________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
185 . विशेषा० कथम् , इत्याह
दावानलो ब्व कत्थइ लग्गइ विज्झाई समयमन्नतो । तह कोइ ओहिदेसो से जायइ, नासए बिईओ।।७५१
यथा हि दावानलो यकता शकश-स्तम्बादी लगति दीप्यते. तदैवाऽन्यतो काटिमियानि निर्वाति तथाऽस्यापि बाह्यावधेः सदेशत्वात् कोऽपि देशो जायते-पृद्धिमासादयति, मन्यस्तु कोऽपि देशस्तस्मिन्नेव समये नश्यति हीयते । इति महोत्पाद-प्रतिपातौ युगपद् विरुध्यते ॥ इति गाथात्रयार्थः ॥ ७५१ ॥
अर्थतावेवोत्पाद-प्रतिपातावभ्यन्तरावधौ निरूपयितुमाह
अभितरलडीए तदुभयं नस्थि एगसमयेणं । उप्पा पडिवाओ वि एगयरो एगसमयेणं ॥ ७५२ ॥
यस्य नैरन्तर्येण सर्वतोभाविनोऽवधेस्तद्वान् जीवोऽभ्यन्तरे वर्तते, असावभ्यन्तरावधिरता, तल्लन्धौ तस्माप्तौ पुनस्तदुभयं प्रतिपातो-त्पादद्वयं युगपदेकसमयेन नास्ति । अयं वभ्यन्तरावधिः प्रदीपप्रभापटलवदधिमता जीवेन सह सर्वतो नैरन्तर्येण संवद्धोऽखण्डो देशरहित एकस्वरूपः, अत एवाऽयं संबद्धावधिर्देशावधिश्रोच्यते, तथा चोक्तं चूर्णी- " तत्थ अभिंतरलद्धी नाम जत्थ से ठियस्स ओहिनाणं समुप्पण्णं, ततो ठाणाओ आरब्भ सो ओहिनाणी निरंतरसंबद्धं संखेज वा असंखेज वा खिचओ ओहिणा जाणइ पासइ, एस अम्भितरलद्धी" इति । अस्मिंश्चैवंविधे एकस्मिन्नखण्डेऽभ्यन्तरावधावेकस्मिन् समये प्रतिपातो-त्पादयोरेकतर एव भवति, न तु युगपदेवोभयं, सदेशत्वप्रसङ्गात्, एफस्यैवैकदा विरुद्धधर्माऽयोगाच; तथाहि-निरावरणे सर्वतः प्रसते मदीपप्रभापटले एकस्मिन् समये संकोच-विस्तारयोरेकतर एव भवति, न त्वेकस्यां दिशि संकोच:, अन्यस्यां तु विस्तरः, इत्येवं युगपदेकसमये संकोच-विस्तरौ भवता. एवमत्रापीति भावः । एतदेवाह- 'उप्पा पडिवाओ वि य इत्यादि ॥ इति नियुक्तिगाथार्थः ॥ ७५२ ।।
अथ भाष्यम्.. दावानल इव कुत्रचिल्लगति विध्यायति समकमन्यतः । तथा कश्चिदवधिदेशस्तस्य जायते, नश्यति द्वितीयः ॥ ७५ ॥२ घ. छ. 'बिइओ'।
अभ्यन्तरलब्धी तदुभयं नास्त्येकसमयेन । उत्पादः प्रतिपातोऽप्येकतर एकसमयेन ॥ ७५२ ॥ तनाऽभ्यन्सरलब्धि म यत्र तस्य स्थितस्यावधिज्ञानं समुत्पन्नम् , ततः स्थानादारभ्य सोऽवधिज्ञानी निरन्तरसंबद्धं संख्येय वासंख्येयं वा क्षेत्र
तोऽवधिना जानाति पश्यत्ति, एषाऽभ्यन्तरलब्धिः । अभितरलद्धी सा जत्थ पईवप्पभ व्व सव्वत्तो । संबद्धमोहिनाणं अभंतरओऽवहीनाणी ॥ ७५३ ॥ गतार्थेव, नवरं 'संवद्धमित्यादि' अवधिज्ञानं जीवे संबद्धं सर्वतो भवति, अवधिज्ञानी त्ववधिज्ञानस्याऽभ्यन्तरतो भवतीति।।७५६ अथात्रोत्पाद-प्रतिपातविधिमाह- .
