________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
112
विशेषा० द्वितीयसमययोस्तावद् नियमन सर्वत्र लोकासंख्येयमागे भाषाऽसंख्येयभागलक्षण एव विकल्पः संभवति, नाऽन्यः । त्रिसमयव्याप्तौ हि प्रथमसमये दण्डषद्कं भवति, द्वितीयसमये तु षड् मन्थानः संपद्यन्ते । एते च दण्डादयो दैर्येण यद्यपि लोकान्तस्पर्शिनो भवन्ति, तथापि वक्तृमुखविनिर्गतत्वात् तत्ममाणानुसारतो बाहल्येन चतुरङ्गुलादिमाना एव भवन्ति, चतुरादीनि चाऽजुलानि लोकासंख्येयमागवतन्येव । इति सिद्धस्त्रिसमयन्याप्तौ प्रथम-द्वितीयसमययोर्लोकासंख्येयभागे भाषाऽसंख्येयभागः। चतुःसमयव्यासावप्येतदित्यमवगम्यत एव, प्रथमसमये लोकमध्यमात्र एव प्रवेशात् द्वितीयसमये तु वक्ष्यमाणगत्या दण्डानामेव सद्भावादिति । पश्चसमयव्याप्तिपक्षे तु सुवोधमेव, प्रथमसमये भाषाव्याणां विदिशो दिश्येव गमनात् , द्वितीयसमये तु लोकमध्यमात्र एव प्रवेशात् । तस्मात् च्यादिसमयव्याप्तौ सर्वत्र प्रथम-द्वितीयसमययोर्लोकासंख्येयभागे भाषाया असंख्येयभाग एव भवति । 'भयणा सेसेसु समएसु त्ति' उक्तशेषेषु तुर्ताय-चतुर्थ-पञ्चमसमयेषु भजना विकल्परूपा बोदव्या-कापि लोकासंख्येयभागे स एव भाषाऽसंख्येयभाग (एव भवति) कचित् पुनर्लोकस्य संख्येयभागे भाषासंख्येयभागः, कापि समस्तलोकव्यातिः, तथाहि-त्रिसमयव्याप्तौ तृतीयसमये भाषायाः समस्तलो कव्याप्तिः चतुःसमयव्याप्तितृतीयसमये तु लोकसंख्येयभागे भाषासंख्येयभागः । कथम्, इति चेत् । उच्यते-स्वयम्भूरमणपश्चिमपरतटवर्तिनि लोकान्ते, असनाडीपहिर्वा पश्चिमदिशि स्थित्वा ब्रुवतो भाषकस्य प्रथमसमये चतुरकुलादिबाहल्यो रज्जुदी| दण्डस्तिरथीनं गत्वा स्वयम्भूरमणपूर्वपरतटवर्तिनि लोकान्ते लगति । ततो द्वितीयसमये तस्माद् दण्डादोऽधश्चतुर्दशरज्जूचिठूतः पूर्वापरतस्तिरश्ची रज्जुविस्तृतः पराधातवासितद्रव्याणां दण्डो निर्गच्छति । लोकमध्ये तु दक्षिणतः, उत्तरतश्च पराघातवासितद्रव्याणामेव चतुरनुलादिबाइल्यं रज्जुविस्तीर्णदण्डद्वयं विनिर्गत्य स्वयम्भूरमणदक्षिणोत्तरवर्तिलोकान्तयोर्लगति । एवं च सति चतुरजुलादिबाहल्यं सर्वतोऽपि रज्जुविस्तीर्ण लोकमध्ये वृत्तच्छत्वरं सिद्धं भवति । तृतीयसमये तूर्ध्वाधोव्यवस्थितदण्डाचतुर्दिश प्रमृतः पराघातवासितद्रव्यसमूहो मन्थानं साधयति, लोकमध्यव्यवस्थितसवेतारज्जुविस्तीणेच्छत्वराद्ध्वोधामसूतः पुनः स एवं त्रसनाडी समस्तामपि परयति । एवं वसनाडी ऊधिोव्यवस्थितदण्डमन्थिभावेन तदधिकं च लोकस्य पूरितं भवति । एतच्चैतावत् क्षेत्रं तस्य संख्याततमो भागः। तथा च सति चतुःसामयिक्या व्याप्तेस्तृतीयसमये लोकस्य संख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्याः संख्याततमो भाग इति स्थितम् ॥
