________________
Shri Mahavir Jain Aradhana Kendra
विशेषा०
www.kobatirth.org
160
Acharya Shri Kailassagarsuri Gyanmandir
नन्वेकैकाकाशमदेशावगाढजीवधन प्रतर श्रेण्याक्रान्ता काशप्रदेशानां संख्यारूपं गणितं तुल्यमेव । तथा, असंख्येयाकाशप्रदेशावगाढजीवधन-प्रतर-श्रेण्याक्रान्ताकाशदेशानामपि गणितं स्वस्थाने परस्परं तुल्यमेव तथाहि यावत एकैकाकाशप्रदेशावगाहिनां जीवानां धन आकाशप्रदेशानाक्रामति, प्रतरोऽपि तेषां तावत एव तानाक्रामति, सूचिरपि तेषां तावत एव तान् स्पृशति, संवृतप्रसारितनेत्रपट्टाक्रान्ताकाशप्रदेशवदिति । एवमसंख्येयाकाशप्रदेशावगाढजीवधन - प्रतर श्रेण्याक्रान्ताकाशप्रदेशानामपि स्वस्थाने गणिततुल्यता भावनीयेति । अतोऽवगाहभेदद्वयभिन्नो घन एवाऽस्तु, प्रतरो वा, सूचिर्वेति षोढा तु विकल्पना षड्भेदानां कल्पनं किमिति क्रियते ? न युक्तेयमित्यभिप्रायः ।
अत्र सूरिराह - भण्यत उत्तरम् । किम् १, इत्याह- 'पुरिसपरिवखेत्रओ भेड ति' अस्त्यस्याः षड्विधकल्पनाया भेदः । कथम् ?, इत्याह- पुरुषपरिक्षेपतः । इदमुक्तं भवति- नेह धनाद्याक्रान्ताकाशमदेशानां संख्या समत्व - विषयत्वे चिन्त्येते । किं तर्हि ?, घनादीनां मध्याद्यः कचिद् रचनाविशेषोऽवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणो बहुतरं क्षेत्रं स्पृशति, स एवेदं ग्राह्यः । एवं सत्यस्त्यमीषां भेदः, तथाहि - एकैकपदेशावगाढजीवधनो भ्रम्यमाणो यावत् क्षेत्रं स्पृशति, तस्मादसंख्येयमदेशावगाढजीवधनोऽसंख्येयगुणं स्पृशति, ततोऽप्येकैकमदेशा व गाढजीवमतरोऽसंख्येयगुणं, तस्मादप्य संख्ये य प्रदेशावगाढजन्तुमतरोऽसंख्येय गुणम्, ततोऽप्येकैकप्रदेशावगाढजीवसूचिरसंख्येयगुणं, तस्मादप्यसंख्येयाकाशप्रदेशावग। ढैकैकाग्निजीवसू चिरवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणाऽसंख्येयगुणं क्षेत्रं स्पृशति, तचाऽलोके लोकप्रमाणान्यसंख्येयाकाशखण्डानि अत एतावदेवाऽवधेरुत्कृष्टं क्षेत्रं विषय इति ।। ६०२ ॥
se
* P
उक्तमेवार्थ भाष्यकारः स्वयमेवाह
निययावगाहणागणिजीवसरीरावली समंतेणं । भामिज्जइ ओहिन्नाणिदेहपजंतओ सा य ॥ ६०३ ॥ अइगंतूण अलोगं लोगागासप्पमाणमेत्ताई । ठाइ असंखेज्जाई इदमोहिखेत्तमुक्कासं ॥ ६०४ ॥ निजका आत्मीया एकैकस्याऽसंख्येयप्रदेशात्मिकाऽवगाहना येषां तानि तथा, तानि च तानि अग्निजीवशरीराणि च तेषामावली पङ्गिः सूचिरवधिज्ञानिनो देहपर्यन्तात् समन्तात् सर्वासु दिक्षु बुद्ध्या भ्राम्यते । सा चाऽलोके 'लोकप्रमाणमात्राण्यसंख्येया
