________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___130 विशेषा० इन्द्रिय-मनोनिमित्तमपि ज्ञान तत्वतोऽनुमानमेवेति दर्शयति
'इंदिय:मणोनिमित्तं पि नाणुमाणाहि भिजए, किंतु । नाविक्खइ लिंगंतरमिइ पञ्चक्खोवयारो त्थ ॥४७१॥
इह यदिन्द्रिय-मनोनिमित्त साक्षात्पुरोवस्थितं घटायर्थ दृष्टा ज्ञानमुत्पद्यते तदपि तावदनुमानमेव, अपरस्मादत्पत्तेः, धमाग्निजानवदिति । इन्द्रिय-मनोद्वारेणोत्पन्नत्वादेतदात्मनः परोक्षम् , अतस्तत्त्वतोऽनुमानाद् नातिरिच्यते । यानि त्विन्द्रियाणामप्यसाक्षाता.
नि सादृश्यादेलिङ्गाज्ज्ञानान्युपजायन्ते, तेषामनुमानत्वे का संदेहः ? इति भावः। आह-नन्विन्द्रिय-मनोनिमित्तं यत् साक्षादर्थ इष्टा ज्ञानमुत्पद्यते तद् यद्यनुमानं भवता प्रोच्यते, तर्हि कथं प्रत्यक्षतया लोके रूढम् १, इत्याह-किन्त्विन्द्रिय-मनोमात्रादेव निमित्तादिदमुत्पयते, न पुन—मादि लिङ्गान्तरमपेक्षते, अतः प्रत्यक्षोपचारोत्र क्रियते- प्रत्यक्षमिव प्रत्यक्षं, इन्द्रियसाक्षाद्भूतार्थत्वात् : परमार्थतस्त्वनुमानमेवेति ॥ ४७१॥
अथ तत्रापि किश्चि दाद् भेदोऽनुमानस्याभिधीयते, तथाऽप्येतत्पश्चभेदत्वमयुक्तमिति दर्शयति
नापुणरुत्ता न समत्तलिङ्गसंगाहिया न य गुणाय । नियमियपरिमाणाए किं च विसेसोवलद्धीए ॥ ४७२ ॥.
येयं पञ्चविधाऽनुमानोपलब्धिः परिकल्प्यते केनापि, सा नाऽपुनरुक्ता-न पौनरुक्त्यदोषरहिता, सादृश्यो-पमानादिषु सर्वत्र सादृश्याविशेषात् पुनरुक्तदोषदुष्टैचेयमित्यर्थः, अत्यन्तपरोक्षेण च स्वर्गादिनोपमाने विधीयमाने आगमाविशेषाच्च पौनरुक्त्यम् । न च समस्तलिङ्गसंग्राहिकेयम् , सकललोकप्रतीतानामपि कार्यस्वभावादिरूपाणां धूम-कृतकत्वादिलिङ्गानामनयाऽसंग्रहात् । अथाऽत्रापि केनाऽप्यशेन सादृश्यमस्ति, तडॅकमेवेदमस्तु, किं बहुभेदोपन्यासेन, सर्वलिङ्गेष्वपि केनाऽभ्यशेन सादृश्यस्यैव गमकत्यात् ? इति । न चेयं पञ्चविधोपलब्धिर्गुणाय- उक्तन्यायेन दूषणमेवाऽस्यां दृश्यते, न पुनः कश्चिद् गुण इत्यर्थः । अतः किमनया नियमितपरिमाणया विशेषोपलब्ध्या , अनुमानतयैव सर्वसंग्रहात् । इति ॥ ४७१॥
भवत्वेवम् , तथाऽप्यनुमानात् पृथगेव या त्रिविधाऽनुपलब्धिरन्यत्र प्रसिद्धा, इत्याशङक्याहनाहिगयाऽणुवलद्धी न वा विवक्खो त्ति वा तओ सव्वा । सक्खाइगहणेण वान उ जुत्तो तिविहनियमो से॥४७॥
१ इन्द्रिय-मनोनिमित्तमपि नानुमानाद् भियते, किन्तु । नापेक्षते लिङ्गान्तरमिति प्रत्यक्षोपचारोऽत्र ॥ ४७१ ॥ २ नाऽपुनरुक्ता न समस्तलिङ्गसंप्राहिका न च गुणाय । नियमितपरिमाणया किं च विशेषोपलब्ध्या ? ॥ ४७२ ॥
