________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
156 विशेषा० पूर्व मर्यादा-ऽक्षादाववधिज्ञानासंबद्ध अपि नाम-स्थापने प्रोक्त, अत्र त्वभिधान-द्रव्याथाकारयोरवधिज्ञानसंबद्धयोस्ते अभिहिते इति विशेष इति ॥ ५८३ ॥
____ अथ द्रव्यावधिरुच्यते, स च द्विविध:- आगमता, नोआगमतश्च । तत्रागमतोऽअधिपदार्थकस्तत्र चानुपयुक्तः " अनुपयोगो द्रव्यम्" इतिवचनाद् द्रव्यावधिः । नोआगमतो मशरीरद्रव्यावधिा, भव्यशरीरद्रव्यावधिय । शरीर-भव्यशरीरव्यतिरिक्त तु अव्यावर्षि भाष्यकारः खयमेवाह
दव्वोही उप्पज्जइ जत्थ तओ जं च पासए तेणं । जं वोवगारि वन्वं देहाइ तदुष्भवे होइ ॥ ५८४ ॥ .
तद् द्रव्यं द्रव्यावधिर्भण्यते । यत्र किम् १, इत्याह-'उप्पज्जाइ जत्थ तो ति पत्र विपुलाचलशिलादौ कायोत्सर्गादिस्थितस्य साध्यादेस्तकोऽसौ अवधिरुत्पयते । यद्धा भूपरादि रूपि द्रव्यं तेनाऽवधिना साध्यादिः पश्यति तद् द्रव्यावधिरुच्यते । यत् पा तस्याऽअधेरुद्भय उत्पत्ती सहकारित्वेनोपकारक देहादिद्रव्यं तत् सर्व द्रव्यावधिरभिधीयते । एवमुक्त भवति-इहापारभूतशिलादिद्रव्याण्युत्पथमानस्यावधेः सहकारिकारणानि भवन्ति । कारणं च ..
" भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतना-ऽचेतन गदितम् ॥ १॥" इति वचनाद् द्रव्यमुच्यते । अतोऽन्यान्यपि तपा-सैयमादीन्यवध्युत्पत्तिकारणानि व्यावधित्वेनाऽवसेयानीति ।। ५८४ ॥ ..' अथ क्षेत्र-कालावधी पाह
खेत्ते जत्थुप्पज्जइ कहिजए पेच्छए व दव्याई । एवंचेव य काले न उ पेच्छह खित्त-काले सो ॥ ५८५॥ । यत्र नगरोद्यानादिक्षेत्रे स्थितस्यावधिरुत्पद्यते स क्षेत्रेऽधिकरणभूतेऽवधिः क्षेत्रावधिरुच्यते. क्षेत्रस्याधारस्वेन प्राधान्यविवक्षया क्षेत्रेण व्यपदेश इति भावः। यत्र वा क्षेत्रेऽवधिः कथ्यते प्रज्ञापन स्वरूपतः मरूप्यते, यत्र वा क्षेत्रे व्यवस्थितानि द्रव्याण्यवधिज्ञानी प्रेक्षते तत्प्राधान्यविवक्षया तेन व्यपदेशात क्षेत्रावधिरभिधीयते । एवं यत्र प्रथमपोशष्यादौ कालेऽवधिरुत्पद्यते, यत्र वा प्रज्ञापकेन प्रहप्यते यत्कालविशिष्टानि वा द्रव्याण्यवधिज्ञामी पश्यनि, तत्वाधान्य विवक्षया सेन व्यपदेशात् स कालावधिरुच्यते । ननु किमिति 'क्षेत्र
ब्यावधिरुत्पद्यते यत्र सका याच पश्यति तेन । परोपकारि वन्य देहादि सतुनवे भवति ॥ ५४॥
