________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
113
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
दिक्षु मिश्रशब्दश्रवणमुक्तम् । अथव, व्याख्यानतो विशेषप्रतिपत्तेर्यदि तव मतं संमतं- ऊर्ध्वा ऽधोदिग्द्वयवर्तिदण्ड एवं मिश्रशब्दश्रवणं, शेषदिक्ष परा घातवासितद्रव्यश्रवणेऽप्यदोषादिति । भवत्वेवम्, 'तो वि' तथापि त्रिभिः समयैः पूर्यते लोको न चतुर्भिः, यतो भाषाद्रव्येषु पराघातो sस्ति । यदि नाम तेषु पराघातस्ततः किम्. १, इति चेत् । उच्यते स खलु दण्ड ऊर्ध्वा-धो गच्छनविशेषेण चतुर्दिशमपि शब्दप्रायोयद्रव्याणि पराहन्ति, वासयित्वा शब्दपरिणामवन्ति करोति, ततस्तानि द्वितीयसमये मन्थानं साधयन्ति, तृतीयसमये तु तदन्तरालपू रणात् पूर्यते लोक इति । एवं त्रिभिः समयैर्लोकपूरणं मामोति ॥ ३९२ ॥
ननु यथा जैनसमुद्धातचतुर्भिः समयैर्लोकमापूरयति, तथा भाषाऽपि तैस्तमापूरयिष्यति, को दोषः १; इत्याशङ्कयाह
इणे न पराघाओ स जीवजोगो य तेण चउसमओ । हेऊ होजाहिं तहिं इच्छा कम्मं सहावो वा ॥ ३९३ ॥
इह जैनसमुद्धाते जीवप्रदेशाः स्वरूपेणैव लोकमापूरयन्ति, न पुनस्तत्र कस्याऽपि पराघातोऽस्ति । ततो न द्वितीयसमये मन्थाः किन्तु कपाट एव भवति । किश्व, स केवलिसमुद्धातो जीवस्य संबन्धी योगो व्यापारस्तेन लोकव्याप्तिमपेक्ष्याsयं चत्वारः समयाः, यः चतुःसमयो भवति । यदि नाम जीवयोगस्तथापि कथं तस्य चतुःसमयता ?, इत्याह- तत्र तस्मिन् जीवव्यापारलक्षणे केवलिसमुद्धारं द्वितीयसमये मध्यभावे हेतुर्भवेत् । कः ?, इत्याह- 'इच्छेत्यादि' तथाहि तत्रैतच्छक्यते वक्तुम्- केवलज्ञानरूपा येयमिच्छाभिमा यस्तद्वशाद् गुण-दोषौ पर्यालोच्य केवली द्वितीयसमये मन्थानं न करोति । भवोपग्राहि कर्मवशाद् वा, स्वभावाद् वाऽसौ तदा तं : करोति । ततो द्वितीयसमये कपाट एव, तृतीयसमये मन्थाः, चतुर्थे त्वन्तरौलपूरणम्, इति युज्यते जैनसमुद्धाते चतुःसमयता । भाषापुद्ग लानां त्वनुश्रेणि गमनं, पैराघातस्वभावश्च लोकव्याप्तौ हेतुः, तत्र च प्रथमे समये ऊर्ध्वाऽधो दण्डे कृते द्वितीयसमये चतसृष्वपि दिव श्रेणि गमनं संभवत्येव, इति किं ते मन्थानं न साधयन्ति १, पराघातो हि ऊर्ध्वा ऽधोगतदण्डादन्यद्रव्याणां सिद्ध एव, स्वभावतस सर्वत्र सुलभ एव, इत्यशक्यप्रतिषेध एव द्वितीयसमये मथिभावः । ततस्तृतीयसमयेऽन्तरालपूरणात् समस्त लोकपरिपूर्तेखि समयतैवाऽत्र न चतुःसमयतेति ॥ ३९३ ॥
यद्येवम्, अचित्तमहास्कन्धिजीवयोगत्वाभावेऽपि कथं द्वितीयसमये कपाटमात्रस्यैव भावात् प्रज्ञापनादिषु चतुःसमयता प्रोक्ता '
इत्याशङ्कयाह
