________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
119 विशेषा०
अपि च, __'निच्चकिरियाइदोसा नणु तुल्ला, असइ कट्ठतरगा वा । पुब्वमभूयं च न ते दीसइ किं खरविसाणं पि?॥२१९॥
ननु नित्यकरणादयः सत्कार्यवादे ये दोषाः प्रदत्ताः, तेऽसति कार्येऽसत्कार्यवादेऽपीत्यर्थः, तुल्याः समानाः, तथाहि- अत्रापि शक्यते वक्तुम् यद्यसत् क्रियते, तर्हि क्रियतां नित्यमेव, असत्त्वाविशेषात् , न चैवमेकस्याऽपि कार्यस्व निष्पत्तियुज्यते खरविषाणकल्पे चाऽसति कार्ये समुत्पाघे क्रियावैफल्यमित्यादि । कि तुल्या एवाऽसति कार्येऽमी दोषाः १, न, इत्याह-कष्टतरा वा दुष्परिहार्यतरावा, सतो हि कार्यस्य केनापि पर्यायविशेषेण करणं संभवत्यपि, लोकेऽपि सतामाकाशादीनां पर्यायविशेषाऽऽधानापेक्षया करणस्य रूढत्वात् । तथाच तत्र वक्तारः समुपलभ्यन्ते- 'आकाशं कुरु, पृष्ठं कुरु, पादौ कुरु' इत्यादि। खरविषाणकल्पे वसति कार्य न केनाऽपि प्रकारेण करणं संभवति । ततः कष्टतरास्तत्राऽमी दोषा इति भावः । यदुक्तम्- 'पुन्यमभूयं च दीसए होते' इति, तत्राह- 'पुन्वमित्यादि' उत्पत्तेः पूर्व च यद्यभूतं सर्वथाऽविद्यमान कार्यमुत्पद्यत इतीष्यते, तर्हि ते तब मतेन किं खरविषाणमपि पूर्वमभूतं पश्चादुत्पधमान न दृश्यते, मागसत्वाविशेषात् १ इति ॥ ११९॥
यदुक्तम्- "दीसइ दीहो य जओ किरियाकालो' इति । तत्राह
पैइसमउप्पण्णाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जइ दीसइ किं च कुंभस्स?॥४२०॥
समय समय प्रत्युत्पन्नानां परस्परविलक्षणानां सुबहूनामसंख्येयानां 'मृत्खनन-संहरण-पिटक-रासभपृष्ठारोपणा-ऽवतारणाsभासेचन-परिमर्दन-पिण्डविधान-भ्रमण-चक्रारोपण-शिवक-स्थास-कोश-कुशूलादिकार्याणाम्' इति शेषः, यदि दीर्घा द्राधीयान् क्रियाकालो दृश्यते, तर्हि किमत्र हन्त ! कुम्भस्य घटस्याऽऽयातम् । इदमुक्तं भवति-प्रतिसमयं भिन्ना एवं क्रियाः, मिन्नान्येव च मृत्पिण्डशिवकादीनि कार्याणि, घटस्तु चरमैकक्रियाक्षणमात्रभाव्येव । ततश्च प्रतिसमयभिन्नानामनेककार्याणां यदि दीर्घः क्रियाकालो भवति, तर्हि चरमैकक्रियाक्षणमात्रभाविनि घटे दीक्रियाकालप्रेरणं परस्याऽज्ञतामेव सूचयतीति ॥ ४२०॥ यदुक्तम्- 'नारंभे चिय दीसइ' इत्यादि । तत्राह
नित्यक्रियाविदोषा ननु तुल्या, असति कष्टतरका (रा) का। पूर्वमभूतं च न तव दृश्यते किं खरविषाणमपि ॥ १९॥ . २ असरकार्यवादे।। गाथा ४१६
