________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
198 विशेषा० पश्यत्ता मोक्ता, तयैवासौ 'मनःपर्यायज्ञानी पश्यति' इति ध्यपदिश्यते । तत् केन किल हेतुनाऽभिमायान्तरवादिनां संदेहोऽत्र, येनाऽपराऽपरान् निजनिजाभिप्रायानत्र प्रकटयन्ति ?, तस्यैव प्रकारस्याऽऽगमोक्तत्वेन निदोषत्वादिति भावः।
प्रक्षेपगाथा चेयं लक्ष्यते, चिरन्तनटीकाद्वयेऽप्यगृहीतत्वात् , केषुचिद् भाष्यपुस्तकेष्वदर्शनाचा केवल केचिद् भाष्यपुस्तकंध दर्शनात , किञ्चित्साभिप्रायत्वाचाऽस्माभिर्ग्रहीता ।। इति द्वादशगाथार्थः ॥ सत्पदंमरूपणतादयोऽस्याऽप्यवधिवद् वाच्याः, केवलमप्रमेत संयतोऽस्योत्पादस्वामी, तदनुसारेण सर्वत्र नानात्वं स्वयमभ्यूह्यम् ॥ ८२२ ॥
॥ मनःपर्यायज्ञानं समाप्तमिति ॥
॥ केवलज्ञानम् ॥ अथ ज्ञानपञ्चकभणनक्रमायातं केवलज्ञानमुच्यते- "
अह सव्वदवपरिणामभावविन्नत्तिकारणमणतं । सासयमप्पंडिवाई एगविहं केवलन्नाणं ॥ ८२३ ॥
इह नन्यादिसूत्रनिर्देशक्रमात् , तथा शुद्धितः, लाभतश्च पूर्व आभिणिबोहियनाणं' इत्यादिगाथायां मनःपर्यायज्ञानादनन्तरं केवल. ज्ञानमुपन्यस्तम् , अतस्तदर्थसूचकोऽयमथशब्दः । अथाऽनन्तरं केवलज्ञानमुच्यते । कथंभूतम् १, इत्याह- सर्वाणि च तानि द्रव्याणिचे सर्वद्रष्याणि जीवादीनि तेषां परिणमनानि परिणामाः प्रयोग-विससोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामास्तेषां भावः सत्ता ख. लक्षणं वा तस्य विविधं विशेषेण वा ज्ञपनं बोधनं विज्ञप्तिः, अथवा, विविधविशेषेण वा ज्ञानमवबोधः परिच्छित्तिर्विज्ञप्तिः, तस्याः केवल. ज्ञानाभेदेऽपि विवक्षितभेदाया कारणं हेतुर्विज्ञप्तिकारणं सर्वद्रव्य-क्षेत्र काल-भावाऽस्तित्वपरिच्छेदकमित्यर्थः । तच्चानन्तज्ञेयविषयत्वेनाऽनन्तपर्यायत्वादनन्तम् शश्वद्भावात् शाश्वतं सततोपयोगमित्यर्थः तथा, अप्रतिपाति-अव्ययं सदाऽवस्थायीत्यर्थः समस्तावरणक्षयसंभूतत्वादेकविधं भेदविप्रमुक्तम्। केवलं परिपूर्णसमस्तज्ञेयावगमात् , मत्यादिज्ञाननिरपेक्षत्वादसहायं वा केवलं, तच्च तज्ज्ञानं च केवलज्ञानम् ।। इति नियुक्तिगाथार्थः ।। ८२३ ॥ . - अय भाष्यम्
। अथ सर्ववष्यपरिणामभावविशतिकारणमनन्तम् । शाश्वतमप्रतिपाति एकविध केवलज्ञानम् ॥ ४६॥ २ गाथा ७५ । मणपजवनाणाओ केवलमुद्देस-सुद्धि-लाभेहिं । पुव्वमणंतरमभिहियमहसहोऽयं तयथम्मि ॥ ८२४॥ सव्वदव्वाण पओग-वीससा-मीसजा जहाजोग्गं । परिणामा पजाया जम्म-विणासादओ सब्वे ॥८२५॥ तेसिं भावो सत्ता सलक्खणं वा विसेसओ तस्स । नाणं विण्णत्तीए कारणं केवलण्णाणं ॥ ८२६ ॥ किं बहुणा सव्वं सव्वओ सया सव्वभावओ नेयं । सव्वावरणाईयं केवलमेगं पयासेइ ॥ ८२७ ॥ .
पज्जायओ अणंतं सासयमिट्ठ सदोवओगाओ । अव्वयओऽपडिवाई एगविहं सव्वसुद्धीए ॥ ८२८ ॥
पञ्चापि गाथा गताः । नवरं प्रथमगाथायामुद्देशो नन्यादिसूत्रनिर्देशक्रमः, शुद्धिः सर्वावरणक्षयसंभवत्वेन सर्वोत्कृष्टत्वात् सर्वोपरिवर्तिनी विशुद्धिः, अतः केवलज्ञानस्यापि तत्संभूतत्वात् सर्वोपर्येवाऽभिधानम् । लाभोऽपि केवलस्य समस्तज्ञानानां पश्चादेव भवति, इत्यस्य पश्चादेव निर्देशः । 'अणंतरं ति' मनःपर्यायज्ञानादनन्तरमित्यर्थः । चतुर्थगाथायां 'सव्वउ त्ति' सर्वतः समन्तादिति । 'सव्वभावउ त्ति, सर्वपर्यायतः, सर्वैः पर्यायैरुपेतं ज्ञेयमिति तात्पर्यम् । केवलं कथंभूतम् ?, इत्याह- सर्वावरणातीतं सर्वावरणक्षयसंभूतमित्यर्थः ॥८२४ ॥ ८२५ ॥ ८२६ ॥ ८२७ ।। ८२८॥
इह समुत्पन्नकेवलज्ञानस्तीर्थकरादिः शब्देन देशनां करोति, शब्दश्च द्रव्यश्रुतम् , स च पायो भावश्रुताविनाभावी, इति तत्संभवे केवलिनोऽनिष्टापत्तिः, इत्येवमव्युत्पन्नमतीनां मा भूद् मतिमोहः, इत्याह
केवलनाणेण त्थे नाउं जे तत्थ पन्नवणजोग्गे । ते भासइ तित्थयरो वइजोग सुयं हवइ सेसं ॥ ८२९ ॥
...मनापर्यवज्ञानात् केवलमुद्देश-शुद्धि-लाभैः । पूर्वमनन्तरमभिहितमथशब्दोऽयं तदर्थे ॥ ८२४॥
सर्वव्याणां प्रयोग-विस्रसा-मिश्रजा यथायोग्यम् । परिणामाः पर्याया जन्म-विनाशादयः सर्वे ॥ ८२५ ।। तेषां भावः सत्ता स्वलक्षणं वा विशेषतस्तस्य । ज्ञानं विजप्तेः कारणं केवलज्ञानम् ॥ ८२६॥ किंबहुना सर्व सर्वतः सदा सर्वभावतो शेयम् । सर्वावरणातीतं केवलमेकं प्रकाशयति ॥ ८२७॥ ..
पर्यायतोऽनन्तं शाश्वतमिष्टं सदोपयोगात् । अव्ययतोऽप्रतिपाति एकविधं सर्वशुद्ध्या ॥ ८२८ ॥ २ केवलज्ञानेनाऽर्थान् ज्ञात्वा यास्तत्र प्रज्ञापनयोग्यान् । तान् भाषते तीर्थकरो वाग्योगः श्रुतं भवति शेषम् ॥ ८१९ ॥
For Private and Personal Use Only