________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
155
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
इहावध्यांदीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चशब्दसमुचितत्वात् पश्चदशी चर्तुदशविधनिक्षेपस्योपरिष्टात् पश्चाद् वक्ष्यते । तत्रावधिर्नाम स्थापनाभेदभिन्नो वक्तव्यः । तथा ' अर्थवशाद् विभक्तिपरिणाम:' इत्यवधेर्जघन्य- मध्यमोत्कृष्टभेदभिनं क्षेत्रपेरिमार्ण वक्तव्यम् । तथा, अवधेः संस्थानं वाच्यम् । तथा, अनुगमनशील आनुगामिकोऽवधिः समतिपक्षो वाच्यः । तथा, द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन्नुपयोगतो लब्धितथाऽऽस्ते १, इत्येवमवस्थितोऽवधिर्वक्तव्यः। तथा, वर्धमानसया हीयमानतया च चलो:नवस्थितोऽवधिर्वक्तव्यः । तथा, तीव्रो मन्दो मध्यमश्वावधिर्वक्तव्यः । तत्र तीव्रो विशुद्धो, मन्दोऽविशुद्धः, इतरस्तूभयप्रकृतिः । तथा, द्रव्याद्यपेक्षयैककाले प्रतिपातो-त्पादाववधैर्वक्तव्यौ । तथा, ज्ञान-दर्शन-विभङ्गा वाच्याः- किमत्र ज्ञानं, किं वा दर्शनं १, को वा विभङ्गः परस्परतश्चामीषामल्प - बहुत्वं चिन्तनीयम्, ततथ ज्ञान- दर्शन - विभङ्गैर्द्वारत्रयम् । तथा 'देसे त्ति' कस्य देशविषयः सर्वविषयो वावधिभवतीति निरूपणीयम् । तथा, संबद्धा ऽसंबद्ध-संख्येयाऽसंख्येयाऽपान्तराल क्षेत्रद्वारेण क्षेत्रविषयोऽवधिर्वक्तव्यः । गतिरिति च । तत्र इतिशब्द आद्यर्थः । ततश्च 'गैर-इंदिए काये' इत्यादिद्वारकलापोऽवधिर्वक्तव्यः । तथा प्राप्तर्द्धानुयोगच व्याख्यानरूपः कार्यः । एवमनेन प्रकारेणैता अनन्तरोक्ताः प्रतिपत्तयः प्रतिपादनानि परिच्छित्तय इत्यर्थः । ततश्वावधिमकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय उच्यन्ते ॥ इति निर्युक्तिरूपकद्वयपिण्डार्थः || ५७७ ॥ ५७८ ।।
कथं पुनरस्यायं निक्षेपश्चतुर्दशविधः १, इत्याह भाष्यकार:
isपजंता चोदस रिद्धी चसमुच्चिय त्ति पंचदसी । ओहिपयं पि व मोत्तुं सेयरमणुगामियं काउं ॥ ५७९ ॥ केई चोदसभेयं भणति ओहि त्ति न पयडी जम्हा। पयडी न य निक्खेवो जं भणिओ चोद्दसविहो ति ॥ ५८० ॥
अवध्याद्या गतिपर्यन्ताश्चतुर्दश निक्षेपाः । ऋद्धिस्तु चतुर्दशविधनिक्षेपमध्ये न भवति । किं तर्हि १, 'इढीपत्ते य वोच्छामि' इत्यत्र च समुचितत्वात् पृथग्भूता पञ्चदशी । अथवा 'ओही खेत्त परिमाणे' इत्यत्राद्यमवधिपदं मुक्त्वाऽनुगमनशीलमनुगामुकं सेतरं समतिपक्षं कृत्वा - अनुगामुकमननुगामुकसहितपर्थतो गमयित्वेत्यर्थः, केचनाप्याचार्याश्चतुर्दशविधनिक्षेपं पूरयन्ति । किमिति त एवं व्याख्यानयन्ति १, इत्याह- 'ओहीत्यादि ' अवधिर्यस्माद् न प्रकृतिः, किन्त्ववधेरेवेह प्रकृतयो विचारयितुं प्रक्रान्ताः । कुतः १, इत्याह-- यतः
