________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
186
विशेषा. कथम् १, इत्याहलत्तलाभनासो जुज्जइ लाभो य तस्स समएणं । जइ तम्मि चेव नासो निच्चविणडे कुओ भवणं १ ॥७५७॥
सव्वुप्पायाभावा तदभावे य विगमो भवे कस्स ? । उप्पाय-व्वयाभावे काऽवहिई सन्वहा सुण्णं ॥७५८॥
लब्ध आत्मनो लाभः सत्ता येन तल्लब्धात्मलाभ प्राप्तस्वसत्ताक, तस्यैवेत्थंभूतस्य वस्तुनो नाशो युज्यते । न घनासादितसत्ताकस्य खरविषाणस्य विनाश इति वक्तुं युज्यते । आत्मलाभश्च तस्य वस्तुनः समयेन भवति । यदि च यस्मिन्नेव समये ऋजुत्वधर्मेण ऋजुता समुत्पद्यते, तस्मिन्नेव समये तेनैव धर्मेण सा विनश्यतीत्यभ्युपगम्यते, तरूवं सर्वदैवोत्पत्यभाषाद् नित्यविनष्टे कदाचिदप्यनवाप्तास्मलाभे वस्तनि कुतो भवनं सत्तारूपम् - न कुतश्चिदित्यर्थः । ततः किम् १, इत्याह- 'सव्वुप्पायेत्यादि' तत इत्थं सर्वदेव विनाशा तत्वाद नित्यमेव च वस्तूनामुत्पादाभावः प्रसजति, तथाच सति कस्य विगमो विनाशो भवेत; यदि हि किश्चिदत्पर्य स्यात तदा तस्य कदाचिदपि विनाशो युज्येत, इतरथा तु कस्य विनाशः' इति भावः । उत्पाद-व्ययाभावे च 'कावटिइति' काऽवस्थितिः तथाहि- यदत्पाद-व्ययशून्यं तस्याऽवस्थितिरपि नास्ति, यथा खरविषाणस्य, तच्छ्न्यं च वस्तूक्तयुक्तर्भवतः समापतति, इति कुतस्तस्याऽवस्थितिः १ । एवं च सति सर्वथा शून्यं जगत्त्रयमिदं पामोति; तथाहि- उत्पाद-व्यय-धौव्यरहितं वस्तु नास्त्येव, सत्त्वाचयोगात् , खरविषाणवदिति ॥ ७५७ ।। ७५८॥
अथाऽग्रेतननियुक्तिगाथासंबन्धं भाष्यकारः स्वत एव कुर्वनाह
देव्वाईणं तिण्हं पुव्वं भणिओ परोप्परनिबंधो । इह दव्वस्स गुणेणं भण्णइ व्वासिओ जं सो ॥७५९।।
अत्रैव पूर्व 'संखेज मणोदव्वे भागो लोगपलियस्स बोधव्वो' इत्यादिना द्रव्य-क्षेत्र-काललक्षणत्रयस्य परस्परनिबन्धोभिहितः । इह तूत्पाद-प्रतिपातद्वार एवं प्रसङ्गतो द्रव्यस्यैव गुणेन सहाऽयमुच्यते, न तु क्षेत्र-कालयोः, यतो द्रव्याश्रितोऽसौ, न तु, क्षेत्र-कालाश्रितः ॥ इति गाथासप्तकार्थः॥ ७५९ ।।
१ लब्धारमलाभनाशो युज्यते लाभश्च तस्य समयेन । यदि तस्मिन्नेव नाशो नित्यविनष्टे कुतो भवनम् ॥ ५७ ॥ सर्वोत्पादाभावात् तदभावे च विगमो भवेत् कस्य । उत्पाद-व्ययाभावे काऽवस्थितिः सर्वथा शून्यम् ॥ ७५८॥२ क. ग. 'युज्यते ।
