________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
115.
। विशेषा०
याम्। अविशिष्टम् , अविशिष्टतरं चेहा-ऽवग्रहयो, अर्थधारणमप्यवग्रहे-हा-पायेभ्यः सर्वप्रकृष्ट धारणायाम् , इत्येवमवग्रहणादिमात्रे | सर्वेषां सामान्ये सत्यप्यर्थविशेष ग्राह्यमाश्रित्य भिन्ना एवावग्रहादयः । स चाऽर्थविशेषोऽमीषां प्रायः माग विस्तरेण दर्शित एव, इत्येवं वोत्तरार्धमिदं व्याख्यायते । इदमेव च व्याख्यानं वृद्धसंमतं लक्ष्यते, युक्तथा तु प्राक्तनमपि घटते । इत्यलं विस्तरेणेति ।। ३९९ ॥
कथं पुनरवग्रहादिवचनेन सर्वमप्याभिनिबोधिकं संगृह्यते ?, इत्याह
उग्गहणमोग्गहो त्ति य अविसिहमवग्गहो तयं सव्वं । ईहा जं मइचेट्ठा मइवावारो तयं सव्वं ॥४०॥
अवग्रहणं तावदवग्रह उच्यत इति कृत्वाऽविशिष्टं तत् सर्वमपीहादिभेदभिन्नमाभिनिवोधिकज्ञानमवग्रह एव । इदमुक्तं भवतिअवग्रहणमवग्रह इति व्युत्पत्तिमाश्रित्य सर्वमप्याभिनिबोधिकज्ञानमवग्रहो भवति, यथा झवग्रहः कमप्यर्थमवगृह्णाति, एबमीहाऽपि कमप्यर्थमवगृह्णात्येव, एवमपाय-धारणे अपि। इति सर्वमप्याभिनिवोधिकज्ञानं सामान्येनावग्रहः । तथा यद् यस्मात् 'ईह चेष्टायाम्, ईहनमीहा' इति व्युत्पत्तेरीहाऽपि मतेचेष्टा मतिचेष्टा वर्तते, तस्मात् सर्वमपि तदाभिनिषोधिकमविशिष्ट मतिव्यापार ईहेत्यर्थः, अवग्रहा-पायधारणानामपि सामान्येन मतिचेष्टारूपत्वादिति भावः ।। ४००॥
तथा
अवगमणमवाउ त्ति य अत्थावगमो तयं हवइ सव्वं । धरणं च धारण त्ति यतं सव्वं धरणमत्थस्स ॥ ४.१॥
यतश्चावगमनमवायो भण्यते, अतोऽनया व्युत्पत्या सर्वमपि तदाभिनिबोधिकमर्थस्याऽवायः, अवग्रहे-हा-धारणास्वपि सामान्येनार्यावगमस्य विद्यमानत्वात् । तथा, धरणं धारणा यतो भण्यते, अतोऽनया व्युत्पत्त्या तत् सर्वमप्याभिनिवोधिकमर्थधरणरूपत्वा धारणा, अवग्रहे हा आयेष्वप्यविशिष्टस्याऽर्थधरणस्य विद्यमानत्वादिति । संकरमाप्तिश्चैवमवग्रहादीनां प्राक् 'केवलमत्थविसेसं पई' इत्यादिना परिहतैव ।। इति गाथापचकार्थः॥४०१॥
तदेवं तत्त्व-भेद-पर्यायैराभिनिवोधिकज्ञानं व्याख्याय सांप्रतं तद्विषयनिरूपणार्थमाहतं पुण चउव्विह नेयमेयओ तेण जं तदुवउत्तो । आदेसेणं सर्व दवाइचउब्विहं मुणइ ॥ १.२॥
, अवग्रहणमवग्रह इति चाविशिष्टमवग्रहस्तत् सर्वम् । ईहा यद् मतिचेष्टा मतिव्यापारस्तत् सर्वम् ॥ १०॥ २ अवगमनमवाय इति चार्थावगमस्तद् भवति सर्वम् । धरणं च धारणेति च तत् सर्व धरणमर्थस्य ॥१०॥ गाथा ३९९।
. तत् पुनश्चतुर्विधं शेयभेदतस्तेन यत् तदुपयुक्तः । आदेशेन सबै द्रव्यादिश्चतुर्विधं जानाति ॥१०॥ तत् पुनराभिनिबोधिकज्ञानं चतुर्विध चतुर्भेदम् । नन्ववग्रहादिभेदेन भेदकयनं मागस्य कृतमेव, किमिह पुनरपि भेदोपन्यासः । सत्यम् , ज्ञेयमेवेह द्रव्यादिभेदेन चतुर्भेद, ज्ञानस्य तु तद्भेदादेव भेदोत्राभिधीयते, सूत्रे तथैवोक्तत्वात् । तथा च नन्दिसूत्रम्-तं समासओ चउन्विहं पण्णत्तं तं जहा-दनओ, खेत्तओ, कालओ, भावओ। तत्थ दवओ णं आभिणिबोहियनाणी आदेसेणं सम्बदम्बाई जाणइ, न पासई" इत्यादि । ज्ञेयभेदादपि तत् कथं चतुर्विधम् , इत्याह- 'जं तदुवउत्तो इत्यादि' यद् यस्मात् कारणात् तेनाऽऽभिनिबोधिकज्ञानेन सर्व द्रव्यादि मुणति इति संबन्धः । कथंभूतम् , इत्याह- चतुर्विध चतुर्भेदं द्रव्य-क्षेत्र-काल-भावभेदभिन्नमित्यर्थः । कथंभूतः सन् मुणति ?, इत्याह- तस्मिन्नाभिनिवोधिकज्ञाने उपयुक्तस्तदुपयुक्तः । केन ?, इत्याह- आदेशेनेति ॥ ४०२॥ ...
