________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
132 विशेषा० प्रतिपाद्यन्ते, इति निमित्तभेदख्यापनपरावेव स्व-परशब्दौ, न त्वेकेषां तत्र सर्वथा संबन्धनिराकरणपरौ । अतोऽक्षरे घटादिपर्याया अस्तित्वेनाऽसंबद्धा इति परपर्याया उच्यन्ते, न पुनः सर्वथा ते तत्र न संबद्धाः, नास्तित्वेन तत्रापि संबन्धात् । न चैकस्योभयत्र संबन्धो न युक्तः, एकस्याऽपि हिमवदादेरंशद्वयेन पूर्वापरसमुद्रादिसंबन्धात् । यदि होकेनैव रूपेणैकस्योभयत्र संबन्ध इध्येत तदा स्याद् विरोधः, एतच्च नास्ति, रूपयेन घटादिपर्यायाणां तत्र, अन्यत्र च संबन्धात् , सत्त्वेन तत्र संबन्धात् , असत्वेन त्वक्षरादिषुः । असत्त्वमभावत्वाद् वस्तुनो रूपमेव न भवति, खरविषाणवत् , इति चेत् । तदयुक्तम् , खरविषाणकल्पत्वस्य वस्त्वभावेऽसिद्धत्वात् । न हि मागभाव-अध्वंसाभाव-घटाभाव-पटाभावादिवस्त्वभावविशेषणवत् खरविषाणादिष्वपि विशेषणं संभवति, तेषां सर्वोपाख्याविरहलक्षणे निरभिलप्ये षष्ठभूतवद् नीरूपेऽत्यन्ताभावमात्र एव व्यवहारिभिः संकेतितत्वात् । न च षष्ठभूतवद् वस्त्वभावोऽप्यस्माभिरूपोऽभ्युपगम्यते, नीरूपस्य निरभिलप्यत्वेन प्रागभावादिविशेषणानुपपत्तेः किन्तु यथैव मृत्पिण्डादिपर्यायो भाव एव सन् घटाकारादिव्या वृत्तिमात्रात् मागभाव इति व्यपदिश्यते, यथा वा कपालादिपर्यायो भाव एव सन् घटाकारोपरममात्रात् प्रसाभावोऽभिधीयते, तद्वद पर्यायान्तरापन्नोऽक्षरादिर्भाव एवं घटादिवस्त्वभावः प्रतिपाद्यते, न तु सर्वथैवाऽभावः, तस्य सर्वथा नकिञ्चिद्वपस्यानभिलप्यत्वात न च वक्तव्यं - खरविषाणादिशब्देन सोऽप्यभिलप्यत एव, इति तस्य सर्वथा निरभिलप्यताख्यापनार्थमेवा संकेतमात्रभाविनां खरविषाणादिशब्दानां व्यवहारिभिस्तत्र निवेशात् ।
. किञ्च, यदि घटादिपर्यायाणामक्षरे नास्तित्वेन संबन्धो नेष्यते, तहस्तित्व-नास्तित्वयोरन्योन्यव्यवच्छेदरूपत्वादस्तित्वेन तेषां तत्र संबन्धः स्यात् , तथाच सत्यक्षरस्यापि घटादिरूपतैव स्यात् , एवं च सति सर्व विश्वमेकरूपतामेवाऽऽसादयेत् , ततश्च सहोत्पत्त्यादिप्रसङ्गः । न च वक्तव्यम्- घटादिपर्यायाणां घटादौ व्यवस्थितानां नास्तित्वलक्षणं रूपं कथमक्षरे प्राप्तम् , रूपिणमन्तरेण रूपायोगात्, अथ तेऽपि तत्र सन्ति, तर्हि विश्वैकत्वमिति; घटादिपर्यायाणां घटादीन् विहायाऽन्यत्र नास्तित्वेन व्या अन्यथा स्व-परभावायोगात् । अत एव कथञ्चिद् विश्वकताऽप्यबाधिकैव, द्रव्यादिरूपतया तदेकत्वस्याऽप्यभ्युपगमात् । अतो गम्भीरमिदं स्थिरबुद्धिभिः परिभावनीयम् । तस्माद् घटादिपर्याया नास्तित्वेनाऽक्षरेऽपि संबद्धा इति । तत्पर्याया अप्येतेऽस्तित्वेन घटादावेव संबद्धाः, न त्वक्षरे, इति परपर्यायताव्यपदेश इति स्थितमिति ॥ ४७९ ॥
