ति' वैक्रिया-ऽऽहारकनामादिकर्मोदयसमुत्थास्तावद् वैक्रिया-ऽऽहारकशरीरकरणादिका लब्धयो भवन्ति । 'खय चि'
दर्शनमोहादिक्षयसमुत्थास्तु क्षायिकसम्यक्त्व-क्षीणमोहत्व-सिद्धत्वादयः । 'खओवसमुत्ति दान-लाभान्तरायादिकर्मक्षयो अक्षीणमहानस्यादयः । तत्र येनाऽऽनीतं भैक्षं बहुभिरप्यन्यैर्भुक्तं नक्षीयते, किन्तु स्वयमेव भुक्तं निष्ठां याति तस्याऽक्षीणमहानसीलब्धिः 'उपसम त्ति' दर्शनमोहायुपशमसमुत्था औपशमिकसम्यक्त्वो-पशान्तमोहत्वादिका लब्धयो भवन्ति ॥ ८०१ ॥ - अथ मतान्तरं तन्निरासं च दर्शयितुमाह
केई भणंति वीसं लडीओ तं न जुज्जए जम्हा । लद्धि त्ति जो विसेसो अपरिमिया ते य जीवाणं ॥ ८०२॥
गणहर-तेया-हारय-पुलाय-बोमाईंगमणलद्धीओ। एवं बहुगाओ वि य सुव्वंति न संगिहीयोओ ॥ ८०३ ॥ केनिदाचार्यदेश्यीया विंशतिसंख्यानियमिता एव लब्धीः प्राहुः, यतस्ते पठन्ति
"आमोसही य खेले जल्ल-विप्पे य होइ सव्वे य । कोढे य बीयबुद्धी पयाणुसारी य संमिन्ने ॥१॥
रिजमह-विउल-खीरमहु-अक्खीणे विउन्वि-चरणे य । विज्जाहर-अरहंता चक्की बल-बासु बीस इमा ॥२॥" 'खीरमह त्ति' एकैवेयं क्षीरमध्वाश्रयलब्धिः । 'चरणे य त्ति' चारणलब्धिः ।
" भवसिद्धियाणमेया वीस पि हवंति एत्थ लद्धीओ । भवसिद्धियाण महिलाण जत्तिया जा तयं योच्छं ॥३॥ जिण-बल-चक्की-केसव-संभिन्न-जंघचरण-पुव्वे य । भणिया वि इत्थीए एयाओ न सत्त लद्धीओ॥४॥"
१ क.ग. 'नश्याद' । २ क.ग. 'नशील' । ३ केचिद् भणंति विशति लब्धीस्तद् न युज्यते यस्मात् । लब्धिरिति यो विशेषोऽपरिमितास्ते च जनिानाम् ॥ ...
गणधर-तैजसा-ऽऽहारक-पुलाक-व्योमादिगमनलब्धयः । एवं बहुका अपि च श्रूयन्ते न संगृहीताः ॥ ८०३॥ ४ क.ग. 'इया ग'। ५ क.ग. 'या उ' । ६ मामाँषधिश्च श्लेष्मा मल-विग्रुषौ च भवति सर्वश्च । कोष्ठश्च वीजबुद्धिः पदानुसारी च संभिक्षः॥१॥
जुमति-विपुल-क्षीरमधु-अक्षीणा वैक्रिय-चारणौ च । विद्याधरा-ऽहंन्तौ चक्री बल-वासू (सुदेवौ)विंशतिरिमाः ॥२॥ .क.ग. 'रणा ल'। . . भवसिद्धिकानामेता विंशतिरपि भवन्स्यन्त्र लब्धयः । भवसिद्धिकानां महिलाना यावत्यो वास्तद् वक्ष्ये ॥३॥ -+भायमाए हम जिन-बछ-क्रि-केशव-संभिन्न-जहाचरण-पूर्वाश्च । भणिता अपि स्त्रिया पता न साप्त कब्धयः॥४॥
1
४९
शेषास्तु त्रयोदश लब्धयः स्त्रीणां भवन्तीति सामर्थ्याद् गम्यते । अर्थतास्तावत् सप्त, अन्यच्च ऋजुमति-विपुलमतिलक्षणं लब्धिद्वयं पुरुषाणामप्यभव्यानां न संभवतीति दर्शयितुमाह