४ प्रतिसमयोत्पश्चानां परस्परविलक्षणानां सुबहूनाम् । दीर्घः क्रियाकाली यदि दृश्यते किं च कुम्भस्य ! ॥ ४२० ॥ ५ गाथा ४१० । अण्णारंभे अण्णं कह दीसइ, जह घडो पडारंभे ?। सिबकादओ न घडओ किह दीसइ सो तदखाए ? ॥४२१॥ इह 'नारंभे चिय दीसइ' इत्यत्र भवतोऽयमभिप्रायो यदुत-मृचक्र-चीवर-कुम्भकारादिसामग्याः प्रथमेऽपि प्रष्टत्तिसमये घटः किं नोपलभ्यते , अनुपलम्भाचाऽयमसंस्तत्र पश्चादुत्पद्यते । एतच्चायुक्तमेत्र, यतो न प्रथमे प्रारम्भसमये घटः प्रारब्धा, किन्तु चक्रमस्तकमृत्पिण्डारोपणादीन्येवाऽऽरब्धानि । अन्यारम्भे चाऽन्यत् कथं दृश्यते न दृश्यत एवेत्यर्थः, यथा पटारम्भे घटः । यदुक्तम्- 'ने सिवादद्धाए' इति तत्राह- 'सिक्कादओ इत्यादि ' शिवकादिकाले घटो न दृश्यत इत्युक्तम् , तदेतद् युक्तमेव, यतो शिवकादयो घटो न भवन्ति । अतो यत एव शिवकादिकालोऽसौ, अत एव तदद्धायां तत्काले कथमसौ वटो दृश्यताम् ?, अन्यारम्भकालेऽन्यस्य दर्शनानुपपत्तेरिति ॥ ४२१॥
यदुक्तम्- 'दीसइ तदंते' तत्राह__अन्ति च्चिय आरद्धो जइ दीसइ तम्मि चेव को दोसो ?। अकयं व संपइ गए किह कीरइ, किह व एसम्मि॥४२२॥
अन्त्य एव क्रियाक्षण आरब्धो घटो यदि तस्मिन्नेव दृश्यते, तर्हि को दोषः - न कश्चिदित्यर्थः । अतः किमुच्यते- 'यतोऽन्त्य समय एवोपलभ्यते, नाऽन्यत्र, ततोऽयं पूर्वस्मिन्नेव क्रियत इति । स हि पूर्व प्रथमादिक्रियाक्षणेषु नारब्धः, न च दृश्यते, अन्त्ये तु क्रियाक्षणे प्रारब्धः, दृश्यते च । स च तस्मिन् क्रियासमये क्रियमाणः कृत एव, समयस्य निरंशत्वात् । यच्च कृतं तद सदेव । ततः सदेव क्रियते नासत, यच्च सत तदुपलभ्यत एवेति स्थितम् ।
अथ यस्मिन् समये क्रियमाणं तस्मिन्नेव कृतं नेष्यते, तत्राह- 'अकयं वेत्यादि' अकृतं वा संपतिसमये क्रियमाणसम यदीप्यते, तर्हि तद्गतेऽतीते समये कयं क्रियता, तस्य विनष्टत्वेनाऽसत्त्वात् । कथं वा एष्यति भविष्यत्सनन्तरागामिनि समये क्रियताम् तस्याऽप्यनुत्पन्नत्वेनाऽसत्त्वादेव'। ... अथ व्यवहारवादी ब्रूयात-क्रियासमय: सर्वोऽपि क्रियमाणकालः । तत्र च क्रियमाणं वस्तु नास्त्येव । उपरतायां तु क्रियायां योऽनन्तरसमयः स कृनकालः, तत्रैव कार्यनिष्पत्तेः । अतः कृतमेव कृतमुच्यते, न क्रियमाणमिति । साध्वेतत्, किन्त्विदं प्रष्टव्योऽसि-कि भवतः क्रियया कार्य क्रियते, अक्रियया वा? | यदि क्रियया, तर्हि कथमियमन्यत्र, कार्य त्वन्यत्रेति । न हि 'खदिरेच्छेदनक्रिया,
, अन्यारम्भेऽन्यत् कथं श्यते यथा घटः पटारम्भे शिवकादयो न घटकः कथं दृश्यते स तदद्धायाम् ॥ १२॥ २ गाथा ॥ ३ क. "पि ।। अन्त्य एवारब्धी यदि दृश्यते तस्मिक्षेव, को दोषः । अकृतं वा संप्रति गते कथं क्रियते, कथं वैष्यति ॥४२२॥ ५ घ.छ. 'ततः।
For Private and Personal Use Only