________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
124
विशेषा०
अथाऽन्तरद्वारमाश्रित्याह
ऐगस्स जहन्नेणं अंतरमन्तोमुहुत्तमुक्कोसं । पोग्गलपरिअट्टई देखणं दोसबहुलस्स ।। १३७ ।।
इह कश्चिज्जीवा सम्यक्त्वसहित मतिज्ञानमवाप्य प्रतिपत्य चान्तर्मुहूर्त मिथ्यात्वे स्थित्वा यदि पुनरपि सम्यक्त्वसहितं तदेव पामोति, तदेतद् मतिज्ञानस्य जघन्यमन्तर्मुहूर्तमन्तरं प्राप्तिविरहकालरूपं भवति। शातनादिदोपबहुलस्य तु जीवस्य सम्यक्त्वात् मतिपतितस्य देशोनपुद्गलपरावर्ताधरूपमुत्कृष्टमन्तरं भवति, एतावता कालेन पुनरपि सम्यक्त्वा-ऽऽभिनियोधिकलाभात् । इत्येकजीवस्योक्तमन्तरम् ॥ ४३७ ।।
अथ नानाजीवानां तदभिधित्सुः, भागद्वारं च बिभणिषुराह
जैमसुन्नं तेहिं तओ नाणाजीवाणमन्तरं नत्थि । मइनाणी सेसाणं जीवाणमणन्तभागम्मि ॥ ४३८ ॥
यद् यस्मात् तैराभिनिवोधिकज्ञानिभिरशून्यं सर्वदैव नारकादिगतिचतुष्टयान्वितं त्रिभुवनमिदम्, ततस्तस्मात् नानाजीवानाश्रित्य नास्ति मतिज्ञानस्याऽन्तरकालः । तथा, मतिज्ञानिनः शेषज्ञानवतां जीवानामनन्ततमे भागे वर्तन्ते, शेषज्ञानिनो हि केवलिसहितत्वादनन्ताः, आभिनिबोधिकज्ञानिनस्तु सर्वलोकेऽप्यसंख्याता एवेति भावः ।। इति गाथाद्वयार्थः ॥ ४३८॥
अथ भावद्वारम् , अल्प-बहुत्वद्वारं चाभिधित्सुराह
भावे खओवसमिए मइनाणं नत्थि सेसमावेसु । थोवा मइनाणविऊ सेसा जीवा अणंतगुणा ॥ १३९ ।।
मतिज्ञानावरणे हि कर्मण्युदीर्णे क्षीणे, अनुदीर्णे तूपशान्ते मतिज्ञानमुपजायते, अतः क्षायोपशमिक एव भावे तत् वर्तते, न तु शेषेष्वौदयिक-क्षायिकादिभावेष्विति । मतिज्ञानेन विदन्तीति मतिज्ञानविदः स्तोकाः, शेपज्ञानयुक्तास्तु सिद्ध-केवल्यादयो जीवा अनन्तगुणा इति ॥ ४३९ ॥
एवमपि तावदल्प-बहुत्वं भवति, केवलमिहैवमुच्यमाने भागा-ऽल्पबहुत्वद्वारयोरर्थतः परमार्थतो न कश्चिद् विशेषो भेदो दर्शितो भवति । तेन तस्यैवाभिनिबोधिकस्य पूर्वप्रतिपन्न-प्रतिपद्यमानकानाश्रित्याऽल्प-बहुत्वं वक्तुमुचितम्, पौनरुक्त्याभावादिति । एतदेवाह
. एकस्य जघन्येनाऽन्तरमन्तर्मुहूर्तमुस्कृष्टम् । पुनलपरावर्ताधं देशोनं दोषबहुलस्य ॥ ३७॥ २ प.छ. 'रियहद्धते दे'। ३५.छ. यदा पु'। ४ यदशून्यं तैस्ततो नानाजीवानामन्तरं मास्ति । मतिज्ञानिमः शेषाणां जीवानामनन्तभागे ॥३८॥
