________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
114 विशेषा०
ईई चेष्टायाम् , ईहनमीहा- संतामन्वपिना, व्यतिरेकिणां चाऽर्थानां पर्यालोचना । अपोहनमपोहो निश्चयः । विमर्शनं विमर्शः, अपायात् पूर्व ईहायाश्चोत्तरः 'प्रायः शिरकण्ड्यनादयः पुरुषधर्मा इह घठन्ते' इति संप्रत्ययः । तथा, मार्गणमन्वयधर्मान्वेषणं मार्गणा । चशब्दः समुच्चयार्थः। गवेषणं व्यतिरेकधर्मालोचनं गवेषणा। तथा, संझानं संज्ञा, अवग्रहोत्तरकालभावी मतिविशेष एव । स्मरणं स्मृतिः पूर्वानुभूतार्थालम्बनः प्रत्ययः । मनन मतिः कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिः। तथा, प्रज्ञानं प्रज्ञा, विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थितधर्मालोचनरूपा मतिः । सर्वमिदमाभिनिवोधिकम्- कश्चित् किश्चिद् भेददर्शनेऽपि तत्त्वतः सर्व मतिज्ञानमेवेदमित्यर्थः । इति नियुक्तिश्लोकार्थः ॥ ३९६॥
अत्रैतद्व्याख्यानाय भाष्यम्
होइ अपोहोऽवाओ सई धिई सव्वमेव मइ-पण्णा । ईहा सेसा, सव्वं इदमाभिणिबोहियं जाण ॥ ३९७ ॥
अपोहस्तावत् किमुच्यते ?, इत्याह- अपोहो भवत्यपाय:- योऽयमपोहः स मतिज्ञानतृतीयभेदोऽपायो निश्चय उच्यत इत्यर्थः, स्मृतिः पुननिर्धारणोच्यते, धारणाभेदत्वेनावयवे समुदायोपचारादिति । मति-अज्ञे- मतिप्रज्ञाशब्दाभ्यां सर्वमपि मतिज्ञानमुच्यते । 'ईहा सेस त्ति' शेषाभिधानानि त्वीहा-विमर्श-मार्गणा-गवेषणा-संज्ञालक्षणानि सर्वाण्यपि ईहा-ईहान्त वीनि द्रष्टव्यानीत्यर्थः । एवं विशेषतः कथश्चिद् भेदसद्भावेऽपि सामान्यतः सर्वमिदमाभिनिबोधिकज्ञानमेव जानीहि, यत ईहा-पोहादयः सर्वेऽप्यमी आभिनिबाधिकज्ञानस्यैव पयोयाः, केषाश्चिद् वचनपर्यायत्वात् ,केषाश्चित्वर्थपर्यायस्वादिति ॥ ३९७ ॥
एतदेव दर्शयति-इ-पन्ना-भिणिबोहिय-बुद्धीओ होंति वयणपज्जाया ।जा उग्गहाइसण्णा ते सव्वे अत्थपज्जाया ॥ ३९८ ॥ इह ये शब्दाः किल सर्व वस्तु संपूर्ण प्रतिपादयन्ति ते वचनरूपा वस्तुनः पर्याया वचनपर्याया उच्यन्ते । ये तु
ति तेऽर्थंकदेशप्रतिपादकाः पर्याया अर्थपर्याया उच्यन्ते । तत्र मति-प्रज्ञा-ऽऽभिनिबोधिक-बुद्धयो वचनपर्याया भवन्ति-मति-प्रज्ञा-अभिनिबोधिक-बुद्धिलक्षणाश्चत्वारः शब्दा आभिनिबोधिकज्ञानस्य ज्ञानपञ्चकाधभेदलक्षणस्य वचनपर्याया द्रष्टव्या इत्यर्थः, संपूर्णस्याऽपि तस्याऽमीभिः प्रतिपाद्यमानत्वात् । ये त्ववग्रहे-हादिकाः संज्ञाविशेषास्ते सर्वेऽप्यर्थपर्यायाः, तदेकदेशपतिपादक
क.ग.'म्बनप्र। भवस्यपोहोपायः स्मृतिर्धतिः सर्वमेव मति-प्रज्ञे। ईहा शेषाः, सर्वमिदमाभिनियोधिक जानीहि॥३९७॥ ३५.छ, 'यो में।
