________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
170 विशेषा० चोर्धा-ऽधोगामिनः-- माय ऊर्ध्वलोकान्तादधोलोकान्तं गच्छन्ति, अधोलोकान्तात् तूर्ध्वलोकान्तम् । प्रायोग्रहणादनुश्रेणि तिर्यग् गच्छन्ति । तस्माद् गुरुताऽभावे कथं तेऽधोऽभिव्रजन्ति, लघुताभावे च कथमूर्ध्वमनुधावन्तीति ।
इह प्रेरकस्याऽयमभिप्राय:- गुरुतानिबन्धनमधोगमनमयोगोलकादीनामिव । लघुतामत्ययं चोर्ध्वगमन, दीपकलिकादीनामिव । गुरुलघुत्वसाध्यं च तिर्यग्गमनं, वाय्वादीनामिव अगुरुलघुताकारणं चावस्थानं, यथा व्योमादीनाम् , आकाशमतिष्ठिताऽऽनतदेवलोकविमानादीनां च । ततो व्यवहारवत् त्वयाऽपि गुर्वादिचतुर्विधवस्त्वभ्युपगमः कार्य इति ॥ ६६१ ॥ ६६२ ॥
अथ निश्चयनयवादी मत्युत्तरयति- '
'अन्न चिय गुरुलहुया अन्नो दव्वाण वीरियपरिणामो । अन्नो गइपरिणामो नावस्सं गुरुलहुनिमित्तो॥६६॥
इहाऽन्यैव काचिद् द्रव्याणां गुरुतो लघुता च, अन्यश्च वीर्यपरिणामः, अन्य एव च तेषां गतिपरिणामः, नावश्यं गुरुत्वलघुत्वनिमित्त इति ॥ ६६३॥
कुतः, इत्याहपरमलहूणमणूणं जं गमणमहो वि तत्थ को हेऊ ? । उड्ढं धूमाईणं थूलयराणं पि किं कजं ? ॥६६॥ किं व विमाणाईणं नाहोगमणं महागुरूणं पि । तणुयरदेहो देवो हक्खुवइ व किं महासेलं ? ॥ ६६५ ॥
यत् यस्मात् परमलघूनामप्यशूनां गमनमधोऽपि भवति, तत्र इन्त ! अधोगतिपरिणामोत्कटतां विहाय कोऽन्यो हेतुः १-न कोऽपीत्यर्थः । तथा, स्थूलतराणामपि बादराणामपि, बादरत्वेन गुरूणामपीति तात्पर्यम् , धूमादीनां यज़ गमनं भवति, तत्राप्य
गतिपरिणामोत्कटत्वं परित्यज्य किं कार्य किमन्यत्प्रयोजनम् ?- न किञ्चिदित्यर्थः । तदेवमुत्कटेनाधोगतिपरिणामेन ललिता परमाणुगता लघुता, ऊर्ध्वगतिपरिणामेनापि प्रबलेनाप्रतिक्रान्ता धृमादिगता गुरुता, इत्यस्यां गाथायां दर्शितम् । तदर्शने च 'अबो गइपरिणामो नावस्सं गुरुलहुनिमित्तो' इत्येतत् समर्थितम् । गतिपरिणामेन च गुरुलघुतयोरतिक्रमणमुपलक्षणम् , अतः स्थितिपरिणामेनाप्यु- अन्यैव गुरुलधुताऽन्यो द्रष्याणां वीर्यपरिणामः । अन्यो गतिपरिणामो नावश्यं गुरुलघुनिमित्तः ॥ ३३॥ २ क.ख. ग. 'ता चल'।
परमलघूनामणूनां यद् गमनमधोऽपि तत्र को हेतुः। अवै भूमादीनां स्थूलतराणामपि किं कार्यम् ॥॥
