________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
162 विशेषा० तदेकदेशोऽपीति । तथा, कालेऽसंख्येये पस्योपमादिलक्षणेऽवधिविषये सति तस्यैवासंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेदतया द्वीप-समुद्राश्च भक्तव्या विकल्पयितव्या-कदाचिदसंख्येया:- यदिह कस्यचिद् मनुष्यस्यासंख्येयद्वीप-समुद्रविषयोऽवधिरुत्पद्यते।। कदाचिद् महान्तः संख्येयाः, कदाचित्चतिमहानेका, कदाचित्तु तदेकदेशोऽपि स्वयंभूरमणतिरश्चोऽवधिविज्ञेया, स्वयंभूरमणविषयमनुप्यबाह्यावधिर्वा; योजनापेक्षया तु सर्वपक्षेष्वसंख्येयमेव क्षेत्रं द्रव्यम् ॥ इति नियुक्तिगाथार्थः ॥ ६१५॥
अथ भाष्यम्_ काले असंखए दीव-सागरा खुड्डया असंखेजा। भयणिज्जा. य महल्ला खेत्तं पुण तं असंखेज्जं ॥ ६१६ ॥ गताथैव । एवं तावत् परिस्थिरन्यायमङ्गीकृत्य क्षेत्रबद्धौ कालवृद्धिरनियता, कालवृद्धौ तु क्षेत्रवृद्धिर्भवत्येवेति प्रतिपादितम् ॥६१६॥
सांप्रतं द्रव्य-क्षेत्र-काल-भावापेक्षया यद्धौ यस्य वृद्धिर्भवति, यस्य वा न भवति, अमुमर्थ प्रतिपादयनाह- . ___ काले चउण्ह वुड्ढी कालो भइयव्वो खेत्तवुड्ढीए । वुड्ढीए दव्व-पज्जव भइयव्वा खित्त-कालाओ ॥१७॥
कालेऽवधिगोचरे वर्धमाने सतीति गम्यते, 'चउण्ह वुड्ढि त्ति' नियमात् क्षेत्रादीनां चतुर्णामपि वृद्धिर्भवति । कालात् सूक्ष्म-सूक्ष्मतर-सूक्ष्मतमत्वात् क्षेत्र-द्रव्य-पर्यायाणां, तथाहि- कालस्य समयेऽपि वर्धमाने क्षेत्रस्य प्रभूतप्रदेशा वर्धन्ते, तद्वृद्धौ चावश्य
शप्रदेश द्रव्यप्राचुयो। द्रव्यदृद्धौ च पयायवृद्धिभेवत्येव, प्रतिद्रव्यं पयोयबाहुल्यादिति । यद्येवम्, 'काले वर्धमाने शेषस्य क्षेत्रादित्रयस्य वृद्धिर्भवति' इत्येवमेव वक्तुमुचितम् , कथं 'चतुर्णाम्' इत्युक्तम् ? । सत्यम् , किन्तु सामान्यवचनमेतत् , तथाहि- यथा देवदत्ते भुञ्जाने सर्वमपि कुटुम्ब भुड्क्त इत्यादि । अन्यथा ह्यत्रापि 'देवदत्ताच्छेषमपि कुटुम्ब भुङ्क्ते' इति वक्तव्य स्यात् , इत्यदोषः । 'कालो भइयव्वो खेतवुड्हीए त्ति क्षेत्रस्यावधिगोचरस्य वृद्धावाधिक्ये सति कालो भक्तव्यो विकल्पनीयो- वर्धते वा नवा, प्रभूते क्षेत्रे वृद्धि गते वर्धते कालः, न खल्पे इति भावः, अन्यथा हि यदि क्षेत्रस्य प्रदेशादिवृद्धौ कालस्य नियमेन समयादिवृद्धिः स्यात्, तदाऽङ्गुलमात्रादिकेऽपि वर्धिते क्षेत्रे कालस्याऽसंख्येया उत्सर्पण्यवसर्पिण्यो वधैरन् , तथाच वक्ष्यति- 'अंगुलसेढीमिते ओसप्पिणीओ असंखेजा' इति । ततश्च 'आवलिया अंगुलपुहुत्त' इत्यादि सर्व विरुध्येत । तस्मात् क्षेत्रवृद्धौ कालवृद्धिर्भजनीयैव,
