________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
129
विशेषा०
योऽक्षरस्योपलम्भी लाभः सा लम्भन लब्धि:- तलब्ध्याक्षरमित्यर्थः । तच्च किम् ?, इत्याह- इन्द्रिय-मनोनिमित्त श्रुतग्रन्थानुसारि. विज्ञानं श्रुतज्ञानोपयोग इत्यर्थः, यश्च तदावरणक्षयोपशम इति- या श्रुतज्ञानोपयोगा, यश्च तदावरणकर्मक्षयोपशमः, एतौ द्वावपि लब्ध्यक्षरमिति भावार्थः । उक्तं त्रिविधमक्षरम् ॥ ४६६॥
अथाऽत्र किं द्रव्यश्रुतं, किंवा भावश्रुतम् १, इत्याह
देव्वसुयं सण्णा-वंजणक्खरं, भावसुत्तमियरं तु । मइ-सुयविसेसणम्मि वि मोत्तूणं दन्वसुतं ति ॥ ४६७ ॥ . संझाक्षर, व्यञ्जनातरं चैते द्वे अपि भावभुतकारणत्वाद् द्रव्यश्रुतं, इतरतु सम्ध्यक्षरं भावश्रुतम् । अत्र विनेया माह- ननु पूर्व मैति-श्रुतभेदविचारे येयं गाथा प्रोक्ता
- ''सोइंदिओवलद्धी होइ सुर्य सेसयं तु मइनाणं । मोत्तूर्ण वन्वसुर्य अक्खरलंभो य सेसेसु' ॥ १ ॥ इति ।
अस्या किमस्य त्रिविधस्याऽक्षरस्य संग्रहोऽस्ति नवा, श्रुतविचारस्य तत्रापि प्रस्तुतत्वात् । यद्यस्ति, तर्हि दर्यता कथमसौ । अथ नास्ति, तीत्रापि किमनेनामस्तुतेन । इत्याशङ्कय सूरिः पूर्वापरग्रन्थसंवाद दिदर्शयिषुस्तत्राऽप्यस्याक्षरत्रयस्य संग्रहमुपदर्शयति-'मइ-सुयेत्यादि' मति-श्रुतविशेषणेऽपि मति-श्रुतभेदविचारेऽपि 'सोइंदिओवलद्धी' इत्यादिगाथायां 'मोत्तूणं दव्वसुर्य' इत्यनेन गाथावयवेन।४६७॥
किम् ? , इत्याह
देवसुयं सण्णक्खरमक्खरलंभो त्ति भावसुयमुत्तं । सोउवलडिवयणेण वंजणं भावसुत्तं च ॥ ४६८ ॥ मा. संज्ञाक्षरमुक्तम् । कथंभूतम् १, इत्याह- द्रव्यश्रुतं भावकारणत्वाद् द्रव्यश्रुतरूपम्। 'अक्खरलंभो य सेसेसु' इत्यनेन त्वषयवेन लब्ध्यक्षरमुक्तमिति शेषः। कथंभूतम् , इत्याह-भावश्रुतं विज्ञानात्मकृत्वाद् भाववैतरूपम् । 'सोइंदिओवलद्धी होइ सुर्य' इत्यनेन त्ववयवेन श्रोत्रेन्द्रियेणोपलब्धिर्यस्य शब्दस्यति बहुव्रीहिसमासाश्रयणाद् व्यञ्जन व्यञ्जनाक्षरमुक्तम्, श्रोत्रेन्द्रियस्योपलब्धिर्विज्ञानमिति षष्ठीसमासाङ्गीकरणेन तु पुनरपि लब्ध्यक्षरं भावश्रुतरूपमभिहितम् , इत्येवं न पूर्वा-परविसंवादः॥ ४६८ ॥
ननु लब्ध्यक्षरं कथं प्रमाता लभते ?, इत्याह१.छ. 'णक्ष'। २ द्रव्यश्रुत संज्ञा-व्यअनाक्षरं भावभुतामतरत् तु । मसि-श्रुतविशेषणेऽपि मुक्त्वा व्यसूत्रमिति ॥ ४६७॥ ३ क. 'तिपूर्वधु' । ४ गाथा ११७। ५ म्यश्रुतं संज्ञाक्षरमक्षरलाभ इति भावभुतमुकम् । श्रोत्रोपलब्धिवचनेन व्यञ्जनं भावसूत्रं च ॥ ४६८॥
