________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
168
विशेषा ०
तस्यैव ग्रहणवर्गणाः, पुनरेतावत्प्रमाणा एव तस्यैवाग्रहणवर्गणा वाच्याः । एवमाना-पानयोः, भाषायाः, तैजसस्य, आहारकस्य, वैक्रियस्य, औदारिकस्य चाऽयोग्य योग्या योग्यवर्गणानां क्षेत्रतोऽपि प्रतिलोमं त्रयं श्रयं प्रत्येकमायोजनीयमिति ।
Acharya Shri Kailassagarsuri Gyanmandir
ध्रुवादिवर्गणास्कन्धा अपि प्रत्येकमङ्गुला संख्येयभागमदेशावगाहिनोऽवगन्तव्याः परं तच्चिन्तेह न कृता, जीवैः शरीरादौ कचिदः प्यनुपयुज्यमानत्वेन ध्रुवादिवर्गणानामग्रहणात् । अथवा, कर्मणोऽग्रहणवर्गणानां मध्ये तासामप्यन्तर्भावो द्रष्टव्यः । द्रव्यवर्गणाधिकारे तु पृथगेतत्स्वरूपमात्रज्ञापनार्थं विस्तरेण कृता तचिन्तेति मन्तव्यमिति । काल-भाववर्गणास्तु समयाऽसमयादिस्थितिमात्रं वर्णादिमात्रं चात्रीकृत्य सामान्येन वक्ष्यन्ते । अतस्ताभिः सर्वोऽपि पुनलास्तिकायः संगृह्यत इति भावनीयमिति । तदेवमभिहिताः क्षेत्रवर्गणाः ।।६४७-६४९ । अथ कालवर्गणाः प्राह -
ऐगा समयहणं संखेज्जा संखसमयडिइयाणं । होंति असंखेज्जाओ तओ असंखेज्जसमयाणं ॥ ६५० ॥ विवक्षित परिणामेन य एकैकसमयमात्रस्थितयस्तेषां सर्वेषामप्येका वर्गणा, ते पुनरविशेषेण परमाणवः स्कन्धाश्च मन्तव्याः । एवमेकैकसमयवृद्ध्या संख्येयसमयस्थितीनां परमाण्वादीनां संख्येया वर्गणाः, असंख्येय समयस्थितीनां त्वसंख्येया वर्गणा भवन्ति । एवमेवाभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते, एकसमयाद्यसंख्येय समयान्तायाः स्थितेर्बहिः पुद्गलानां स्थितेरेवाभावादिति ।। ६५० ।।
अथ भाववर्गणाः प्राह -
1
ऐगा एगगुणाणं एगुत्तरवुढिया तओ कमसो । संखेज्जगुणाण तओ संखेज्जा वग्गणा होति ॥ ६५१ ॥ संखाईयगुणाणं संखाईया य वग्गणा तत्तो । होंति अनंतगुणाणं दव्वाणं वग्गणाऽता ॥ ६५२ ॥ वण्ण-रस-गंध-फासाण होति वीसं समासभेएणं । गुरुलहु-अगुरुलहूणं बायर - सुहुमाण दो वग्गा ॥ ६५३ ॥ एकगुणानामेकगुणकृष्णानामित्यर्थः, परमाणूनां स्कन्धानां च सर्वेषामध्येका वर्गणा, कृष्णवर्णगुणद्वययुक्तानां तु परमाण्वादीनां
१ एका समयस्थितीनां संख्येया संख्यसमयस्थितिकानाम् । भवन्त्यसंख्येयास्ततोऽसंख्ये श्रसमयानाम् ॥ ६५० ॥
२ एकैकगुणानामेकोत्तरवर्धितास्ततः क्रमशः । संख्येयगुणानां ततः संख्येया वर्गणा भवन्ति ॥ ६५१ ।। संयततिगुणानां संख्यातीताश्च वर्गणास्ततः । भवन्त्यनन्तगुणानां द्रव्याणां वर्गणा अनन्ताः । ६५२ ॥ वर्ण-रस-गन्ध स्पर्शानां भवन्ति विंशतिः समासभेदेन । गुरुलध्ध-गुरुलधूनां बादर-सूक्ष्माणां द्वो वर्गों ।। ६५३ ॥
