________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
182
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
इह स्वरूपण तावत् समस्त पुद्गलास्तिकायलक्षणानि द्रव्याण्याधारभूतात् स्वक्षेत्रात् 'अनन्तगुणानि' वर्तन्त इति लिङ्गव्यत्ययेनापि योज्यते, एकैकाकाशप्रदेशेऽनन्तस्य परमाणु अणुकादिद्रव्यस्यावगाहनात् । पर्यवाः पर्यायाः पुनः स्वाश्रयभूताद् द्रव्यादनन्तगुणाः, एकै कस्य परमाण्वादेरनन्तपर्यायत्वादिति । एवंभूतं क्षेत्रादीनां स्वरूपं वर्तत इति स्वरूपकथनमात्रं तावत् कृतम्। प्रकृतोपयोग्याह- 'निययाहारेत्यादि' द्रव्यस्य निजकाधारः क्षेत्रम्, पर्यायाणां तु निजकाधारी द्रव्याणि तदधीना च तेषां द्रव्य-पर्यायाणां सामान्येन दृद्धि:, हानि भवति । क्षेत्रस्य चतुर्विधायां वृद्धौ हानौ वा द्रव्यस्यापि तथैव से प्राप्नुतः, द्रव्यस्य द्विविधायां वृद्धौ हानौ वा पर्यायाणामपि तथैव से युज्येते, इत्येवं यथा पर प्रतिपादयति, तथा वयमपि स्वरूपस्थितिसामान्यचिन्तायां मन्यामहे नात्र विवाद इति भावः । परं किन्तु 'न उ निययेत्यादि' न तु निजकाधारवशादवधिनिवन्धोऽवधिविषयो वर्धते हीयते वा, यतः परीतः प्रतिनियतोऽसौ यथोक्तस्वरूपेण क्षयोपशमनियमितोऽसौ चित्रक्षयोपशमत्वाश्चित्रोऽनेकरूपी यथा युक्त्या घटते तथैवाऽयं प्रवर्तते तामुल्लङ्घयाऽन्यथापि च प्रवर्तत इति नाsत्रैकान्तः | आशाग्राह्यश्च प्रायेणाऽयम्, इत्याज्ञैवात्र प्रमाणं, किं स्वेच्छामहत्तशुष्कतर्कयुक्त्युपन्यासेन ? । प्रायोग्रहणात् यथासंभव युक्तिरपि वाच्या ॥ इति गाथानवकार्थः ॥ ७३६ ॥ ७३७ ॥
॥ गतं चलद्वारम् ॥
अथ तीव्र-मन्दद्वारमभिधित्सुराह
1
फेड्डा य असंखेज्जा संखेज्जे यावि एगजीवस्स । एगप्फड्डुवओगे नियमा सव्वत्थ उवउत्तो ॥ ७३८ ॥ फड्डा य आणुगामी अणाणुगामी य मीसया चेत्र । पडिवाई अपडिवाई मीसा य मणुस्स- तेरिच्छे ॥ ७३९ ॥ 'अपवरकादिजालकान्तरस्थप्रदीपत्र मानिर्गमस्थानानीवाऽवधिज्ञानावरणक्षयोपशमजन्यान्यवधिज्ञान निर्गमस्थानानीह फडकान्युच्यन्ते । ताने चैकजीवस्य संख्येयानि, असंख्येयान्यपि च भवन्ति । तत्र चैकफडकोपयोगे जन्तुर्नियमात् सर्वत्र सर्वैः फडकैरुपयुक्तो भवति, एकोपयोगत्वाज्जीवस्य, एकलोचनोपयोगे द्वितीयलोचनोपयुक्तवदिति । एतानि च फडकानि त्रिधा भवन्ति, तथथा - अनुगमनशीलान्यानुगामुकानि - यत्र देशे तिष्ठतोऽवधिमतो जीवस्योत्पन्नानि ततोऽन्यत्रापि व्रजतस्तस्यानुयायीनीत्यर्थः, एतद्विपरीतानि नानुगामुकानि, आनुगामुका-नानुगामुकोभयस्वरूपाणि तु मिश्राणि - कानिचिद् देशान्तरानुयायीनि कानिचिद् नेत्यर्थः । एतानि
