________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
127 विशेषा०
अक्षरादीनि सप्त द्वारापनक्षरादिप्रतिपक्षसहितानि चतुर्दश भवन्ति ॥ ॥ ४५४ ॥ तत्रायद्वारं व्याचिख्यासुराह
ने क्खरइ अणुवओगे वि अक्खरं सो य चेयणाभावो । अविसुद्धनयाण मयं सुद्धनयाण क्खरं चैव ॥४५५॥
'क्षर संचलने ' न परति न चलति- अनुपयोगेऽपि न पच्यवत इत्यक्षरं, स च चेतनाभावो जीवस्य ज्ञानपरिणाम इत्यर्थः । एतच्च नैगमादीनामविशुद्धनयानां मतम् । शुद्धानां तु ऋजुसूत्रादीनां ज्ञानं क्षरमेव, न त्वक्षरमिति ॥ ४५५ ॥ ... . कुतः, इत्याह
उवओगे वि य नाणं सुद्धा इच्छंति जं न तव्विरहे । उप्पाय-भंगुरा वा जं तेसिं सव्वपज्जाया ॥४५६॥ .
यद् यस्माच्छुद्धनया उपयोग एव सति ज्ञानमिच्छन्ति, नानुपयोगे, घटादेरपि ज्ञानवश्वप्रसङ्गात् । अथवा, यद् यस्मात् तेषां शदनयानां सर्वेऽपि मृदादिपर्याया घटादयो भावा उत्पाद-भरा उत्पत्तिमन्तो विनश्वराश्चेत्यर्थः, न पुनः केचिद् नित्यत्वादक्षरा इति भावः। अतो ज्ञानमप्युत्पाद-भङ्गरत्वेन क्षरमेवेति प्रकृतम् । अशुद्धनयानां तु सर्वभावानामप्यवस्थितत्वाज्ज्ञानमप्यक्षरमिति ॥ ४५६॥
एवं तावदभिलापहेतोर्विज्ञानस्याऽक्षरता, अनक्षरता चोक्ता, इदानीं सामिलापविज्ञानविषयभूतानामाभलाप्यार्थानामप्यक्षरानक्षरते नयविभागेनाह
अभिलप्पा वि य अत्था सव्वे दवट्ठियाए जं निच्चा । पज्जायेणानिच्चा तेण क्खरा अक्खरा चेव ॥ ४५७ ॥
अभिलप्या अप्यर्था घट-व्योमादयः सर्वेऽपि द्रव्यास्तिकनयाभिप्रायेण नित्यत्वादक्षराः, पर्यायास्तिकनयाभिप्रायेण त्वनित्यत्वात् क्षरा एवेति ॥४५७ ॥ - अथ परोऽतिव्याप्तिमुद्भावयन्नाह
4.00) एवं सव्वं चिय नाणमक्खरं जमविसेसियं सुत्ते । अविसुद्धनयमएणं को सुयनाणे पइविसेसो ? ॥ ४५८॥ मक्षरत्यनुपयोगेऽप्यक्षरं स च चेतनाभाव।। अविशुद्धनयानां मतं, शुद्धनयाना क्षरमेव ॥ ५५ ॥ २ उपयोगेऽपि च ज्ञान मुद्धा इच्छन्ति यद्न तद्विरहे । उत्पाव-भरा वा यत् तेषां सर्वपर्यायाः ॥ ४५६॥ ३ अभिलप्या भपि चार्थाः सवै द्रव्यास्तिकेन यद् नित्याः । पर्यायेणाऽनित्यास्तेन क्षरा अक्षरा एव ।। ५५७॥ " एवं सर्वमेव शानमक्षरं यदविशेषितं सूत्रे । अविशुद्धनयमतेन कः श्रुतज्ञाने प्रतिविशेषः ॥४५॥