उप्पाओ विगमो वा दीवस्स व तस्स नोभयं समयं । न भवण-नासा समयं वत्थुस्स जमेगधम्मेणं ॥७५४
अभिहितार्थेव, नवरं यस्मात् वस्तुनो द्रव्यस्यैकेन धर्मेण खभावेन समकं युगपद् न नैव भवन-नाशौ उत्पाद-व्ययौ कदाचनादि भवतः । न ह्यङ्गुलिद्रव्यं येनैवर्जुत्वधर्मेण ऋजु प्राञ्जलं भवति, तेनैव व्येतीति युज्यते, विरुद्धत्वात् । धर्मान्तरेण त्वेकस्यैककालमपि युज्येते उत्पाद-व्ययौ; यथा तदेवाऽङ्गुलिद्रव्यं यस्मिन्नेव समये ऋजुतयोत्पद्यते, तस्मिन्नेव समये वक्रतया विनश्यति, द्रव्यतया त्ववस्थितमेवा ऽऽस्त इति ।। ७५४ ॥ ____एतदेवाह
उप्पाय-व्वय-धुवया समयं धम्मतरेण न विरुद्धा । जह रिउ-वक्कंगुलिता सुर-नर-जीवत्तणाई वा ॥ ७५५॥
उप्पज्जइ रिउयाए नासइ वक्त्तणेण तस्समयं । न उ तम्मि चेव रिउयानासो वक्कत्तभवणं च ॥ ७५६ ॥
गतार्थे एव, नवरं तल्पत्ययः प्रत्येकमभिसंबध्यते, यथा ऋजुता, वक्रता, अङ्गुलिता चेति; एतत्रितयमपि युगपद् धर्मान्तरेण न विरुद्धम् । यदि वा यथा कोऽपि मृतः साधुर्यस्मिन्नेव समये देवत्वेनोत्पद्यते तस्मिन्नेव नरत्वेन विनश्यति, जीवत्वेन पुनरवतिष्ठते । एवमिः हाऽपि युगपद् धर्मान्तरेणोत्पादादयो न विरुध्यन्ते । न त्वेकेनैव धर्मेण युगपत् ते युज्यन्ते, तदेवाह- 'न उ तम्मीत्यादि' न पुनरेतद् युज्यते । किम् ?, इत्याह- 'रिउयेत्यादि' यस्मिन्नेव समयेऽङ्गुल्या ऋजुता जायते, तस्मिन्नेव समये तस्या ऋजुताया नाशो भवति, भाविवक्रत्वस्य भवनं चेति । एवं हि 'ऋजुता ऋजुत्वधर्मेणोत्पद्यते, तेनैव धर्मेण तस्मिन्नेवोत्पत्तिसमये सा विनश्यति' इत्यभ्युपगतं भवति, दूरविरुद्धं चैतत् ।। ७५५ ॥ ७५६ ॥
, अभ्यन्तरलब्धिः सा यन्त्र प्रदीपप्रभेव सर्वतः । संबद्धमवधिज्ञानमभ्यन्तरतोऽवधिज्ञानी ॥ ७५३ ॥ २ उत्पादो विगमो वा दीपस्येव तस्य नोभयं समकम् । न भवन-नाशी समकं वस्तुनो यदेकधर्मेण ॥ ७५४ ॥... ३ उत्पाद-व्यय-ध्रुवता समकं धर्मान्तरेण न विरुद्धा । यथा ऋजु-वक्रा-ऽङ्गुलिता सुर-नर-जीवत्वानि वा ॥ ५५ ॥ सत्पद्यते ऋजुतया नश्यति वक्रत्वेन तत् समकम् । न तु तस्मिन्नेवर्जुतानाशो वक्रत्वभवनं च ॥ ५॥ ४ क.ख. ग. 'उ व तम्मि रि'।
For Private and Personal Use Only