किंवा विमानादीनां माधोगमनं महागुरूणामपि ।। तनुतरदेहो देव उरिक्षपति वा किं महाबौक्षम् ॥ ५॥ ४ गाथा ६६५। स्कटेन गुरुताऽतिक्रमं दर्शयति- 'किव विमाणेत्यादि' यदि गुरुताऽधोगतिनिवन्धनमिष्यते, तहिं हन्त ! किमित्यानतदेवलो. कविमानादीनाम् ; आदिशब्दादीपत्माग्भारापृथिव्यादीनां महागुरूणामप्यधोगमनं न भवति । तस्मात् तत्राप्युत्कटा स्थितिपरिणाम एव गुरुतामतिक्रम्य तेषामवस्थितिं करोतीति । अथ यदुक्तम्- 'अन्नो दवाण वीरियपरिणामो' इति, एतत्समर्थनार्थमाह- 'सणुयरदेहो इत्यादि' तनुतरशरीरो महादीर्यो देवो वा किमिति महाशैलं कमप्युत्क्षिपति, उत्क्षिप्य चोय प्रक्षिपति । इदमुक्तं भवति- यदि गुरुतादयोऽधोगत्यादिकारणं भवेयुस्तदाऽसौ महाशैलो निजगुरुतया महावीर्यवन्तं देवमाक्रम्याधस्तादेव यायादिति ॥६६४॥६६५॥
अत्र पराभिमायमाशङ्कयोत्तरमाह__ अह तस्स वीरियं तं तो नाहो गमणकारणं गुरुया। उड्ढगइकारणं वा लहुया एगंतओ जुत्ता ॥६६६॥
अथ मन्यसे- देवस्य संबन्धि तद् महावीर्य येन गुरुरपि पर्वत ऊर्ध्वमुक्षिप्यते । हन्त ! ततस्तर्खेकान्ततो नाऽधोगतिकारणं गुरुतैव, नाप्येकान्तेनोर्ध्वगतिकारणं लघुतैव युक्ता । किं तर्हि १, देवादिगतं वीर्यमपि, इत्यायातम् ॥ ६६६ ॥
ततश्च
'विरियं गुरु-लहुयाणं जहाहियं गइविवज्जयं कुणइ । तह गइ-ठिइपरिणामो गुरु-लहुयाओ विलंघेइ॥६६७॥
यथोक्तन्यायेन देवादिगतं वीर्यमधिकं सद् वस्तूनां गुरु-लघूनां गतिविपर्यय करोति, तथा गति-स्थितिपरिणामोऽप्यधिक मागुक्तन्यायेन वस्तूनां गुरु-लघुते विलक्यत्येव- गतिविपर्ययं करोत्येवेत्यर्थः । यथा गुरौ पर्वते देववीर्याद् गतिविपर्ययो दर्शितः, एवं लघावपि बाष्पादौ करताडिते देवदत्तादिवीर्याद गतिविपर्ययो दृश्यः । तस्माद् नैकान्तेनाऽधोगत्यादिकारणं गुरुतादयः। किं तर्हि १, देवादिगतं वीर्यमपि, महीध्र-बाष्पादिषु तथादर्शनात् । तथोत्कटो गति-स्थितिपरिणामोऽपि तत्कारणम् , परमाणु-धूम-विमानादिषु तथादर्शितत्वात्। अतः किमधोगत्यादिसिद्धये गुर्वा दिवस्तुचतुष्टयाभ्युपगमेन' । तत इयमेव परिभाषा युक्तिमती-बादरं गुरुलघु, शेषं तु सूक्ष्म, अमृतं च सर्व वस्त्वगुरुलघु । इति निश्चयनयः ॥ ६६७ ॥
अयोत्तरनियुक्तिगाथासंबन्धनार्थमाह१ गाथा ६६३ । २ भथ तस्य वीर्य तत् ततो नाधोगमनकारणं गुरुता । अर्ध्वगतिकारणं वा लघुतकान्ततो एका । "
३ षीर्य गुरु-लघुकानां यथाऽधिक गतिविपर्यय करोति । तथा गति-स्थितिपरिणामो गुरुलघुते विलायति ॥१५॥
For Private and Personal Use Only