३ नाऽधिकृताऽनुपलब्धिर्न वा विपक्ष इति वा ततः सर्वा । साक्षादादिग्रहणेन वा न तु युक्तस्विविधनियमस्तस्य ।। ४७३ ।। .. या त्रिविधाऽनुपलब्धि : कैश्चित् प्रफलप्यते, तपथा- अत्यन्तानुपलब्धिः खरविषाणादीनाम् , सामान्यानुपलब्धिर्यथा- रूपलक्षितस्यापि माषकणादेर्महति माषकणादिराशौ प्रक्षिप्तस्यानुपलब्धिः, विस्मृत्यनुपब्धि:- विस्मृत्या 'अयं सः' इत्यनुसंधानमकुर्वतो विज्ञेया । सैषा त्रिविधाऽप्यनुपलब्धिर्नेहाधिकृता, अक्षरोपलब्ध्यधिकारेऽनुपलब्धेरप्रस्तुतत्वात् । अयोपलब्धिविपक्षोऽनुपलब्धिः, अतो विपक्षत्वेन साऽप्यत्राधिकृता । साध्वेतत् , केवलं त्रैविध्यनियमोऽयमयुक्तः अतिसंनिकृष्टा-ऽतिविपकष्टानुपलब्ध्यादिकाया अप्यनुपलब्ध। प्रसिद्धत्वात् । ततः सर्वाऽप्यसौ साक्षात् , आदिग्रहणेन वा वक्तव्या, न तु तस्यात्रैविध्यनियमो युक्तः। सर्वाऽपि तर्युच्यतामिति चेत् ।। नैवम् , अन्थविस्तरप्रसङ्गात्, अन्यत्रोक्तत्वात् , प्रत्यक्षा-ऽनुमानान्तर्भावाचेति । अत्र यत् प्रक्षेपगाथान्तरं दृश्यते तत् स्वधिया भावनीयम् उपेक्षणीयं वेति ॥ ४७३ ॥
तदेवं तत्त्व-भेद-पर्यायैर्व्याख्यातमक्षरम् । सामतमक्षरश्रुताधिकारादेव यदुक्तं सूत्रे- “ अक्खरलद्धिअस्स लद्धिअक्खरं समुः प्पज्जइ " इति तत्र प्रर्यमुत्थापयन्नाह
अक्खरलंभो सण्णीण होज पुरीसाइवण्णविण्णाणं । कत्तो असण्णीणं भणियं च सुयम्मि तेसि पि ॥४७४॥
पुरुष स्त्री-नपुंसक-घट-पटादिवर्णविज्ञानरूपोऽक्षरलाभः संज्ञिनां समनस्कजीवानां भवेद , श्रदध्महे एतत् , असंशिनां त्वमनस्कानां कुत एतद्वर्णविज्ञान संभवति - न कुतश्चिदित्यर्थः, अक्षरलाभस्य परोपदेशजत्वात: मनोविकलानां तु तदसंभवात् । मा भूत तेषा तर्हि तदिति चेत्, इत्याह- भणितं च वर्णविज्ञानं श्रुते तेषामप्येकेन्द्रियाघसंझिना- " एगिदिया मइअनाणी सुयअभाणी य" इत्यादिवचनात् । न हि श्रुताज्ञानमक्षरमन्तरेण संभवति, तदेतत् कथं श्रद्धातव्यम् ? इति ॥ ४७४ ॥
अत्रोत्तरमाइजह चेयण्णमकित्तिममसण्णीणं तहोहनाणं पि । थोवं तिं नोवलब्भइ जीवत्तमिबिंदियाईणं ॥ ४७५ ॥
१५.छ. 'त् परिक' । १ अक्षरलब्धिकस्य लब्ध्यक्षरं समुत्पद्यते । ३ अक्षरलामः संशिमा भवेत् पुरुषादिवर्णविज्ञानम् । कुतोऽसंजिनां भणितं च श्रुत्ते तेषामपि ॥ १७ ॥ ४ क. ग. ' भ'। ५ क. ख. ग. 'तदभावात्। । एकेन्द्रिया मत्यज्ञाना, भुताज्ञानाश्च । ..यथा चैतन्यमकृन्निममसंज्ञिना तथौषज्ञानमपि । स्तोकमिति नोपलभ्यते जीवस्वमिवेन्द्रियादीनाम् ॥ १५॥
For Private and Personal Use Only