४ प.छ. 'मेव म'। ५ मति -प्रज्ञा-ऽऽभिनिवोधिक-बुद्धयो भवन्ति वचनपर्यायाः । या अवमहादिसंज्ञास्ते सर्वेऽर्थपर्यायाः ॥ ३९ ॥+ ग्रहान्नर-। स्वात् । ततश्चात्रेहा-पोहादय आभिनिवोधिकज्ञानस्यैवाऽर्थपर्यायाः, मति-प्रज्ञाशब्दौतु तस्यैव वचनपर्यायौ। अतः सर्वमेवेदं सामान्येनाऽऽभिनिबोधिकज्ञानमेवेति स्थितम् । अथवा, सर्वेषामपि वस्तूनामभिलापवाचकाः शब्दा वचनरूपापना वचनपर्यायाः, ये तु तेषामेव वाचकशब्दानामभिधेयार्थस्याऽऽत्मभूता भेदाः, यथा कनकस्य कटक केयूरादयः, ते सर्वेऽप्यर्थपर्याया भण्यन्ते । ततश्च प्रस्तुतस्याऽऽभिनिवोधिकज्ञानस्य मति-प्रज्ञा-ऽवग्रहे-हादयः सर्वेऽपि वाचका ध्वनयो वचनपर्याया एव, तदभिधेयास्त्वाभिनिवोधिकस्याऽऽत्मभूता भेदा अर्थपर्याया इत्यवसेयमिति । इह पूर्व मति-प्रज्ञादिशब्दानां सर्वमप्याभिनिवोधिकज्ञानं वाच्यम्, अवग्रहे-हादिशब्दानां तु तदेकदेशा एवाभिधेया इति दर्शितम् ॥ ३९८॥
अथाऽवग्रहे-हादिभिरपि शब्दैरन्वर्थवशात् सर्वमप्याभिनिवोधिकमभिधीयते, इति दर्शयति
सव्वं वाऽभिणिबोहियमिहो-ग्गहाइवयणेण संगहियं । केवलमत्थविसेसं पइ भिन्ना उग्गहाईया ॥ ३९९ ॥
'वा' इत्यथवा, इह सर्वमाभिनिवोधिकज्ञानमवग्रहे-हादिवचनेन संगृह्यते, न पुनस्तदेकदेश एव । तविग्रहादिशब्दानां सर्वेषामेकरूपता प्राप्नोति, एकाभिधेयत्वात् , बहुपुरुषोच्चारितघटायेकशब्दवत् , इत्याशङ्कयाह- 'केवलमित्यादि ' केवलं नवरमर्थविशेष प्रत्यः वग्रहादयः शब्दा भिन्नाः । इदमुक्तं भवति- अवग्रहशब्दोऽवग्रहलक्षणेनाऽर्थेन सर्वमाभिनिबोधिकं संगृह्णाति, ईहाशब्दस्तु चेष्टालक्षणेन,
धारणा तु धरणलक्षणेनेत्यादि । ततोऽमुमवग्रहणादिलक्षणमर्थविशेषमात्रमपेक्ष्याऽवग्रहादिशब्दा भिन्ना.. तस्त्वभिधेयं सर्वेषामाभिनिबोधिकज्ञानमेव ।
अथवा, आह-नर्नु यदि सर्वमप्याभिनिबोधिकमवग्रहादिवचनेन संगृह्यते, तीवग्रहे-हा-पायधारणानां तद्भेदानां सर्वेषामपि संकरः प्राप्नोति, अनन्तरवक्ष्यमाणव्युत्पत्तितः प्रत्येकमेषां सर्वेषामप्यवग्रहादिरूपत्वात् । इत्याशङ्कयाह- 'केवलमत्थविसेसमित्यादि केवलं नवरमर्थविशेष मत्यवग्रहादयो भिन्नाः । इदमुक्तं भवति- यद्यप्यर्थावग्रहणे-हना-ऽवगमन-धारणमात्रस्य सामान्यस्य प्रत्येक सर्वेष्वपि विद्यमानत्वादेकैकशोऽप्यवग्रहादिशब्दनोच्यन्तेऽवग्रहादयः, तथाऽप्यर्थविशेषमाश्रित्यैते भिन्ना एव; तथाहि- यथाभूतमवग्रहे सामान्यमात्रार्थस्यावग्रहणं, न तथाभूतमेवेहायां, किन्तु विशिष्ट विशिष्टतरं विशिष्टतमं चाऽपाय-धारणयोः यथाभूता चेहायां मतिचेष्शन तथाभूतान्यत्र, किन्तु विशिष्टा, विशिष्टतरा चापाय-धारणयोः, अविशिष्टतरा चाऽवग्रहे। अर्थावगमनमप्यपायाद् विशिष्ट धारणा
। वर्ष वाऽऽभिनियोधिमिहाऽवग्रहादिवचनेन संगृहीतम् । केवलमर्थविशेष प्रति भिक्षा अवमहादयः ॥ ३९९ ॥ २ घ, छ, 'न.स' । ३ प. छ. शेऽव' ।
For Private and Personal Use Only