________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
192 विशेषा रनन्तरं विपुलमतेरपि व्याख्यानं कृतमित्यदोषः । विउलं वत्थुविसेसण त्ति' विपुलं वस्तुनो घटादेविशेषणानां देश-क्षेत्र-कालादीनां मान संख्यास्वरूपं तद्ग्राहिणी विपुलमतिः। षष्ठ-सप्तमाऽष्टमगाथाभिर्जङ्घाचारणद्धिस्वरूपम् । नवम-दशमगाथाभ्यां तु विद्याचारणाईस्वरूपम् । एकादशगाथयाऽऽशीविषर्दिस्वरूपं व्याख्यातम् । 'ते कम्म-जाईत्यादि' ते आशीविषाः कर्मभेदेन तिर्यगायनेकविधा, जातिभेदेन तु वृश्चिक-मण्डूकादिचतुर्विधविकल्पाः । द्वादशगाथायां केवली चतुर्भेदः, कथम् ?, इत्याह- क्षायिकसम्यक्त्व-ज्ञान-दर्शनचारित्रभेदादिति । त्रयोदशगाथायां पूर्वार्धन चालना, उत्तरार्धेन तु प्रत्यवस्थानम् । तत्र मनःपर्यायज्ञानं केवलज्ञानं चोत्तरत्र स्वस्थान
वक्ष्यते, किमिहावधिज्ञानावसरे तद्ग्रहणम् । इति चालनाकतुरभिप्रायः । आचायस्तु मन्यते- यथाऽवधिज्ञानावसर ऋद्धिसाम्याच्छेपर्द्धिग्रहणम् । तथैवर्दिमस्तावाद् मनःपर्याय केवलयोरपीह ग्रहणं कृतमित्यदोष इति ।। ७८१-७९३ ॥
अथ वासुदेवादीनां बलवर्णनाद्यतिशयं नियुक्तिकार एव प्रकटयतिसोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्ध । अंछंति वासुदेवं अगडतडम्मि ठियं संतं ॥ ७९४ ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । भुजिज्ज विलिंपिज्ज व महुमहणं ते न चाएंति ॥ ७९५ ॥ दो सोला बत्तीसा सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कट्टि अगडतडम्मि ठियं संतं ॥ ७९६ ॥ घेत्तूण संकलं सो वामगहत्थेण अंछमाणाणं । मुंजिज्ज विलिंपिज्ज व चक्कहरं ते न चाएंति ॥ ७९७ ॥
जं केसवस्स बलं तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा अपरिमियबला जिणवरिंदा ॥७९॥ इह वीर्यान्तरायकर्मक्षयोपशमविशेषाद् बलातिशयो वासुदेवस्य प्रदीते-पोडशं राजसहस्राणि हस्त्य-श्व-रथ-पदाति-समन्वितानि शृङ्खलानिबद्धं 'अंछति' देशीवचनादाकर्षन्ति वासुदेवं, अगडतटे कूपनटे स्थितं सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन 'अंछमा
१ षोडश राजसहस्राणि सर्वबलेन तु शृङ्गलानिबद्धम् । आकर्षन्ति वासुदेवमवटतटे स्थितं सन्तम् ॥ ७९ ॥ गृहीत्वा शृङ्गला स वामहस्तेनाऽऽकर्षताम् । भुञ्जीत विलिम्पेत वा मधुमथनं ते न शक्नुवन्ति ॥ ७९५॥ द्वी षोडशकौ द्वात्रिंशत् सर्वबलेन तु शृङ्खलानिबद्धम् । आकर्षन्ति चक्रवर्तिनमवटतटे स्थितं सम्सम् ॥ ७९६॥ गृहीत्वा शृङ्खला स वामहस्तेनाऽऽकर्षताम् । भुजीत विलिम्पेत वा चक्रधरं ते न शक्नुवन्ति ॥ ७९७ ॥