यदि न क्षरतीत्यक्षरमुच्यते, एवं सति सर्व पञ्चप्रकारमपि ज्ञानमविशुद्धनयमतेनाऽक्षरमेव, सर्वस्याऽपि ज्ञानस्य स्वरूपाविचलनात् । यतश्चाविशेषितं सूत्रेऽप्यभिहितमित्युपस्कारः, तद्यथा- "सब्यजीवाणं पिय णं अक्खरस्स अर्णतभागो निच्चुग्घाडियओ" इति । तत्र बक्षरशब्देनाऽविशेपितमेव ज्ञानमभिप्रेतम् , न पुनः श्रुतज्ञानमेव । अपरं च, सर्वेऽपि भावा अविशुद्धनयाभिप्रायेणाक्षरा एव, ततोऽत्र श्रुतज्ञाने का प्रतिविशेषः, येनोच्यते- 'अक्षरश्रुतम् , अनक्षरश्रुतम्' इति १ ॥ ४५८ ॥
अत्रोत्तरमाह
जैइ विहुसव्वं चिय नाणमक्खरं तह विरूढिओ वन्नो।भण्णइ अक्खरमिहरान खरइ सव्वं सभावाओ॥४५९॥ . यद्यप्यविशुद्धनयाभिप्रायेण सर्वमपि ज्ञानमक्षरं, तथा सर्वेऽपि भावा अक्षरास्तथापि रूढिवशाद् वर्ण एवेहाऽक्षरं भण्यते, इतरथा तु यथा त्वं भणसि, तथैवाऽशुद्धनयमतेन सर्वमपि वस्तु स्वभावाद्न क्षरत्येवेति । इदमुक्तं भवति- यथा गच्छतीति गौः, पङ्के जातं पङ्कजं, इत्याधविशिष्टार्थप्रतिपादका अपि शब्दा रूढिवशाद् विशेष एव वर्तन्ते, तथाऽत्राप्यक्षरशब्दो वर्ण एव वर्तते । वर्णश्च श्रुतमेवेति, अतस्तदेवाक्षरा-ऽनक्षररूपमुच्यत इति ॥ ४५९ ॥
अथास्य श्रुतरूपस्य वर्णस्य निरुक्तमाह* वैण्णिजइ जेणत्थो चित्तं वण्णेण वाऽहवा दव्वं । वणिजइ दाइजइ भण्णइ तेणक्खरं वण्णो ॥ ४६० ॥
वर्ण्यते प्रकाश्यतेऽर्थोऽनेनेति वर्णोऽकार-ककारादिः । येन यया किम् ?, इत्याह- 'चित्तं वण्णेण व त्ति' यथा चित्र भिक्याघालेख्य वर्णेन कृष्ण-नीलादिवर्णकेन प्रकाश्यते । 'अहवा दव्वं वणिजईत्यादि' अथवा यथा द्रव्यं गवादिकं वर्णेन श्वेतादिगुणेन दर्यते, एवं येन द्रव्यं वर्ण्यते दयतेऽभिलप्यतेऽसौ वर्णोऽक्षरमुच्यत इति ॥ ४६०॥ . पूर्णश्च खर-व्यञ्जनभेदेन द्विधा भवति, अतः स्वर-व्यञ्जनशब्दयोरप्यर्थमाहअक्खरसरणेण सरा वंजणमवि वंजणेण अत्थस्स। अत्थे य खरइ न य जेण खिज्जइ अक्खरं तेणं ॥ ४६१॥
, सर्वजीवानामपि चाक्षरस्याऽनन्तभामो नित्योद्घाटितः। २ यद्यपि खलु सर्वमेव ज्ञानमक्षरं तथापि रूढितो वर्णः । भण्यतेऽक्षरमितरथा न क्षरति सर्व स्वभावात् ॥ ४५५॥ ३ वर्यते येनाऽर्थचिन्न वर्णेन वाऽथवा द्रश्यम् । वर्ण्यते, दश्यते भण्यते तेनाऽक्षरं वर्णः ॥ ४६॥ " अक्षरस्वरणेन स्वरा व्यञ्जनमपि व्यञ्जनेताऽर्थस्य । अर्थे च क्षरति न व येन श्रीयतेऽक्षरं तेन ॥ १०॥
For Private and Personal Use Only