________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
117
३०
विशेषा०
शून्यः, न तत्र मतिज्ञानस्य प्रतिपद्यमानकः, नापि पूर्व प्रतिपन्नः संभवतीत्यर्थः “उभयाभावो एगिदिएसु सम्मत्तलद्धीए" इति वचनादिति । कः पुनरेकेन्द्रियजातीयः १, इति चेत् । उच्यते इन्द्रियद्वारे तावदेकेन्द्रिय एव, कायद्वारे पृथिवी-अप- तेजी-वायु-वनस्पतयः, सूक्ष्मद्वारे तु सूक्ष्म इत्यादि । तथा, सम्यग् - मिथ्यादृष्टिरपि सम्यक्त्वद्वारे मतिज्ञानशून्यः । " सम्मा-मिच्छद्दिट्टी णं भंते । किं माणी, अनाणी १ । गोयमा ! नी नाणी, अन्नाणी " इत्यादिवचनादिति । यश्व कापि द्वारे सर्वज्ञः केवली संभवति, सोऽपि तच्छून्य एव तथा - गतिद्वारे सिद्धिगतौ सिद्धः, इन्द्रियद्वारेऽतीन्द्रियः, कायद्वारेऽकायः, योगद्वारेऽयोगः, लेश्याद्वारेऽलेश्या, ज्ञानद्वारे केवलज्ञानी, दर्शनद्वारे केवलदर्शनी; तथा, संयम- परीत-पर्याप्त सूक्ष्म-संज्ञि भव्यद्वारेषु यथासंख्यं नोसंयत-नोपरीत्त-नोपर्याप्त नीसूक्ष्म-नोसंज्ञि- नोभव्या इति । एते सर्वेऽपि सर्वज्ञत्वाद् मतिज्ञानशून्याः, छद्मस्थस्यैव तत्संभवादिति भावः । तथा, परीत्त भव्य चरमद्वारेष्वपरीता - ऽभव्या-चरमा अपि मिथ्यादृष्टित्वाद् मतिज्ञानशून्याः । तदेवमेते सर्वे सर्वदैव मतिज्ञानशून्या, मन्तव्याः, उभयाभावात् ।। इति गाथार्थः ॥ ४११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ गत्यादिद्वारेष्वेव पूर्वप्रतिपन्न - प्रतिपद्यमानकचिन्तां कुर्वन्नाह
"वियला अविसुद्धलेसा मणपज्जवणाणिणो अणाहारा । असण्णी अणगारोवओगिणो पुव्वपडिवन्ना ॥ ४९२ ॥ सेसा पुव्वपवण्णा नियमा पडिवजमाणया भइया । भयणा पुव्वपवण्णा अकसाया ऽवेयया होंति ॥ ४१३ ॥
विकला द्वि-त्रि- चतुरिन्द्रियलक्षणा विकलेन्द्रियाः, तथाऽविशुद्धलेश्या भावलेश्यामङ्गीकृत्य कृष्ण-नील कापोत लेश्याहत्तयः, तथा मनःपर्यायज्ञानिनः, अनाहारकाः, असंज्ञिनः, अनाकारोपयुक्ताः एते सर्वेऽपि मतिज्ञानस्य यदि भवन्ति तदा पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः; तथाहि — इन्द्रियद्वारे केचिद् विकलेन्द्रिया ये सास्वादनसम्यक्त्वेन सह पूर्वभवादागच्छन्ति, तेषां पूर्वप्रतिपत्तिमङ्गीकृत्य स्याद् मतिज्ञानम्, प्रतिपद्यमानकास्त्वस्य विकलेन्द्रियाः सर्वेऽपि न भवन्त्येव, तथाविधविशुद्ध्यभावात् । तथा, लेश्याद्वारेऽविशुद्धलेश्या अपि पूर्वप्रतिपन्नाः केचिद् भवन्ति, न तु प्रतिपद्यमानकाः, विशुद्धभावलेश्यानामेव तत्प्रतिपत्तेः । ज्ञानद्वारे मनःपर्यायज्ञानिनः सर्वेऽपि पूर्वप्रतिपन्ना भवन्त्येव, न तु प्रतिपद्यमानकाः, सम्यक्त्वसहचरितप्राप्तमतिज्ञानस्यैव पश्चादप्रमत्तसंयतावस्थायां मनःपर्यायज्ञानोत्पत्तेः;
१ उभयाभाव एकेन्द्रियेषु सम्यक्त्वलब्धौ । २ . छ. 'ते- एकेन्द्रि' ।
३ घ. छ. 'म्यग्द्वा' |
४ सम्यग् - मिथ्यादृष्टयो भगवन् ! किं ज्ञानिनः, अज्ञानिनः १ । गौतम ! मो ज्ञानिनः, अज्ञांनिनः ।
५ विकला अविशुद्धलेश्या मनःपर्यायज्ञानिनोऽनाहाराः । असंज्ञिनोऽनाकारोपयोगिनः पूर्वप्रतिपन्नाः ॥ ४१२ ॥
शेषाः पूर्वप्रपा नियमात् प्रतिपद्यमानका भाज्याः । भजना पूर्वप्रपन्ना अकषाया अवेदका भवन्ति ॥ ४१३ ॥