पंचक्खमिदिय-मणेहिं लभइ लिंगेण चक्खरं कोइ । लिंगमणुमाणमण्णे सारिक्खाई पभासंति ॥ ४६९॥ - तच्चाक्षरं लब्ध्यक्षरं कश्चित् प्रत्यक्षं लभते- प्रत्यक्षरूपतयैव कस्यचिदुत्पद्यत इत्यर्थः । काभ्यां कृत्वा ?, इत्याह- इन्द्रिय-मनोभ्यास- इन्द्रिय-मनोनिमित्तं यद् व्यवहारप्रत्यक्षं तत्र कस्यचिल्लब्ध्यक्षरं श्रुतज्ञानरूपमुपजायत इत्ययः । अन्यस्य तु लिस तदुत्पद्यते- धूमादिलिङ्गं दृष्ट्वाऽग्न्यादिरूपं तत् कस्यचिदुपजायत इत्यर्थः । लिङ्ग किमुच्यते ?, इत्याइ- अनुमानमिति । ननु लिङ्गग्रहणसंबन्धस्मरणाभ्यामनु पश्चाद् मानमनुमानं लिङ्गजं ज्ञानमुच्यते, कथं लिङ्गमेवाऽनुमानमिति चेत् । सत्यम् , किन्तु कारणे कार्योपचारात् तदप्यनुमान, यथा प्रत्यक्षज्ञानजनको घटोऽपि प्रत्यक्ष इति । तदेतदिह तात्पर्यम्- लब्ध्यक्षरं श्रुतज्ञानमुच्यते, तच्चेन्द्रिय-मनोनिमित्त प्रत्यक्ष वा स्यात् , अनुमानं वा स्यात्, नान्यत्, शेषस्याऽऽत्मप्रत्यक्षस्यावध्यादिरूपत्वादिति भावः । 'अण्णे सारिक्खाई पभासंति ति' सादृश्यादिभ्यो जायमानत्वात् तदनुमानं पञ्चविधमिति केचित् प्रभाषन्ते ॥ ४६९ ॥ ... एतदेवाह- सौरिक्ख-विवक्खो-भय-मुवमा-गममेव सव्वमणुमाण । किंचिम्मत्तविसेसेण वा न तं पंचहा ठाइ ॥ ४७० ॥
सादृश्यादन्यस्मिन् प्रत्यक्षेऽप्यर्थे स्मृतिज्ञानमुपजायते, यथा सदृशे एकस्मिन् भ्रातरि कापि दृष्टेऽन्यस्मिंस्तत्सदृश्येतद्भातरि पूर्वदृष्टे सादृश्यात् 'स पूर्वदृष्टोऽस्य भ्राता' इति स्मृतिज्ञानमुत्पद्यते । विपक्षादप्युरगादेस्तद्विपक्षे नकुलादौ स्मृतिज्ञानमुपजायते । उभयस्मादुभयरूपाद् वेगसरात् खरा-ऽश्वयोः स्मृतिज्ञानमाविर्भवतीत्यादि । उपमानाद् गवादेर्गवयादौ, आगमात् स्वर्गादौ ज्ञानमुत्पद्यते। एवं सादृश्यादिभेदेनाऽनुमानं पञ्चविधम् ।।
__ अत्र सूरिराह- सर्वमेवेदमनुमानम्- अनुमानाद नातिरिच्यते, संबन्धादन्यतो विवक्षितार्थाप्रतिपत्तेः । अथ किश्चिद्भेदेन भेदो विवक्ष्यते, तत्राह-न तं पंचहा ठाइ तिं' तदनुमानं पञ्चधा नावतिष्ठते- नाऽनेन भेदपञ्चकमात्रेण सर्वतद्भेदसंग्रहो भवतीत्यर्थः, . घूमादग्निज्ञानस्य, बलाकादेर्जलायनुमानस्य च सकललोकमतीतस्याऽनेनासंग्रहादिति । अत्रान्तरे 'भायअहियस्स' इत्यादिगाथाकचिद् श्यते, सा च प्रक्षेपरूपा मूलटीकयोरगृहीतत्वादुपेक्ष्यते ॥ ४७०॥
प्रत्यक्षामिन्द्रिय-मनोभ्यां लभते लिोन चाक्षरं कोऽपि । लिजमनुमाननग्ये सारश्यादि प्रभाषन्ते ॥१क. स. प. 'तदि। ३ साश्य-विपक्षो-भषमुपमा-ऽऽमममेर सर्वमनुमानम् । किचिन्मात्रविशेषेण वान तत् पसभा विधति ॥ ७० ॥ भामाथिकस्य ।
For Private and Personal Use Only