. ५ भावे क्षायोपशमिके मतिज्ञानं नास्ति शेषभावेषु । स्तोका मतिज्ञामविदः शेषा जीवा अनन्तगुणः ॥२९॥ 'नेहत्थओ विसेसो भाग-प्पबहूण तेण तस्सेव । पडिवज्जमाण-पडिवनगाणमप्पा-बहुं जुत् ॥ ४४० ॥ गताथैव ॥ ४४०॥ अथ यदेव युक्तं तदेवाहथोवा पवज्जमाणा असंखगुणिया पवनयजहण्णा । उक्कोसए य पवन्ना होति विसेसाहिया तत्तो ॥४४१॥
आभिनिबोधिकस्य "जहन्नेणं एको वा, दो वा, तिनि वा; उक्कोसेणं असंखेज्जा" इत्येवं प्रतिपद्यमानकाः मोच्यन्ते ते सर्वस्तोकाः । तेभ्यो जघन्यपदवर्तिनः पूर्वपतिपन्नास्तेऽसंख्यातगुणाः, चिरकालसंकलितस्वाद , प्रतिपयमामकानां तु विवक्षितैकसमयमात्रभावादिति । उत्कृष्टपदवर्तिनस्तु पूर्वप्रतिपन्नास्तेभ्योऽपि विशेषाधिका इति ॥ ४४१ ।।
प्रकारान्तरमप्यल्प-बहुत्वे दर्शयति
अह्वा मइनाणीणं सेसयनाणीहिं नाणरहिएहिं । कज्जं सहोभएहि य अहवा गच्चाइभेएण ॥ ४४२ ॥
अथवा मतिज्ञानिनां शेषज्ञानिभिः सहाल्प-बहुत्वं प्रथमं वाच्यम् , यथा- 'मइनाणी सेसाणं जीवाणमर्णतभागम्मि' इति । ततो द्वितीयस्थाने 'नाणरहिएहिं' इति, ज्ञानानि- व्याख्यानादिह मतिज्ञानादन्यानि गृह्यन्ते, तै रहिता वियुक्ताः पूर्वप्रतिपन्न-प्रतिपद्यमानकमतिज्ञानिन एव केवला इत्यर्थः, तैः सहितं मतिज्ञानिनामल्प-बहुत्वं स्वस्थान एव वक्तव्यम्, यथा 'थोवा पवजमाणा असंखगुणिया पवनयजहण्णा' इत्यादि । ततस्तृतीयस्थाने उभयैः शेषज्ञानिभिश्च समुदितैः सहाऽल्प-बहुत्वं तेषां कर्तव्यं, तद्यथा- 'सबथोवा मणपज्जवनाणी, ओहिनाणी असंखेजगुणा, मइनाणी सुयनाणी य दोवि सटाणे तुल्ला मज्झिल्लेहितो विसेसाहिया, केवलनाणी अणंतगुणा'। एवं पूर्वप्रतिपन्न-प्रतिपद्यमानकविभागेनाऽप्यल्प-बहुत्वमिह स्वधियाऽभ्यूबमिति । अथवा गत्यादिभेदेन तत् कार्यम् , यथा-सर्वस्तोका मतिज्ञानिनो मनुष्याः, नारका असंख्यातगुणाः, ततस्तियश्चः, ततो देवा इति । एवं संभवतः सर्वत्र वाच्यमिति ॥ ४४२ ॥
नेहार्यतो विशेषो भागाल्प-बहोस्तेन तस्यैव । प्रतिपयमानक प्रतिपञ्चकानामल्पबहु (स्व) युक्तम् ॥ ४४०॥ २ स्तोकाः प्रपद्यमाना असंख्यगुणिताः प्रपन्नकजघन्याः । उत्कृष्टतम प्रपञ्चा भवन्ति विशेषाधिकासतः॥४॥ ३ जघन्येनको था, द्वौ वा, यो घाउत्कृष्टतोऽसंख्येयाः। * अथवा मतिज्ञानिनां शेषशानिभिज्ञानरहितैः । कार्य सहोमयैश्चाथवा गत्यादिमेदेन ॥ १४॥ ५५.छ. 'वक्तव्यम्। ६ गाथा ४३८ । गाथा ४.। ८ सर्वस्तोका मनःपयर्वज्ञानिना, अवधिज्ञानिनोऽ-संख्येयगुणाः, मतिज्ञानिना शुतज्ञानिनश्च द्वावपि स्वस्थाने तुल्या मध्यमाभ्यो विशेषाधिकाः,केवलज्ञानिमोऽनन्तगुणाः। ९घ.छ. 'विकल्पेना'।
For Private and Personal Use Only