________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__118 विशेषा० प्रशस्ते तु लेश्यात्रये पञ्चेन्द्रियवदेव ।
सम्यक्त्वद्वारे निश्चय-व्यवहारनयाभ्यां विचारः । तत्र व्यवहारनयो मन्यते-मिथ्याष्टिरमानी च सम्यक्त्व-ज्ञानयोः प्रतिपघमानको भवति, न तु सम्यक्त्व-ज्ञानसहितः। निश्चयनयस्तु ब्रूते- सम्यग्दृष्टिानी च सम्यक्त्व-जाने प्रतिपयते, न तु मिथ्यादृष्टिा, 'अज्ञानी च । तथाचाऽऽह भाष्यकार:
सम्मत्त-नाणरहियस्स नाणमुप्पजइ त्ति ववहारो । नेच्छइयनओ भासइ उप्पज्जइ तेहिं सहिअस्स ॥४१॥ पोतनयैव व्याख्याता ॥४१४ ॥ अत्र तावद् व्यवहारो निश्चयस्य षणमाह- .
वैवहारमयं जायं न जायए भावओ कयषडो व्व । अहवा कयं पि कज्जइ कजउ निच्चं न य समत्ती॥४१५॥
यदि हन्त ! 'सम्यग्दृष्टिानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते' इति त्वयाऽभ्युपगम्यते; तर्हि जातमपि तत् सम्यक्त्वं ज्ञानं चाऽसौ पुनरप्युत्पादयतीति सामर्थ्यादापत्रम् । न च जातं विद्यमानं पुनरपि जायते-न केनाऽपि ततः क्रियत इत्यर्थः । कुतः, इत्याह- भावतो विद्यमानत्वात् , पूर्वनिष्पन्नघटवत् । इत्येतद् व्यवहारनयमतम् , असत्कार्यवादित्वात् तस्य । प्रमाणयति चासौ- यद् विद्यमानं तद् न केनचित् क्रियते, यथा पूर्वनिष्पन्नो घटः, विद्यमाने च सम्यग्दृष्टेः सम्यक्त्व-ज्ञाने, अतोन तत्करणमुपपद्यते । अथ कृतमपि क्रियते, तर्हि क्रियतां नित्यमपि, इति क्रियाऽनुपरमप्रसङ्गः, न चैवं सत्येकस्यापि कदापि कार्यस्य परिसमाप्तिः । इति प्रस्तुतस्याऽभिनिबोधिकस्याऽपि प्रतिपत्त्यनवस्थेति ॥ ४१५॥ . . अपि च, यदि कृतमपि क्रियते, तदाऽन्येऽपि दोषाः । के ?, इत्याह
किरियोवेफल्लं चिय पुव्वमभूयं च दीसए होतं । दीसइ दीहो य जओ किरियाकालो घडाईणं ॥४१६॥
यदि 'कृतमपि क्रियते' इत्यभ्युपगम्यते, तर्हि घटादिकार्ये उत्पाघे क्रियायाश्चक्रभ्रमणादिकाया वैफल्यं निरर्थकता ५ नोति, कार्यस्य प्रागेव सत्त्वात् । किञ्च, अध्यक्षविरोधः सत्कार्यवादे, यतः पूर्व मृत्पिण्डावस्थायामभूतमविद्यमानं, पश्चात्तुं कुम्भकारादिव्यापारे
१ सम्यक्त्व-ज्ञानरहितस्य ज्ञानमुत्पद्यत इति व्यवहारः । नैश्वयिकनयो भापते उत्पद्यते ताभ्यां सहितस्य ॥ ४॥ २ अवतरणिकया।
क. 'यदू'। ५ व्यवहारमतं जातं न जायते भावतः कृतघट इव । अथवा कृतमपि क्रियते क्रियतां निखं न च समाप्तिः॥१५॥...
