________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
166
..
..
.
विशेषा० बहुद्रव्योपचितत्वेन; अतिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिकादिभावेन कदाचिदप्यग्रहणादिति । इतश्चोर्ध्व मित्थमेवैकोत्तरवृद्धिक्रमेण वर्धमाना ध्रुववर्गणाभ्य इतरा अध्रुववर्गणा अनन्ता भवन्ति । एताच तथाविधपुद्गलपरिणामवैचित्र्यात् कदाचिल्लोके न भवन्त्यपि । अत एवाध्रुवा एता उच्यन्ते । ततश्च शून्याः, इतराश्चाऽशून्या वर्गणा भवन्ति । इह च सूचकत्वात सूत्रस्याह- 'एकोत्तरेत्यादि' एकोत्त रवृद्धथा कदाचिच्छून्यानि व्यवहितान्यन्तराणि यासां ताः शून्यान्तरा अपि भवन्ति यास्ताः शून्यान्तरवर्गणा भण्यन्ते । एता ोकोत्तरवृद्धथा निरन्तरमनन्ताः सदैव प्राप्यन्ते, परं कदाचिदेकोत्तरवृद्धिरेतास्वन्तराऽन्तरा त्रुव्यति-न नैरन्तर्येण प्राप्यन्त इति भावः । एकोत्तरवृद्धया सर्वदैवाऽशून्यान्यव्यवहितान्यन्तराणि यासांता अशून्यान्तराः । एता ह्यशून्यान्तरवर्गणा एकोत्तरवृद्धया निरन्तरमेव लोके सदैव प्राप्यन्ते, न पुनरेकोत्तरवृद्धिरेतास्वन्तराले कदापि त्रुव्यतीति भावः ॥ ६३९ ॥ ६४० ॥ .
'चउधुवणंतर' इत्यादि व्याचिख्यासुराह
धुवणंतराइं चत्तारि जं धुवाई अणंतराई च । भेयपरिणामओ जा सरीरजोग्गत्तणाभिमुहा ॥ ६४१ ॥ खंधदुगदेहजोग्गत्तणेण वा देहवग्गणाउ ति । सुहुमो दरगयबायरपरिणामो मीसयक्खंधो ॥ ६४२ ॥
ततोऽशून्यान्तरवर्गणानामुपरि ध्रुवानन्तराणि चत्वारि वर्गणाद्रव्याणि भवन्ति, यद् यस्मात् तानि ध्रुवाणि सर्वकालभावीनि, अनन्तराणि च निरन्तरैकोत्तरवृद्धिभाञ्जीति । इदमुक्तं भवति- आद्या धुवानन्तरवर्गणा अनन्ता भवन्ति, एवमेतावत्यो द्वितीयाः, तृतीयाः, चतुर्थाश्च वाच्याः। ध्रुववर्गणाः प्रागप्युक्ताः, परं ताभ्य एता भिन्ना एव, न पुनस्ताखन्तर्भवन्ति, अतिसूक्ष्मपरिणामत्वाद् बहद्रव्योपचितत्वाच्चेति पृथगुक्ताः। आह- ननु भवत्वेवम् , केवलं यद्येता निरन्तरमेकोत्तरवृद्धिभाजः, तर्हि चातुर्विध्ये किं कारणम् । सत्यम् , किन्तु चतसृणामपि वर्गणानां मध्येष्वेव नैरन्तर्येणैकोत्तरवृद्धिःप्राप्यते, अन्तरालेषु पुनस्तस्यास्त्रुटिसंभवे सत्येव भिन्नवर्गणारम्भः, अन्यत् वा किश्चिद्वर्णादिपरिणामवैचित्र्यं तद्भेदारम्भे कारणम्, इति बहुश्रुता विदन्तीति । एवं वक्ष्यमाणतनुवर्गणास्वपि वाच्यमिति । एतासां चतसृणां ध्रुवानन्तरवर्गणानासुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्र एव तनुवर्गणा भवन्ति । एताश्च नूनामौदारिकादिशरीराणां भेदा-ऽभेदपरिणामाभ्यां योग्यत्वाभिमुखा इति तनुवर्गणा देहवर्गणा उच्यन्ते । अथवा, वक्ष्यमाणमिश्रस्क
१ गाथा ६३८ । २ ध्रुवानन्तराणि चत्वारि यद् ध्रुवाण्यनन्तराणि वा । भेदपरिणामतो याः शरीरयोग्यत्वाभिमुखाः ॥ ६॥