१ फकान्यसंख्येयानि संख्येयानि चाप्येकजीवस्य । एकफकोपयोगे नियमात् सर्वत्रोपयुक्तः ॥ ७३८ ॥
फडुकानि चानुगामीन्यननुगामीनि मिश्राणि चैत्र । प्रतिपातीन्यप्रतिपातीनि मिश्राणि च मनुष्य तिर्यक्षु ॥ ७३९ ॥ प्रत्येकं पुनस्त्रिधा भवन्ति, तद्यथा प्रतिपतनशीलानि प्रतिपातीनि कियन्तं कालं स्थित्वा ततो ध्वंसनस्वभावानीत्यर्थः तद्विपरीतानि त्वप्रतिपातीनि - आमरणान्तभावीनीत्यर्थः, प्रतिपात्य प्रतिपात्युभयरूपाणि तु मिश्राणि कानिचित् प्रतिपातीनि कानिचिद् नेत्यर्थः । एतानि च मनुष्य- तिर्यक्षु योsवधिस्तस्मिन्नेव भवन्ति, न देव- नारकावधाविति ।
आह- ननु तीव्र-मन्दद्वारे प्रस्तुते फडकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति । अत्रोच्यते- प्रायोऽनुगानुका- प्रतिपातीन फडकानि तीव्रविशुद्धियुक्तत्वात् तीव्राणि भण्यन्ते, अननुगामि-प्रतिपातीनि त्वविशुद्धत्वाद् मन्दान्युच्यन्ते, मिश्राणि तु मध्यमानि, इत्यर्थतस्तीत्र-मन्दद्वारम् इत्यदोषः । अपरस्त्वाह- अनुगामुका प्रतिपातिफडकानां कः परस्परं विशेषः १, अनानुगामुक-प्रतिपातिफडकानां चान्योन्यं को भेदः १ इति । अत्राभिधीयते - अप्रतिपाति फडकमनुगाम्येव भवति, अनुगामुकं त्वप्रतिपाति प्रतिपाति न भवतीति विशेषः । तथा, प्रतिपाति पतत्येव, पतितमपि च देशान्तरगतस्य कदाचिज्जायतेः न चेत्थमनानुगामुकम् । इति नियुक्ति गाथाद्वयसंक्षेपार्थः ॥ ७३८ ।। ७३९ ।।
विस्तरार्थं तु भाष्यकार एवाह
जालंतरत्थदी पहोमो फड्डगावही होइ । तिव्वो विमलो मंदो मलीमसो मीसरूवो य ॥ ७४० ॥
अपवरकजालकान्तरस्थप्रदीपप्रभोपमः फडकावधिर्भवति । तत्र च विशुद्धक्षयोपशमजन्यफड्डुकप्रभवोऽवधिर्विमलः, स च तीव्र उच्यते, अविशुद्धक्षयोपशमप्रवर्तितच मलीमसः, स च मन्दोऽभिधीयते । मध्यमक्षयोपशमाविष्कृतफडकसमुत्थस्तु मिश्ररूपस्तीत्र-मन्दस्वरूप इत्यर्थः । अत एव तीव्र - मन्दद्वारमिदमुच्यते ॥ ७४० ॥
'ऐगफड्डुवओगे' इत्युत्तरार्ध व्याचिख्यासुराह
aai एगेण विदितो सो फड्डिएहिं सव्वेहिं । उवउज्जइ जुगवं चिय जह समयं दोहिं नयणेहिं ॥ ७४१ ॥ गतार्था ॥ ७४१ ॥
अथ प्रेर्यमुत्थाप्य परिहरन्नाह
१] जालान्तरस्थदीपप्रभोपमः फडकावधिर्भवति । तीव्रो विमलो मन्दो मलीमसो मिश्ररूपश्च ॥ ७४० ॥
२ गाथा ७३८ ।
३ उपयोगमै केनापि ददत् स फडकैः सर्वैः । उपयुज्यते युगपदेव यथा समकं द्वाभ्यां नयनाभ्याम् ॥ ७४१ ॥ x तस्तु- ।
For Private and Personal Use Only