, कालेऽसंख्ये द्वीप-सागराः क्षुद्रका असंख्येयाः । भजनीयाश्च महान्तः क्षेत्रं पुनरतदसंख्येयम् ॥ ६१६॥+Jहत्त।
२ काले चनुणी वृद्धिः कालो भक्तव्यः क्षेत्रवृद्धी । वृद्धौ द्रव्य-पर्याययोभक्तव्यो क्षेत्र-कालौ ॥ ६१७॥ ३ गाथा ६२१ । ४ गाथा ६.८ । द्रव्य-पर्यायास्तु तवृद्धौ नियमाद् वर्धन्त एवेति स्वयमेव दृश्यमिति । 'वुड्डीए दव्य-पज्जवेत्यादि' द्रव्यपर्याययोद्धौ सत्यां क्षेत्र-कालौ भक्तव्यौ विकल्पनीयौ वर्धते वा नवा; तथाहि- अवस्थितयोरपि क्षेत्र-कालयोस्तथाविधशुभाध्ववसायतः क्षयोपशमवृद्धौ द्रव्यं वर्धत एव; तवृद्धौ च पर्यायवृद्धिरवश्यंभाविन्येव, प्रतिद्रव्यं पर्यायानन्त्यात् , जघन्यतोऽपि चैकैकद्रव्यादप्यवधेः पर्यायचतुष्टयलाभादिति, पर्यायवृद्धौ च द्रव्यवृद्धिर्भाज्या- भवति वा नवेति स्वयमेव द्रष्टव्यम् । अवस्थितेऽपि हि द्रव्ये तथाविधक्षयोपशमद्धौ पर्याया वर्धन्त एव ।। इति नियुक्तिगाथार्थः ॥ ६१७॥ .
अथ भाष्यम्'काले पवड्ढमाणे सव्वे दव्वादओ पवढंति । खेत्ते कालो भइओ वड्ढंति उ दव्व-पज्जाया ॥ ६१८॥
भयणाए खेत्त-काला परिवड्ढंतेसु दव्व-भावेसु । दवे वड्ढइ भावो भावे दव्वं तु भयणिज्जं ॥ ६१९ ॥ द्वे अपि व्याख्यातार्थे ॥ ६१८॥ ६१९ ॥ अथोत्तरगाथासंवन्धनार्थ विनेयमुखेन प्रश्नं कारयति
अण्णोण्णनिबद्धाणं जहण्णयाईण खित्त-कालाणं । समय-प्पएसमाणं किं तुल्लं होज्ज हीणहियं ॥ ६२० ॥
अन्योन्यनिवद्धयोर्जघन्यादिरूपयोः क्षेत्र-कालयोः समय-प्रदेशमान किं तुल्यं भवेत् , हीनम् , अधिकं वेति । इदमुक्तं भवति'अंगुलमावलियाणं भागमसंखिज्ज' इत्यादिना ग्रन्थेन परस्परसंबद्धत्वेनाऽवधिविषयतया प्रोक्तयोर्जधन्ययोः, मध्यमयोः, उत्कृष्टयोश्च क्षेत्र-कालयोः संवन्धिनां प्रदेशानां समयानां च संख्यामाश्रित्य यद् मानं तत् परस्परं किं तुल्यं, हीनम् , अधिकं वा.भवेद, इति प्रश्नः ॥ २० ॥ अत्रोच्यते- सर्वत्र प्रतियोगिनः खल्वावलिकासंख्येयभागादेः कालादसंख्येयगुणमेव क्षेत्रमा यतः प्राह
, काले प्रवर्धमाने सर्वे द्रव्यादयः प्रवर्धन्ते । क्षेत्रे कालो भाज्यो वर्धते तु द्रव्य-पर्यायौ ॥१८॥ ____भजनया क्षेत्रकालौ परिवर्धमानयोर्द्रव्य-भावयोः । द्रव्ये वर्धते भावो भावे द्रव्यं तु भजनीयम् ॥ १९॥ १ अन्योन्यनिषद्धयोर्जघन्यायो। क्षेत्र-कालयो। । समय-प्रदेशमानं किं तुल्य भवेद् दीनमधिकम् । ॥ २०॥ ३ गाथा ६.८।
For Private and Personal Use Only