प्रक्रियावैफल्यमेव पूर्वमभूतं च श्यते भवत् । श्यते वीर्षक यतः क्रियाकाको घटादीनाम् ॥ (क. ग. स. 'याइवे पश्चात् घटादिकार्य भवज्जायमानं दृश्यते । अतः कयमुच्यते- 'सदुत्पयते' इति । । यसिबेव समये मारभ्यते तमिमेव निष्पयते, अतो निष्पन्नमेव तत् क्रियते, क्रियाकाल-निष्ठाकालयोरभेदादिति चेत् । नैवम् । कुतः १, इत्याह- 'दीसईत्यादि' दीर्घोऽसंख्येयसामयिको घटादीनामुत्पद्यमानानां क्रियाकालो लगन्नालोक्यते यस्मात, ततो न यस्मिन्नेव समये घटादि प्रारभ्यते तस्मिन्नेव समये निष्पद्यते, मृदानयन-तत्पिण्डविधान-चक्रारोपण-शिवकादिविधानादिचिरकालेनैव तदुत्पत्तेरिति ॥ ४१६ ॥
भवतु दीर्घक्रियाकालः, कार्य त्वारम्भसमयेऽप्युपलभ्यते, इत्याह
नारंभे चिय दीसइ न सिवादडाए, दीसइ तदंते । इय न सवणाइकाले नाणं जुत्तं तदंतम्मि ॥४१७॥
यदि क्रियामथमसमय एव कार्य निष्पद्येत तदा तत् तत्रैवोपलभ्येत । न चाऽऽरम्भसमय एव तद् दृश्यते, नापि शिवकाद्यद्धायां शिवक-स्थास-कोश-कुशूलादिकाले । क तर्हि दृश्यते ?, इत्याह- दृश्यते घटादि कार्य तस्य दीर्घक्रियाकालस्याऽन्तः परिसमाप्तिस्तदन्तस्तस्मिन्निति । तस्मात् क्रियाकालपर्यन्त एव तस्य सत्त्वं युज्यते, न तु पूर्वम् , अनुपलभ्यमानत्वात् । यस्मादेवम् , इत्यतो न गुरुसंनिधाने सिद्धान्तश्रवण-चिन्तने-हनादिक्रियाकाले ज्ञानमाभिनिबोधिकं युक्तम् । किन्तु तस्य श्रवणादिक्रियाकालस्याऽन्तस्तदन्तस्तस्मिन्नेव तद् युक्तम् , तत्रैवोपलभ्यमानत्वादिति प्रस्तुतोपयोगः।
तदेवं न क्रियाकाले कार्यमस्ति, अनुपलभ्यमानत्वात् । किन्तु तनिष्ठाकाल एव तदस्ति, तत्रैवोपलभ्यमानत्वात् । ततो न प्रतिपद्यमानं प्रतिपन्न कार्य, क्रियाकाल एव तस्य प्रतिपद्यमानत्वात् , निष्ठाकाल एव च प्रतिपन्नत्वात् , क्रियाकाल-निष्ठाकालयोश्चाऽत्यन्तं भेदात् । तस्माद् मिथ्यादृष्टिः, भज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते, न सम्यग्दृष्टिः, शानी' च ॥ इति व्यवहारनयः ॥ ४१७॥
अत्र निश्चयनयः प्रतिविधानमाह*निच्छइओ नाऽजायं जाय अभावत्तओ खपुप्फंव । अह च अजायं जायइ,जायउ तो खरविसाणं पि॥४१८॥
निश्चये भवो नैश्चयिको नयः माह-यथा 'जातं न जायते, कृतघटवत्' इति भवताऽसत्कार्यवादिनाऽभिधीयते, तथा षयमपि सत्कायेवादिनोब्रूमः-नाऽजातं जायते, "अचोचि" इतीकारलोपः, नाऽविद्यमानमुत्पद्यत इति प्रतिज्ञा, अभावत्वात- अविद्यमानत्वादिति हेतुः, खपुष्पवदिति दृष्टान्तः । अयमपि विपर्ययवाधामाह- अथाऽजातमपि जायते, जायतां ततः खरविषाणमपि, अभावाविशेषादिति ॥४१८॥
नारम्भ एव दृश्यते न शिषाधद्धाया, श्यते तदन्ते । इति न श्रवणादिकाले ज्ञान युक्तं तवन्तः ॥४१॥ २ क. प. छ. 'नीर। ३ घ. छ. 'अथ नि। नैश्चयिको माज्जातं जायतेऽभावत्वात् खपुष्पमिव । अथ चाऽजातं जायते, जायतां ततः खरविषाणमपि ॥१८॥
For Private and Personal Use Only