यत् केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततो बला बलवन्तोऽपरिमितबला जिनवरेन्द्राः ॥ ७९८॥ णाणं ति' आकर्षतां भुञ्जीत विलिम्पेत या दृष्टः सन्नयज्ञयेति । मधुमथनं ते राजानः सबला अपि न शक्नुवन्ति 'आक्रष्टुम्' इति वाक्यशेषः। चक्रवर्तिनस्त्विदं बलं, तद्यथा- द्वौ षोडशकी द्वात्रिंशत् । तत्र 'द्वात्रिंशत्' इत्येतावत्येव वाक्ये 'द्वौ षोडशको' इत्यभिधानं चक्रवर्तिनी वासुदेवाद् द्विगुणद्धिंख्यापनार्थम् । 'राजसहस्राणि' इति गम्यते । समस्तबलेन सह शृङ्खलानिबद्धमाकर्षन्ति चक्रवर्तिनमगडतटे स्थित सन्तम् । ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेनाऽऽकर्षतां भुञ्जीत विलिम्पेत वा; चक्रधरं ते न शक्नुवन्ति 'आक्रष्टुं' इति वाक्यशेषः! यच्च केशवस्य बलं तद्विगुणं भवति चक्रवर्तिनः । ततः शेपलोकवला बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयादपरिमितमनन्तं बलं येषां तेऽपरिमितबला जिनवरेन्द्राः ॥ इति नियुक्तिगाथापचकार्थः ॥ ७९४ ॥ ७९५ ॥ ७९६ ॥ ७९७॥७९८॥ तदेवमभिहिताः शेषर्द्धयः । एताश्चाऽन्यासामपि क्षीर-मधु-सर्पिराश्रवादिकानामृद्धीनामुपलक्षणमिति । अत एवाह भाष्यकार:
खीर-महु-सप्पिसाओवमाउवयणा तयासवा होति । कोट्ठयधन्नसुनिग्गलसुत्तत्था कोहबुद्धीया ॥ ७९९ ॥
जो सुत्तपएण बहुं सुयमणुधावइ पयाणुसारी सो । जो अत्थपएणत्थं अणुसरइ स बीयबुद्धी उ॥८००॥
चीर्णग्रन्थिपूर्णकादिवनस्पतिविशेषस्य चक्रवर्तिसंबन्धिनो गोलक्षस्याऽर्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः संबन्धि यत् क्षीरं तदिह गृह्यते । मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यम् । एवं सर्पिरपि किमप्यतिशायि द्रष्टव्यम् । एवंभूतक्षीर-मधुसर्पिषो य आस्वादस्तदुपमाघ्यायकवचना ये तीर्थकर-गणधरादयस्ते तदाश्रवा मन्तव्याः, क्षीर-मधु-सर्पिराश्रवा इत्यर्थः, वचनेन यथोक्तक्षीरादीनिव ते स्रवन्तः सकलजनं सुखयन्ति । मकारस्य दीर्घत्वम् , उकारश्चाऽलाक्षणिकः । तथा, कोष्ठकधान्यवत् सुनिर्गलौ- अविस्मृतत्वाचिरस्थायिनौ सूत्रार्थों येषां ते कोष्ठकधान्यसुनिर्गलमूत्रार्थाः कोष्ठबुद्धयः । यस्त्वध्यापकादेकेनापि सूत्रपदेनाऽधीतेन बहपि सूत्रं स्वमज्ञयाऽभ्यूह्य गृह्णाति स पदानुसारिलब्धिः । “उत्पाद-व्यय-ध्रौव्ययुक्तं सत् " इत्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाऽधिगतेन योऽन्यं प्रभूतमप्यर्थमनुसरति स बीजबुद्धिरिति ॥७९९॥८००॥
किमेता एव लब्धयः १, इत्याहउदय-क्खय-क्खओवसमों-वसमसमुत्था बहुप्पगाराओ । एवं परिणामवसा लडीओ होंति जीवाणं ॥८.१॥
१. क्षीर-मधु-सर्पिःस्वादोपमवचनास्तदाश्रवा भवन्ति । कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्टबुद्धयः ॥ ७९९ ॥X (बला
यः सूत्रपदेन बहु श्रुतमनुधावति पदानुसारी सः । योऽर्थपदेनाऽर्थमनुसरति स बीजवुद्धिस्तु ॥ ८.०॥ २ क.ग. 'पर्णिका' । ३ उदय-क्षय-क्षयोपशमो-पशमसमुत्यों बहुप्रकाराः । एवं परिणामवशाल्लब्धयो भवन्ति जीवानाम् ॥ ८.१॥
For Private and Personal Use Only