क्षेत्रे यत्रोत्पद्यते कथ्यते प्रेक्षते वा च्याणि । एवमेव च कालेन मेक्षते क्षेत्र कालो सः॥ ५५॥ .. कालावस्थितानि द्रव्याणि पश्यत्यसौ, इत्युच्यते ?, कि क्षेत्र-कालावेव साक्षादेव न पश्यति, इत्याशङ्कयाह- न तु पश्यति क्षेत्र-कालावसौ, तयोरमूर्तत्वात् । अवधेश्च मूर्तविषयत्वात् । वर्तनारूप तु काल पश्येत् , द्रव्यपर्यायत्वात् तस्येति ॥ ५८५ ॥
अथ भव-भावावधी निरूपयितुमाह
'जम्मि भवे उप्पज्जइ वट्टइ पेच्छइ व जं भवोही सो । एमेव य भावोही वट्टइ य तओ खओवसमे ॥५८६॥ यस्मिन् नारकादिभवेऽवधिरवश्यमुत्पद्यते, यत्र वा भव उत्पन्नोऽसावधिर्वर्तते नारकादिभव एव, यं वा स्वकीय परकीयं वाऽतीतमनागतं वा, एकादिकमसंख्याततमान्तं भवं पश्यति स भवावधिः, भवे आधारभूते विषयभूते वाऽवधिभयावधिरिति कृत्वा। एवमेव भावावधिरपि वक्तव्य:- यस्मिन् क्षायोपशमिके भावेऽवधिरुत्पद्यते, यत्र.वा क्षायोपशामिक एव भावे उत्पन्नोऽसौ वर्तते, यं वौदयिकादिभावपञ्चकान्यतरभावं, सर्वान् वा तान् पश्यति स भावावधिरित्यर्थः, भावेऽवधिर्भावावधिरिति कृत्वा। सत्ववाधिक भावे वर्तते ? इति कथ्यताम् , इत्याह-वर्तते च तकोऽसौ अवधिः क्षायोपशमिके भाव इति । तदेवं प्रथमव्याख्याने द्वारतया समायातस्यानधेर्नामादिनिक्षेपोऽयमुक्तः, द्वितीयव्याख्याने तु विशेपणतया समायातस्याऽस्यैषोऽभिहित इति ॥५८६ ॥
अथाऽवधेः क्षेत्रपरिमाणमभिधित्सुर्भाष्यकार एवं प्रस्तावनामाह
ओहिस्स खेत्तमाणं जहण्णमुक्कोस्स-मज्झिमं तत्थ । पाएण तदाईए जं तेण जहन्नयं वोच्छं ॥५८७॥
अवधेर्य विषयभूत क्षेत्रं तस्य मानं प्रमाणं जघन्यम् , उत्कृष्टं मध्यमं च भवति । तत्र पायो यद् यस्मादादौ प्रथमतस्तज्जघन्य क्षेत्रं भवति, जघन्यक्षेत्रविषयोऽवधिः प्रायेणाऽऽदौ समुत्पद्यते, तेन कारणेन जघन्यमेव क्षेत्रममाणमादौ वक्ष्ये ॥ इति गाथापदकार्थः ॥५८७॥
यथामतिज्ञातमेवाह
जावइया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा ओहीखेत्तं जहण्णं तु ॥५८८॥ xस-1 यस्मिन् भव उत्पयते वर्तते प्रेक्षते वा यद् भवावधिः सः। एवमेव च भावावधिर्वर्तते च सकः क्षयोपशमे ॥ ५८६ ॥२ घ. छ.' नन्वव' ।
३ क. ग. 'बधिक्षेत्रप्रमा' । ४ अवधेः क्षेत्रमानं जघन्यमुत्कृष्टं मध्यमं तत्र । प्रायेण तदादौ यत् तेन जघन्यकं वक्ष्ये ॥ ५८७ ॥ ५ यावती ग्रिसमयाहारकस्य सूक्ष्मस्य पनकजीवस्य । अवगाहना जघन्या अवधिक्षेत्र जघन्यं तु ॥ ५८८ ॥
For Private and Personal Use Only