१ क. स. ग. र आह' । २ निजकावगाहनामिजीवशरीरावली समन्तात् । भ्राम्यतेऽवधिज्ञानिर्देहपर्यन्ततः सा च ॥ ६०३ ॥ rasoi लोकाकाशप्रमाणमात्राणि । तिछत्य संख्येयानि इदमवधिक्षेत्रमुत्कृष्टम् ॥ ६०४ ॥ न्याकाशखण्डानि' इति गम्यते, अतीत्य गत्वा स्पृष्ट्रा वेति तिष्ठत्युपरमते । इदमवधेरुत्कृष्टं क्षेत्र विषय इति ।। ६०३ ।। ६०४ ॥ आह- ननु ' रूपिद्रव्याण्येवावधिः पश्यति' इति गीयते, क्षेत्रं त्वमूर्तत्वात् कथं तद्विषय: १, इत्याशङ्क्याहसामत्थमेत्तमेयं जइ दट्ठव्वं हवेज्ज, पेच्छेजा । न य तं तत्थत्थि जओ सो रूविनिबंधणो भणिओ ||६०५॥
धेरैतावत् क्षेत्रं विषय उच्यते, तदेतत् तस्य सामर्थ्य मात्रमेव कीर्त्यते । कोऽर्थः । इत्याह-र ह- यद्येतावत्क्षेत्रे द्रष्टव्यं किमपि भवेत्। तदा पश्येदवधिज्ञानी । न च तद् द्रष्टव्यं तत्राऽलोके समस्ति यतोऽयमवधिस्तीर्थकर - गणधरै रूपिद्रव्यनिबन्धनो भणितः, तच्च रूपद्रव्यमलोके नास्त्येवेति ॥ ६०५ ।।
आह- यद्येवम्, लोकप्रमाणोऽवधिर्भूत्वा यस्य पुरतो विशुद्धिवशतो लोकाद् वहिरप्यसौ वर्धते तस्य तद्वृद्धेः किं फलं, लोकादु वहिर्द्रष्टव्याभावात् १, इत्याश इन्क्याह
12 P
SPIR
वड्ढतो उण बाहिं लोयत्थं चैव पासइ दव्वं । सुहुमयरं सुहुमयरं परमोही जात्र परमाणु ॥ ६०६ ॥ लोकाद्वहिष्पुनर्विशुद्धिवशाद् वर्धमानोऽवधिलोकस्थमेवाऽधिकमधिकतरं च द्रव्यं पश्यति । कथंभूतम् ?, (सूक्ष्मं, ) सूक्ष्मतरं, सूक्ष्मत्यं यावत् परमावधिः सर्वसूक्ष्मं परमाणुमपि पश्यति, इति तद्वृद्धेस्तात्त्विकं फलमिति । अलोके तु लोकप्रमाणासंख्येयखण्डेषु द्रव्यदर्शसामर्थ्यमेव तस्येति । अन्यकर्तृकेयं प्रक्षेपगाथा, सोपयोगेति च व्याख्यातेति ।। ६०६ ।।
तदेवं जघन्यमुत्कृष्टं चाभिहितमवधेर्विषयभूतं क्षेत्रम् । एतस्माच्चान्यत् सर्व विमध्यममिति सामर्थ्याद् गम्यत एव केवलं यद् यत्र निमध्यमे क्षेत्रविशेषे कालमानं भवति, यावति च काले यद् विमध्यमं क्षेत्र भवति, इत्यभिधित्सुः प्रस्तावनामाह
भैणियं जहणमुक्कोसयं च खेत्तं विमज्झिमं सेसं । एयस्स कालमाणं वोच्छं जं जम्मि खेत्तम्मि ॥६ गतार्थैव, नवरमुपलक्षणत्वादिह यावति काले यद्विमध्यमं क्षेत्रं भवति, इत्यप्यभिधास्यत इति द्रष्टव्यम् । इति गाथानवकार्थः।। ६०७ ।। यथाप्रतिज्ञातमेवाह
१. सामर्थ्यंमाश्रमेतद् यदि दृष्टव्यं भवेत्, प्रेक्षेत । न च तत् तत्रास्ति यतः स रूपिनिबन्धनो भणितः ॥ ३०५ ॥ + ठाई इति ।
२ वर्धमानः पुनहिलॉकस्थमेव पश्यति द्रव्यम् । सूक्ष्मतरं सूक्ष्मतरं परमावधियवत् परमाणुम् ॥ ६०६ ॥
३ भणितं जघन्यमुत्कृष्टं च क्षेत्रं विमध्यमं शेषम् । एतस्य कालमानं वक्ष्ये यद् यस्मिन् क्षेत्रे ॥ ६०७ ॥
For Private and Personal Use Only