१ गाथा ४०९ । २ गतिपर्यन्ताश्चतुर्दश पर द्विश्वसमुचितेति पञ्चदशी । अवधिपदमपि वा मोक्तुं सेतरमनुगामुकं कृत्वा ॥ ५७९ ॥ केचिच्चतुर्वशभेदं भजन्ति अबधिरिति न प्रकृतिर्यस्मात् । प्रकृतिनं च निक्षेपो यद् भणितञ्चतुर्दशविध इति ॥ ५८० ॥
३. गाथा ५६९ । ४ गाथा ५७७ ।
प्रकृतीनामेव चतुर्दशविधो निक्षेप उक्तः । अविरुद्धं चैतदपि व्याख्यानम् । अत्र च पक्षेऽवधिशब्दः सर्वत्र विशेषणतयैव योजनीयःअवधेः क्षेत्रपरिमाणम्, अवधेः संस्थानमित्यादि ॥ इति गाथाद्वयार्थः ॥ ५७९ ।। ५८० ॥
अथ प्रथमव्याख्याभिमताऽऽद्यद्वारव्याचिख्यासयी माह-
मंठवणा दविए खेत्ते काले भवे य भावे य । एसो खलु ओहिस्सा निक्खेवो होइ सत्तविहो ॥ ५८१ ॥ नाम-स्थापना- द्रव्य-क्षेत्र - काल-भव - भावभेदादेष खल्ववधिनिक्षेपः सप्तविधो भवति ॥ इति निर्युक्तिगाथासंक्षेपार्थः ॥ ५८१ ॥ Sarfara faresर्भाष्यकारः प्राह
अवहिति जस्स नामं जह मज्जायाऽवहि त्ति लोयम्मि । ठवणावहिनिक्खेबो होइ जह क्खाइविन्नासो ॥५८२ ॥
यस्य जीवादिपदार्थस्याऽवधिरिति नाम क्रियते, असौ नाम्ना नाममात्रेणावधिर्नामावाधिरुच्यते, यथा लोके मर्यादाऽवधिरभिधीयते । स्थापनया स्थापनमात्रेणावधिः स्थापनावधिर्भवति । कोऽयम् १, इत्याह- निक्षेपो विन्यासोऽवधेरेव ' वस्त्वन्तरे' इति गम्यते । क यथा १, इत्याह- यथाऽक्षादौ विन्यासो निक्षेपोऽवधिरक्षादिविन्यास इति ।। ५८२ ॥
प्रकारान्तरेण नाम-स्थापनावधी माह
हवा नामं तस्सेव जमभिहाणं सपज्जओ तस्स । ठवणागारविसेसो तदव्व-खेत- सामीणं ॥ ५८३ ॥
अथवा 'नामं ति' नामावधिरुच्यते । यत् किम् १, इत्याह- तस्यैव प्रकृतस्यावधिज्ञानस्य यत् ' अवधि:' इतिवर्णावलीमात्ररूपमभिधानं संज्ञेति, नामैवावधिर्नामावधिरिति कृत्वा । तच्चावधिरित्यभिधानं तस्याऽवधिज्ञानस्य वचनरूपः स्वपर्याय इति मन्तव्यम् । स्थापनावधिस्त्वाकारविशेषो भण्यते । केषाम् १, इत्याह- तस्यावधिज्ञानस्य यद् द्रव्यं विषयभूतं भू-भूधरादि, क्षेत्रं तु भरतादि, खामी स्वाधारभूतसाध्वादिः, एतेषामाकारविशेषः स्थापनाऽवधिः, विषय-विषयिभावादिसंबन्धित्वेनैतेषामाकारेऽवधिः स्थाप्यत इति भावः ।
१. छ. 'याद' । २ नाम स्थापना द्रव्यं क्षेत्रं कालो भवश्च भावश्च । एष खल्वयधेर्निक्षेपो भवति सप्तविधः ॥ ५८१ ॥ ३ अवधिरिति यस्य नाम यथा मर्यादाऽवधिरिति लोके । स्थापनावधिनिक्षेपो भवति यथाऽक्षादिविन्यासः ॥ ५८२ ॥ अथवा नाम तस्यैव यदभिधानं स्वपर्ययस्तस्य । स्थापनाकारविशेषस्तद्द्रव्य-क्षेत्र स्वामिनाम् ॥ ५८३ ॥
For Private and Personal Use Only