यदि घटादिपर्यायास्तत्राऽक्षरेऽसंबद्धत्वेन परपर्याया व्यपदिश्यन्ते, तर्हि ते तस्य कथमुच्यन्ते १, इत्याह
चाय-सपज्जायविसेसणाइणा तस्स जमुवउज्जति । सधणमिवासंबद्ध भवंति तो पज्जया तस्स ॥ ४८० ।।
ततस्तस्माद् घंटादिपर्याया अपि तस्याऽक्षरस्य पर्याया भवन्ति, यतोऽक्षरस्याऽपि त उपयुज्यन्ते- उपयोग यान्ति । केन', इत्याह- त्याग-स्वपर्यायविशेषणादिना-त्यागेन स्वपर्यायविशेषणेन चोपयोगादित्यर्थः । इदमुक्तं भवति-घटादिपर्यायाः सवेनाऽक्षरेअसंबद्धा अपि तत्पर्याया भवन्ति, त्यागेनाऽभावेनोपयुज्यमानत्वात् । यदि हि तत्र तेषामभावो न भवेत् तर्हि तदक्षरं घटादिभ्यो व्यावृत्तं न सिद्ध्येत, तत्रापि घटादिपर्यायाणां भावात् , इत्यतोऽक्षरस्य त्यागेनाऽभावेनोपयोगाद् घटादिपर्यायास्तस्य भवन्ति । तथा, खपर्यायाणां विशेषणेन विशेषव्यवस्थापकत्वेन परपर्याया अपि तस्य भवन्ति । न हि परपर्यायेष्वसत्सु स्वपर्यायाः केचिद् भेदेन सिद्ध्यन्ति, स्व-परशब्दयोरापोक्षकत्वात् । प्रयोग:- इह यद्यस्योपयुज्यते तद् भेदवर्त्यपि तस्येति व्यपदिश्यते, यथा देवदत्तादेः स्वधनम् , उपयुज्यन्ते च त्याग-स्वपर्यायविशेषणादिभावेन घटादिपर्याया अप्यक्षरस्य, अतस्ते तस्याऽपि भवन्ति । एवमक्षरपर्याया अपि घटादेवाच्या इति॥४८॥ - एतदेव भावयति
सैधणमसंबद्धं पि हु चेयणं पिव नरे जहा तस्स । उवउज्जइ ति सधणं भण्णइ तह तस्स पज्जाया||४८१॥
इह देवदत्तादिके नरे चैतन्यं यथाऽऽत्मनि संबद्धं, तथा स्वधनमसंबद्धमपि स्वधनं तस्य लोके भण्यते । कुतः १, उपयुज्यत इति कृत्वा । तथाऽक्षरेऽसंबद्धा अपि घटादिपर्यायास्तस्याऽक्षरस्य पर्याया भवन्ति ॥ ४८१ ।।
अमुमेवार्थ दृष्टान्तान्तरेण साधयतिजह सण-नाण-चरित्तगोयरा सव्वदव्वपज्जाया । सद्धेय-नेय-किरियाफलोवओगित्ति भिन्ना वि ॥४८२॥
जइणो सपज्जाया इव सकज्जनिप्फायग ति सधणं व । आयाण-चायफला तह सव्वेसं पि वण्णाणं॥४८३॥ इह यथा सर्वद्रव्य-पर्याया भिन्ना अपि सन्तो यतेरेते भवन्ति- यतेः संबन्धिनो व्यपदिश्यन्ते । कुतः १, इत्याह- स्वकार्य
त्यण-स्वपर्यायविशेषणादिना तस्य यदुपयुज्यन्ते । स्वधनमिवाऽसंबद्धं, भवन्ति ततः पर्यायास्तस्य ॥४८॥ २ स्वधनमिवाऽसंपवमपि खलु चैतन्यमिव नरे यथा तस्य । उपयुज्यत इति स्वधनं, भण्यते तथा तस्य पर्यायाः॥४८५. ३ यथा दर्शन-ज्ञान-चारित्रगोचराः सर्वद्रव्य-पर्यायाः । श्रद्धेय-ज्ञेय-क्रियाफलोपयोगिन इति भिन्ना अपि ॥ ४८२॥ यतेः स्वपर्याया इव स्वकार्यनिष्पादका इति स्वधनमिक । आदान-स्थागकलास्तथा सर्वेषामपि वर्णानाम् ॥ ४८३॥
For Private and Personal Use Only