कोऽयमादेशः, इत्याह
आएसो त्ति पगारो ओहादेसेण सव्वदव्वाइं । धम्मत्थिआइयाइं जाणइ न उ सव्वभेएण ॥ ४०३ ॥
इहाऽऽदेशो नाम ज्ञातव्यवस्तुपकारः। स च द्विविधः- सामान्यप्रकारः, विशेषप्रकारश्च । तत्रौघादेशेन सामान्यमकारेण द्रव्यसामान्येनेत्यर्थः, सर्वव्याणि धर्मास्तिकायादीनि जानाति-- 'असंख्येयप्रदेशात्मको लोकव्यापकोऽमूर्तः पाणिनां पुद्गलानां च गत्युपष्टम्भहेतुर्धर्मास्तिकाय' इत्यादिरूपेण कियत्पर्यायविशिष्टानि षडपि द्रव्याणि सामान्येन मतिज्ञानी जानातीत्यर्थः । अनभिमतप्रकारप्रतिषेधमाहन तु सर्वभेदेन, न सर्वैविशेष सर्वैरपि पर्यायैः केवलिदृष्टैर्विशिष्टानि द्रव्याण्यसौ जानातीत्यर्थः, केवलज्ञानगम्यत्वादेव सर्वपर्यायाणामिति भावः ॥ ४०३ ।। धर्मास्तिकायादिभेदेन कथितं सामान्येन द्रव्यम् । अथ क्षेत्रादिस्वरूप विशेषतः माह--
खेत्तं लोगा-लोगं कालं सव्वद्धमहव तिविहं ति । पंचोदइयाईए भावे जं नेयमेव इयं ॥ ४०४॥
क्षेत्रमपि लोकालोकस्वरूपं सामान्यादेशेन कियत्पर्यायविशिष्टं सर्वमपि जानाति, न तु विशेषादेशेन सर्वपर्यायैर्विशिष्टमिति । एवं कालमपि सर्वाद्धारूपम् , अतीता-नागत-वर्तमानभेदतस्त्रिविधं वेत्येक एवाऽर्थः । भावतस्तु' सर्वभावानामनन्तभाग जानाति, औदयिको-पशमिक-क्षायिक-क्षायिकौपशमिक-पारिणामिकान वा पञ्च भावान् सामान्येन जानाति, न परतः । कुतः, इत्याह- यद् यस्मा
१ सत् समासतश्चतुर्विधं प्रज्ञप्तम्, तथथा- द्रव्यतः, क्षेत्रतः, कालतः, भावतः । द्रव्यत आभिनिबोधिकज्ञामी आदेशेन सर्वव्याणि जानाति न पश्यति २ आदेश इति प्रकार ओघादेशेन सर्वव्याणि । धर्मास्तिकायादीनि जानाति न तु सर्वभेदेन ॥ ४.३॥ ३ घ.छ. 'सर्वैरपि वि| ४ क. 'नि तानि । ५ क्षेत्रं लोका-लोकं कालं सर्वाद्धाऽथवा त्रिविधमिति । पञ्चादयिकादीन् भावान् यत् ज्ञेयमेवेदम् ॥ ४०४ ॥
For Private and Personal Use Only