________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
128 विशेषा.
'स्वृ शब्दो-पतापयो। अक्षराणां व्यञ्जनानां स्वरणेन संशब्दनेन स्वरा अकारादयः पोच्यन्ते । अथवा, अक्षरस्य चैतन्यस्य स्वरणात् संशब्दनात् स्वराः, शब्दोचारणमन्तरेणाऽन्तर्विज्ञानस्य बोधुमशक्यत्वात्, शब्दे च स्वरसद्भावादिति । व्यञ्जनमपि कादिकमुच्यते केन ?, इत्याह-- व्यञ्जनेन व्यक्तीकरणेन प्रकटनेनाऽर्थस्य । अक्षरशब्दः पूर्व ज्ञानवाचकत्वेन व्युत्पादितः, सांप्रत वर्णवाचकत्वेन व्युत्पादयति-- 'अत्थे य इत्यादि' अर्थान्-- अभिधेयान् क्षरति संशब्दयतीति निरुक्तिविधिना र्थकारलोपादक्षरम् । अथवा, भीयत इति क्षरं, न क्षरमक्षरम्, अन्यान्यवर्णसंयोगेऽनन्तानर्थान् प्रतिपादयति, न च स्वयं क्षीयते येन, तेनाऽक्षरमिति भावः ॥ ४६१ ॥ संक्षेपेण स्वरव्यञ्जनशब्दार्थो दर्शितः। अथ विशेषतस्तमुपदर्शयति
सुद्धा वि सरंति सयं सारंति य वंजणाइं जं तेणं । होंत सरा न कयाइ वि तेहिं विणा वंजणं सरइ ॥४६२॥ ....... वजिज्जइ जेणत्यो घडो व्व दीवेण वंजणं तो तं । अत्थं पायेण सरा वंजंति न केवला जेणं ॥४६३॥ .
शुद्धाः केवला व्यञ्जनरहिता अप्यकारादयः स्वराः स्वयमेवै स्वरन्ति शब्दयन्ति विष्णुप्रमुख वस्तु, व्यञ्जनानि चैते संयुक्ताः सन्तः खरयन्ति उच्चारणयोग्यानि कुर्वन्ति यतः, तेन कारणेन स्वरा भवन्त्येते । न हि कापि तैः स्वविना व्यञ्जनस्य स्वरणमर्थप्रतिपादन दृश्यते । नापि परगमने पिण्डीभूतानि व्यञ्जनानि स्वरैविनोच्चारयितुं शक्यन्ते, अतो व्यञ्जनस्वरणादयेते स्वरा उच्यन्त इति भावः। व्यज्यते प्रकटीक्रियते प्रदीपेनेव घटादिरर्थोऽनेनेति कृत्वा व्यञ्जनमभिधीयते, व्यञ्जनसाहाय्यविरहिता यतः केवलाः स्वराः प्रायो न कदाचिद् बाह्यमर्थ व्यञ्जयन्ति, अपनीतव्यञ्जनं हि वाक्यं न विवक्षितार्थप्रतिपादनायाऽलं दृश्यते, यथा 'सम्यग्दर्शन-ज्ञान-चारित्राणि इत्यत्र वाक्ये व्यञ्जनापगमे एते स्वराः समवतिष्ठन्ते- 'अ-अ-अ-अ-अ-आ-अ-आ-इ-आ-ई'। न चैते विवक्षितमर्थ प्रतिपादयितुं समर्थाः । अकारे-कारादयः केवला अपि विष्णु-मन्मथादिकमर्थं प्रतिपादयन्तीति पायोग्रहणम् ।
अत्राह- नवकारादयो विष्णुप्रभृतीनां संज्ञा एव । एवं च सति यथा केवलेन स्वरेण संज्ञा, तथा संकेतवशात् केवलेन व्यअनेनाप्यसो भविष्यति, तत्कथं पूर्वगाथायामुक्तम्- 'न कयावि तेहिं विणा वंजणं सरइ' इति । सत्यम्, तत्राऽयमभिप्राय:स्वरैः केवलैरपि काचित् कचित् संज्ञा दृश्यते, व्यञ्जनैस्तु सर्वथा तद्रहितैर्न काचित् संज्ञा वीक्ष्यत इति ॥ ४६२ ॥ ४६३ ।। १.ख.ग. 'तो वि'। २ शुद्धा अपि स्वरन्ति स्वयं स्वरयन्ति च व्यजनानि यत् तेन । भवन्ति स्वरा न कदाचिदपि सैविना व्यञ्जनं स्वरति ॥ ४६॥