स्कन्धद्विकदेहयोग्यत्वेन वा देहवर्गणा इति । सूक्ष्मो दरगतबादरपरिणामो मिश्रकस्कन्धः ॥ ६४२॥ न्याऽचित्तस्कन्धद्वयस्य तनुर्देहः शरीरं, मूर्तिरिति यावत् , तद्योग्यत्वाभिमुखा वर्गणाः । अथ मिश्रस्कन्धस्वरूपं विवरीषुराह- 'सुहुमो इत्यादि'1'दरगय त्ति दरगत ईषत्माप्तस्तद्योग्यत्वाभिमुख्येन बादरः परिणामो येनाऽसौ दरगतबादरपरिणामोऽनन्तानन्तपरमाणुपचितः सूक्ष्मपरिणाम एवेपदादरपरिणामाभिमुखः स्कन्धो मिश्र इत्यर्थः ॥ ६४१ ॥ ६४२ ॥
अचित्तस्कन्धव्याख्यानार्थमाह
जइणसमुग्धायगईए चउहि समयेहिं पूरणं कुणइ । लोगस्स तेहिं चेव य संहरणं तस्स पडिलोमं ॥६४३॥
इह नियुक्तिगाथायां 'तेहाऽचित्तो' इति न केवलं मिश्रः, तथैकदेशेन समुदायस्य गम्यमानत्वादचित्तमहास्कन्धश्च भवतीति गम्यते । स चाऽस्यां प्रस्तुतगाथायां योज्यते । कथम् ?, इति चेत् । उच्यते- अचित्तमहास्कन्धः स भवति, यः किम् ? इत्याह- जैनसमुद्धातगत्या "दण्डं प्रथम समये कपाटमथ चोत्तरे" इत्यादिकेवलिसमुद्धातन्यायेन विस्रसापरिणामवशाद् यश्चतुर्भिः समयैलोकस्य पूरणं करोति । संहरणमपि प्रतिलोमं पश्चान्मुखं तस्याचित्तमहास्कन्धस्य तैरेव चतुर्भिःसमयद्रष्टव्यम् । एवं च सत्यष्टौ समयान कालमानेनाऽसौ भवतीति ॥६४३।।
. आह- ननु पुद्गला इह विचारयितुमुपक्रान्ताः, ततश्च पुद्गलमहास्कन्धोऽचेतन एव भवति, किं तस्याऽचित्तत्वविशेषणेन, व्यवच्छेद्याभावात् , इत्याशङ्कयाह
जइणसमुग्घायसचित्तकम्मपोग्गलमयं महाखंधं । पइ तस्समाणुभावो होइ अचित्तो महाखंधो ॥६४४॥
जैनसमुद्धाते यः सचेतनजीयाधिष्ठितत्वात् सचित्तः कर्मपुद्गलमयो महास्कन्धस्तं प्रति समाश्रित्य तद्व्यवच्छेदायेत्यर्थः । किम् ?, इत्याह- प्रस्तुतः पुद्गलमहास्कन्धोऽचित्तमहास्कन्ध इति व्यपदेश्यो भवति-अचित्तविशेषणेन विशेष्यो भवतीत्यर्थः। कुतः, इत्याह-यतस्तत्समानुभावः, उपलक्षणत्वात् तत्समक्षेत्र-काला-ऽनुभावः-तेन केवलिसमुद्धातवर्तिना कर्मपुद्गलमयमहास्कन्धेन समास्तुल्याः क्षेत्र-कामा-ऽनुभावा यस्याऽसौ तत्समक्षेत्र-काला-ऽनुभावः। तत्र क्षेत्रं सर्वलोकलक्षणं, कालोऽष्टसमयमानः, अनुभावो वर्ण-गन्धादिगणः।।
अयमत्र भावार्थ:- अनन्तानन्तपरमाणुपुद्गलोपचितस्कन्धे वक्तुं प्रस्तुते यदि 'महास्कन्धः, इत्येतावन्मात्रमेवोच्येत, तदा केवलिसमुद्धातगतोऽनन्तानन्तकर्मपुद्गलमयस्कन्धोऽपि लभ्येत, प्रस्तुतमहास्कन्धस्य केवलिसमुद्वातगतकर्मपुद्गलमयमहास्कन्धस्य च समानक्षेत्रकाला- सुभावत्वात् । तथाहि- चतुर्थे समये द्रावपि लोकक्षेत्र व्याप्नुतः, अष्टसामयिकं च कालं द्वावपि तिष्ठतः, वर्णपश्चक-गन्धद्वय-रस
, जैनसमुद्रातगत्या चतुर्भिः समयैः पूरणं करोति । लोकस्य तैरेव च संहरणं तस्य प्रतिलोमम् ॥ ६५३ ॥ १ गाथा ६३८ । ३ जनसमुदाससचित्तकर्म पुद्गलमयं महास्कन्धम् । प्रति तत्समानुभाषो भवत्यचित्तो महास्कन्धः ॥ ६४४॥
For Private and Personal Use Only