द्वितीया वर्गणा, कृष्णवर्णगुणत्रययुक्तानां तु तेषां तृतीया वर्गणा । एवमेकैकगुणवृद्ध्या संख्येयकृष्णवर्णगुणानां संख्येया वर्गणाः, असंख्येयकृष्णवर्णगुणानामसंख्येया वर्गणाः, अनन्तकृष्णवर्णगुणानामनन्ता वर्गणा भवन्ति । एवमेकगुणनीलानां संख्येयगुणनीलानाम्, असंख्येयगुणनीलानां, अनन्तगुणनीलानामपि वाच्यम् । एवं कृष्ण-नील-लोहित-हारिद्र शुक्ललक्षणाः पञ्च वर्णाः, सुरभी-तरौ aat, तिक्तकटुकषाया- ऽऽम्ल-मधुराः पश्च रसाः, कर्कश-मृदु-गुरु-लघु-शीतोष्ण-स्निग्ध-रूक्षास्त्वष्ठौ स्पर्शाः । एवमेतेषु वर्ण- गन्धादिगतविंशतिभेदेषु प्रत्येकं सर्वत्रैकगुणानामेका, संख्येयगुणानां संख्येयाः, असंख्येयगुणानामसंख्येयाः, अनन्तगुणानामनन्तवर्गणा aroor | नवरं यो यत्र वर्ण - गन्धादिभेदस्तत्र तदभिलाषः कार्य इति । तथा, गुरुलघुपर्यायाणां बादरपरिणामान्वितवस्तूनामेका वर्गणा, अगुरुलघुपर्यायाणां तु सूक्ष्मपरिणामपरिणतवस्तूनामेका वर्गणा, एवमेतौ द्वावेव वर्गों भवतः । तदेवमेताभिर्भाववगणाभिः सर्वोsपि पुद्गलास्तिकायः संगृह्यते, यथोक्तवर्णादिभावेभ्योऽन्यत्र पुद्गलानामभावादिति ॥ ६५१ ।। ६५२ ।। ६५३ ॥
तदेवं द्रव्य क्षेत्र-काल- भाववर्गणाः प्रतिपाद्य प्रकृतं स्मरयन्नुपसंहरन्नाह
णि या भासाविमज्झदव्वावगाहपरिमाणं । ओहिन्नाणारंभो परिणिद्वाणं च तं जेसु ॥६५४ ॥ तदेवं भणितं प्रतिपादितम् । किम् १, इत्याह- तैजस- भाषयोर्विमध्येऽन्तराले यानि तदयोग्यद्रव्याणि तेषामत्रगाहपरिमाणं, उपलक्षणत्वादनन्तपरमाणुमचितस्कन्धात्मकत्वादिकं तत्स्वरूपं चोक्तम् । येषु द्रव्येषु किम् १, इत्याह--येष्ववधिज्ञानस्यारम्भः प्रथमोत्पतिलक्षणः, परिनिष्ठानं च प्रतिपतनं तत् समयप्रसिद्धं येषु । इदमुक्तं भवति- "तेया-भासादव्वाण अंतरा एत्थ लभइ पट्टत्रओ' इत्युपजीव्यविनेयेन पृष्टम् - तैजस-भाषान्तराले यदयोग्यं द्रव्यं तत् कतमस्वरूपं, कतिप्रदेशावगाढं च १ इति । अस्य च शिष्यप्रश्नस्य गुगीदारिकवर्गणाः प्ररूपयता दत्तमुत्तरमिति ॥। ६५४ ॥
इह च गुरुलघु, अगुरुलघु च द्रव्यमवधिः प्रथमं पश्यतीति पूर्वमुक्तम्, तत्र गुरुलघुद्रव्यारन्धस्य, अगुरुलघुद्रव्यारन्धस्य चावधेर्यत् स्वरूपं भवति, तद्दर्शयन्नाह -
गुरुवार गुरुदुव्वाइं पिच्छिउं पच्छा । इयराई कोइ पेच्छइ विसुज्झमाणो कमेणेव ॥ ६५५ ॥
१ भणितं तेजस भाषाविमध्यद्रव्यावगाहपरिमाणम् । अवधिज्ञानारम्भः परिनिष्ठानं व तद् येषु ॥ ६५४ ॥ २ गाथा ६२७ ॥ ३ गुरुलघुद्रव्यारब्धो गुरुलघुद्रव्याणि प्रेक्ष्य पश्चात् । इतराणि कश्चित् प्रेक्षते विशुध्यमानः क्रमेणैव ॥ ६५५ ॥
For Private and Personal Use Only