द्रव्यादीनां त्रयाणां पूर्व भणितः परस्परनिबन्धः । इह व्यस्य गुणेन भण्यते द्रव्याश्रितो यत् सः॥ ७५९॥ ४ गाथा ६६९ । तदेवाह
देवाओ असंखेजे संखेज्जे यावि पजवे लहइ । दो पञ्जवे दुगुणिए लहइ य एगाओ दवाओ ||७६०॥
इदं परमाण्वादि द्रव्यमकं पश्यन्नवधिज्ञानी तत्पर्यायानेकगुणकालकादीन् उत्कृष्टतोऽसंख्येयान् , विमध्यमतः संख्येयोलभते पामोति, पश्यतीति तात्पर्यम् । जघन्यतस्तु द्वौ पर्यायौ द्विगुणितावेकस्माद् द्रव्यालभते- सामान्यतो वर्ण-गन्ध-रस-स्पर्शलक्षणांश्चतुर पर्यायान् जघन्यत एकस्मिन् द्रव्ये पश्यति, न त्वेकगुणकालकादीन् बहूनित्यर्थः । एकद्रव्यगतानुत्कृष्टतोऽप्यनन्तपर्यायान् न पश्यति, किन्त्वसंख्येयानेव; अनन्तेषु द्रव्येषु समुदितेष्वनन्तांस्तान् पश्यत्येव ॥ इति नियुक्तिगाथार्थः ॥ ७६० ॥ . अथ भाष्यम्
एगं दत्वं पेच्छं खंधमणुं वा स पजवे तस्स.। उकोसम खिज्जे संखिजे पेच्छए कोइ ॥ ७६१ ॥
दो पज्जवे दुगुणिए सव्वजहण्णेण पेच्छए ते. य । वण्णाई य चउरो नाणते पेच्छइ कयाइ ॥ ७६२ ॥ गतार्थे एव ॥ ७६१ ॥ ७६२ ॥
॥ अवसितमुत्पाद-प्रतिपातद्वारम् ॥ अथ ज्ञान-दर्शन-विभङ्गलक्षणद्वारत्रयं युगपदभिधित्सुराह
सागारमणागारा ओहि-विभंगा जहण्णया तुल्ला । उवरिमगेवेजेसु परेण ओही असंखेजो ॥ ७६३ ॥
इहाऽवधिविचारे प्रस्तुत एतच्चिन्त्यते यदुत- किमिह ज्ञानम् ?, किंवा दर्शनम् ?, को वा विभङ्गः १; किं वा परस्परतस्तुल्यम्, अधिकं च ? इति । तत्र यो वस्तुनो विशेषरूपग्राहकः स साकारः, स च ज्ञानमिष्टं सम्यग्दृष्टेः; मिथ्यादृष्टस्तु स एव विभङ्गज्ञानम् । यस्तु सामान्यरूपब्राहकः, अयमनाकारः, विशिष्टाकाराग्रहणातः स च दर्शनम् । तदिहगाथायां साकारग्रहणेनाऽवधिज्ञानं गृहीतम् , अनाकारग्रहणेन
च्यावसंख्येवान् संख्येयांश्चापि पर्यवॉल्लभते । द्वौ पर्यायौ द्विगुणितौ लभते चैकस्माद् द्रव्यात् ॥ ७६०॥ . २ एकं द्रव्यं प्रेक्षमाणः स्कन्धमणुं वा स पर्यवांस्तस्य । उत्कृष्टतोऽसंख्येयान् संख्येयाम् प्रेक्षते कश्चित् ॥ ६॥
द्वौ पर्यवौ द्विगुणितौ सर्वजघन्येन प्रेक्षते तांश्च । वर्णादींश्च चतुरो नाऽनन्तान् प्रेक्षते कदाचित् ॥ ७६२ ॥ ३ घ. छ. 'संखेने'। . साकारा-ऽनाकाराववधि-विभङ्गो जघन्यको तुल्यौ । उपरिमनैवेयकेषु परेणाऽवधिरसंख्येयः ॥ ७६५॥ .
For Private and Personal Use Only