+च-19 जैने न पराघातः स जीवयोगश्च तेन चतुःसमयः । हेतुर्भवेद सत्रेच्छा कर्म स्वभावो वा ॥ ३९३ ॥ २ध. छ. 'रापू' । ३ छ. 'परोपधा' । ४क.ग. 'श्रमस'
२९
धो विवीससाए न पराघाओ य तेण चउसमओ । अह होज्ज पराघाओ हविज्ज तो सो वि तिसमइओ ॥ ३९ स्कन्धोऽचित्तमहास्कन्धः सोऽपि विस्रसया केवलेन विस्रसापरिणामेन भवति, न तु जीवप्रयोगेण । विस्रसापरिणाम विचित्रत्वाद् न पर्यनुयोगमर्हति । किञ्च, न तत्र पराघातोऽस्ति - नान्यद्रव्याणामात्मपरिणाममसौ जनयतीत्यर्थः, किन्तु स निजपुद्गलै लोकं पूरयति । ततोऽसौ चतुःसमयो भवति । अथ तत्रापि पराघातो भवेत्, ततः सोऽपि त्रिसामयिको भवेत् - त्रिभिरेव समयैर्लोक पूरयेदित्यर्थः, न चैवं, सिद्धान्ते चतुःसमयत्वेन तस्योक्तत्वात् । तस्माद् नास्ति तत्र पराघातः, अत्र त्वस्त्यसौ, इति वैषम्यमिति ॥ ३९
अथाऽनादेश प्रस्तावाद परमपि मतमुपन्यस्य दूषयति
ऐंगादिसमाइसमये दंड काऊण चउहिं पूरेइ । अन्ने भणंति, तं पि य नागम- जुत्तिक्खमं होइ ॥ ३९५
अन्ये केचिद् भाषन्ते - आदिसमये एकदिकं दण्डं कृत्वा चतुर्भिः समयैर्लोकमापूरयति । एतदुक्तं भवति - प्रथमसमये त दूर्ध्वदिशि दण्डं करोति, द्वितीयसमये तत्र मन्थानं, अधोदिशि पुनर्दण्डं तृतीयसमये ऊर्ध्वदिश्यन्तरालपूरणम्, अधोदिशि तु मन करोति चतुर्थसमये तु तत्राऽप्यन्तरालपूरणात् समस्तमपि लोकं भाषाद्रव्यैः पूरयति । तदेतदपि नाऽऽगमक्षमम्, कचिदप्यागम ए श्रवणात् । नापि युक्तिक्षमम् । का ह्यत्र युक्तिः, यदनु श्रेणिगमन स्वभावानां पुद्गलानामेकया दिशा गमनं भवति, नाऽन्यया । वक्र ताल्वादिप्रयत्नप्रेरणमत्र युक्तिरिति चेत् । नैवम् यतो वक्ता कदाचिद् विश्रेष्यभिमुखस्तदभिमुखानपि भाषापुद्गलान् प्रेरयेत्, त विदिश्यपि तेषां गमनप्रसङ्गः । किञ्च, एवं सति पटहादिशब्दपुद्गलानां चतुःसमयाऽनियम एव स्यात्, वक्तुप्रयत्नस्य तेष्वभावा तस्माद् युक्त्या ऽऽगमविरुद्धत्वादुपेक्षणीयमेवेदम् ॥ इति गाथाषोडशकार्यः ॥ ३९५ ॥
तव भेद - पर्यायैर्व्याख्या, तत्र तत्त्वतो भेदतच समसङ्गं निरूपितमाभिनिवोधिकम् । अथ नानादेशज विनेयानुग्रहार्थं तत्पर्यार
भिधित्सुराह -
"ईहा अपोह वीमंसा मग्गणा य गवेसणा । सण्णा सई मई पण्णा सव्वं आभिणिबोहियं ॥ ३९६ ॥
१ स्कन्धोऽपि विवसया न पराधातश्च तेन चतुःसमयः । अथ भवेत् पराघातो भवेत् ततः सोऽपि त्रिसामयिकः ॥ ३९४ ॥
२ एकदिकमादिसमये दण्यं कृत्वा चतुर्भिः पूरयति । अम्ये भणन्ति, सदपि च नाऽऽगम-युक्तिक्षमं भवति ॥ ३९५ ॥ ३ प. 'उहि पू' । ४क.ग.'न्यथा' । ५ क.ग. 'मुखान' । ६ ईहाऽपोहो विमर्शो मार्गणा च गवेषणा । संज्ञा स्मृतिर्मतिः प्रज्ञा सर्वमाभिनियोधिकम् ॥ ३९६ ॥
For Private and Personal Use Only