" 'रिजुमइ-विउलमईओ सत्त य एयाओ पुब्वभणियाओ । लद्धीओ अभव्वाणं होति नराणं पि न कयाइ ॥ ५॥
अभवियमहिलाणं पि हु एयाओ न होति भणियलद्धीओ । महुखीरासवलद्धी वि नेय सेसा उ अविरुज्झा ॥ ६ ॥" इत्यलं प्रसङ्गेन । प्रकृतमुच्यते- यदिह विंशतिसंख्यया केचिल्लब्धीनियमयन्तिं, तद् भवतां प्रमाणं नवा! । इत्याह- 'तं न जुज्जए इत्यादि । कुतो न युज्यते, इत्याह-लब्धिरिति यः 'अतिशयः' इति वाक्यशेषः, स तावल्लब्धिरहितसामान्यजीवेभ्यो विशेष उच्यते । तेच विशेषाःकर्मक्षय-क्षयोपशमादिवैचिच्याज्जीवानामपरिमिताः संख्यातुमशक्याः, इति कथं विंशतिसंख्यानियमस्तेषां युज्यते। किञ्च, गणधरत्व-पुलाकत्व-तेजःसमुद्धाता-ऽऽहारकशरीरकरणादिकास्तावत् प्रसिद्धा अपि बढयो लब्धयः श्रूयन्ते, तासामपीत्थमसंग्रहः स्यादिति । एतदेवाह- 'गणहरेत्यादि ॥ ८०२ ॥ ८०३ ॥
अत्रैव प्रक्रमे परमतमाशङ्कय निराकर्तुमाह
भव्वा-भव्वाइविसेसणत्थमहवा तयं पि सवियारं । भव्वा वि अभव्व व्विय जं चक्कहरादओ भणिया॥८०४).
'अहव त्ति' अथवेत्थं ब्रूयात पर:- भव्या-ऽभव्यादिविशेषणार्थ विंशतिसंख्यानियमनम्- एता विंशतिलब्धयो भव्यानामेव, शेषास्तु भव्या-ऽभव्यसाधारणा इति । तदपि - सविचार- सव्यभिचारम् , यतो विंशतेरन्यत्रापि गणधर-पुलाका-ऽऽहारकादिलब्धयो भव्यानामेव भवन्ति, विंशतिमध्यपठिता अपि च वैक्रिय-विद्याधरादिलब्धय आमोषध्यादिलब्धयश्चाऽभव्यानामपि भवन्तीति सर्वत्र व्यभिचारः। किञ्च, भव्यत्वेन प्रसिद्धा अपि चक्रवर्त्यादयो यद् यस्मात् तैविंशतिलब्धिवादिभिरेताखेव विंशतिलब्ध्यन्तर्वर्तिनीष्वामोंषधि-क्रियकरण-विद्याधरत्वादिकास्वभव्यसाधारणत्वेनाऽभव्यलब्धिषु मध्ये भणिताः पठिताः, इतीत्थमपि व्यभिचारः, आमषौषध्यादिलब्धिवच्चक्रवादिलब्धीनामप्यमव्यस्य प्राप्तिप्रसङ्गात् । न च चक्रवादिलब्धयः कदाचिदप्यभव्यस्य संभवन्ति ॥८०४॥
.
.
.
.
, ऋजुमति-विपुलमती सप्त चैताः पूर्वभणिताः । लन्धयोऽभव्यानां भवन्ति नराणामपि न कदाचित् ॥५॥
अभव्य-महिलानामपि खलु एता न भवन्ति भणितलब्धयः । मधुक्षीराऽऽश्रवलब्धिरपि ज्ञेयाः शेषास्त्वविरुद्वाः ॥६॥ २ भव्या-ऽभव्यादिविशेषणार्थमथवा तदपि सविचारम् । भव्या भयभन्या इव यचक्रधरादयो भणिताः ॥ ८०४॥
For Private and Personal Use Only