व्यज्यते येनार्थो घट इव दीपेन व्यञ्जनं सतस्सत् । अर्थ प्रायेण स्वरा व्यञ्जन्ति न केवला येन ॥ ४६॥ क.ख.ग. 'वसर। तदेवमक्षरं वर्ण इति पर्यायौ सामान्यवर्णवाचको, स्वरो ध्यानमित्येतौ तु प्रत्येक वर्णविशेषवाचकाविति । तत्र रूढिवशादतर वर्ण इत्युक्तम् । तच्च त्रिविधं भवतीति दर्शयति
त सण्णा-वंजण-लडिसण्णियं तिबिहमक्खरं, तत्थ । सुबहुलिविभेयनिययं सण्णक्खरमक्खरागारो ॥४६४॥
तदक्षरं त्रिविधं भवति, तद्यथा- संज्ञाक्षर, व्यञ्जनाक्षरं, लब्ध्यक्षरं चेति । तत्र सुबहयो या एता अष्टादश लिपयः शास्त्रेषु श्रूयन्ते, तद्यथा
"हंसलिवी भूयलिवी जक्खी तह रक्खसी य बोधव्वा । उड्डी जवाणि तुरुक्की कोरी दबिडी य सिंघवीया ॥१॥ .
मालविणी नडि नागरी लाडलिवी पारसी य बोधव्वा । तह अनिमित्ती य लिवी चाणकी मूलदेवी व ॥२॥" तद्भेदनियतमेतद्भेदसंबद्धसंज्ञाक्षरमक्षराकाररूपं, तच्च लिपिभेदादेवाऽनेकपकारं, यथा कमिश्चिल्लिपिविशेषेऽर्धचन्द्राकतिष्टकारः धेटाकृतिष्ठकार इत्यादि ॥४६४॥ ... अथ व्यञ्जनाक्षरमाह..... जिजइ जेणत्थो घडो ब्व दीवेण वंजणं तो तं । भण्णइ भासिजंतं सव्वकाराइ तक्कालं ॥ ४६५ ॥
व्यज्यतेऽनेनाऽर्थः प्रदीपेनेव घट इति, अतस्तद् व्यञ्जन भण्यते, व्यञ्जनं च ददक्षरं च व्यञ्जनाक्षरं, तचेह सर्वमेव भाष्य णयकारादि हकारान्तम् । तस्या भाषायाः कालो यत्र तत् तत्कालं वेदितव्यं, भाष्यमाण: शब्दो व्यञ्जनाक्षरमिति हृदयम्, अयों भिव्यञ्जकत्वाच्छब्दस्येति ॥ ४६५ ॥
अथ लब्ध्यक्षरमाह
जो अक्खरोवलंभो सा लद्धी, तं च होइ विण्णाणं । इंदिय-मणोनिमित्तं जो यावरणक्खओवसमो ॥१६॥
-
..सत् संज्ञा-ध्यान-लब्धिसंशितं त्रिविधमक्षरं, तत्र । सुबहुलिपिभेदनियतं संज्ञाक्षदमक्षराकारः॥ १६॥
हंसलिपिभूतलिपिर्याक्षी तथा राक्षसी च बोद्धव्यां । भट्टी यवनी तुरुष्की कीरी द्राविडी च सिन्धवीया In
मालविनी नटी नागरी लाटलिपिः पारसी च बोव्या। सथाऽनिमित्ती च लिपिश्चाणाकी मौलदेवी च ॥२॥३.छ. 'रई।४क. 'घद्याकृ' र 'प्रथा' ५व्यज्यसे थेनाऽयों घट इव दीपेन व्यञ्जनं ततस्तत् । भण्यते भाष्यमाणं सर्वमकारादि सस्कालम् ॥ ४६५॥ . कारइ-1 वोऽधारोपलम्भा सा सब्धिः, सब भवति विज्ञानम् । इन्द्रिय-मनोनिमित्तं यथावरणक्षयोपशमः ॥ ४६९ ॥
For Private and Personal Use Only