सम्यक्त्वसहचरितचारित्रलाभे तु मतिसहचरितं मनःपर्यायज्ञानं नोत्पद्यत एव, अत एव वचनात्, अन्यथाऽवधिज्ञानीव मनः पर्यायज्ञान्यपि निश्चयनयमतेन प्रतिपद्यमानकः स्यादिति । आहारकद्वारे, अनाहारकाः केचिद् देवादयः पूर्वभवाद् गृहीतसम्यक्त्वा मनुष्यादिषूत्पद्यमाना मतेः पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, तथाविधविशुद्धयभावात् । संज्ञाद्वारे, असंज्ञिनो विकलेन्द्रियवद् भावनीयाः । उपयोगद्वारे, अनाकारोपयोगिनः केचित् पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात्, तदुत्पत्तेश्चाऽनाकारोपयोगे प्रतिषिद्धत्वादिति ।
उक्तशेषास्तु- गतिद्वारे नारकादयः, इन्द्रियद्वारे तु पश्चेन्द्रियाः, कायद्वारे तु त्रसकायिकाः, इत्येवमादयो जातिमपेक्ष्य पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीयाः कदाचिद् भवन्ति, कदाचिद् नेति । अतिव्याप्तिनिषेधार्थमाह-- 'भयणा पुव्वपवत्रा इत्यादि' कषायद्वारेऽकषायाः, वेदद्वारे त्ववेदका भजनया पूर्वप्रतिपन्नयैव भवन्ति, छन्नस्थाः पूर्वप्रतिपन्ना मतेर्भवन्ति, न तु केवलिनः, प्रतिपद्यमानकास्त्वमी न भवन्त्येव, पूर्वप्रतिपन्नमतिज्ञानानामेव क्षपकोपशमश्रेणिप्रतिपत्तेः ॥ इति गाथाद्वयार्थः ॥ ४१२ ॥ ४१३ ॥
तदेवं संक्षेपतो गत्यादिद्वारेषु भाष्यकृता मतिज्ञानस्य कृता सत्पदप्ररूपणा । अथ विनेयानुग्रहार्थं किञ्चिद् विस्तरतोऽप्यसौ विधीयते - तत्र मतिज्ञानं किमस्ति न वा १ । यद्यस्ति, कं तत् १ । गत्यादिस्थानेषु । तत्र नारक- तिर्यग् नरा-मरभेदाद् गतिश्चतुर्षा । तत्र चतुर्विधायामपि गतौ मतिज्ञानस्य पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भाज्या:-- विवक्षितकाले कदाचिद् भवन्ति, कदाचित्तु नेत्यर्थः । आभिनिवोधिकप्रतिपत्तिप्रथमसमये प्रतिपद्यमानका उच्यन्ते, द्वितीयादिसमयेषु तु पूर्वप्रतिपन्ना इत्यनयोर्विशेषः । इन्द्रियद्वारे — एकेन्द्रियेषूभयाभावः सैद्धान्तिकमतेन । कार्मिकग्रन्थिकास्तु - लब्धिपर्याप्तबादरपृथिवी-अब-वनस्पतीन् करणापर्यासान् पूर्वप्रपन्नानिच्छन्ति, सास्वादनस्य तेषूत्पत्तेः । विकलेन्द्रियास्तूभयमतेनाऽपि करणापर्याप्ताः सास्वादनमेव पूर्वभवायातमङ्गीकृत्य पूर्वप्रतिपन्ना लभ्यन्ते, न तु प्रतिपद्यमानकाः, पञ्चेन्द्रियास्तु सामान्येन पूर्वप्रतिपना नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीयाः ।
कायद्वारे — पृथिवी अप्-तेजो- वायु-वनस्पति- त्रसकायभेदात् षोढा कायः । तत्राऽऽद्यकायपञ्चके उभयाभावः । त्रसकाये तु पञ्चेन्द्रियवद् वाच्यम् | योगद्वारे - काय वाङ्-मनोभेदात् त्रिधा योगः, स एष त्रिविधोऽपि समुदितो येषामस्ति तेषां पञ्चेन्द्रियवद् वाच्यम्, मनोरहितवाग्योगिनां विकलेन्द्रियवत्, केवलकाययोगिनां त्वेकेन्द्रियवदिति । वेदद्वारे - स्त्री-पुं- नपुंसकभेदात् त्रिविधेऽपि वेदे पञ्चेन्द्रियवद् भावनीयम् । कषायद्वारे तु चतुर्ष्वनन्तानुबन्धिषु सास्वादनमङ्गीकृत्य पूर्वप्रतिपन्नो लभ्यते, न प्रतिपद्यमानकः शेषेषु द्वादशसु कषायेषु पञ्चेन्द्रियवदेव । लेश्याद्वारे - भावलेश्यामङ्गीकृत्य कृष्णादिकासु तिसृष्वप्रशस्तलेश्यासु पूर्वप्रतिपन्नाः संभवन्ति, न त्वितरेः
-१ क. 'त्र' ।
For Private and Personal Use Only