पञ्चसामयिक्यास्तु व्यालेस्तृतीयसमये लोकाऽसंख्ययभागे भाषाऽसंख्येयभागः। कुतः १, इति चेत् । उच्यते- तस्यां तस्य दण्डसमयत्वात् , तत्र च संख्येयभागवर्तित्वस्य मागेव भावितत्वादिति । चतुर्थसमये चतुःसामयिक्यां व्याप्ती मैन्यान्तरपूरणात् समस्त+नुसारिणो १ क. 'दिश्येवाग' घ. छ. 'दिशो दिशो। वा ग'। २ घ. 'नर'। ३ घ.छ. 'मभ्यन्तरालपू'। लोकव्याप्तिः । पञ्चसामयिक्या तु व्याप्तौ चतुर्थसमये लोकसंख्येयभागे भाषासंख्येयभागः, तस्यां तस्य मथिसमयत्वात्, तत्र च संख्येयभागवर्तित्वस्य मागेव भावितत्वादिति । पञ्चमसमये तु पञ्चसामयिक्यां व्याप्ती मन्थान्तरालपुरणात समस्तलोकव्याप्तिरिति ॥
एवं तृतीय-चतुर्थ-पश्चमसमयेषु भाविता भजना, तद्भावने च व्याख्यातं 'भयणा सेसेसु समएसु' इति । एतच्च महाप्रयत्नवक्तनिसृष्टद्रव्यापेक्षयैवोक्तम्, मन्दप्रयत्नवक्तृनिसृष्टानि तु लोकासंख्येयभाग एव वर्तन्ते, दण्डादिक्रमेण तेषां लोकपूरणाऽसंभवादिति॥३९०॥ । अथ यदुक्तम्- 'लोगस्स य चरिमंते चरिमंतो होइ भासाए'। तदेतद् भावयन्नाह
आपूरियम्मि लोगे दोण्ह वि लोगस्स तह य भासाए । चरिमंते चरिमन्तो चरिमे समयम्मि सव्वत्थ ॥३९१॥
ज्यादिसमयैरापूरिते लोके द्वयोरपि लोक-भाषयोश्वरमान्ते चरमान्तो भवति । क १, इत्याह- चरमे समये । केषु विषये योऽसौ चरमसमयः १, इत्याह- सर्वत्र सर्वेष्वपि ज्यादिसमयव्याप्तिपक्षेषु । इदमुक्तं भवति- त्रिभिश्चतुर्भिः पञ्चभिश्च समयैर्भाषया पूरिते लोके तेषामेव व्यादीनां लोकापूरकसमयानां यथाखं योऽसौ चरमः समयस्तत्र लोकस्य चरमः पर्यन्तवर्ती अन्तो भवति- भाषायाश्च चरमः पर्यन्तवर्ती अन्तो भवति, व्यादिसमयानां चरमसमये लोके निष्ठां गते भाषाऽपि निष्ठां याति, न पुनः परतोऽप्यलोके गच्छतीति भावः, जीव-पुद्गलानां तत्र गतेरेवाऽभावादिति । इह च विवक्षयाऽऽदिरप्यन्तो भवति, तव्यवच्छेदार्थ चरमग्रहणं चरमः पर्यन्तवर्ती अन्तो न पुनरादिभूत इत्यर्थ इति ॥ ३९१॥
___ तदेवं 'ईहिं समएहिं लोगों' इत्यादिनियुक्तिगाथाद्वयव्याख्यानेन निराकुलीकृत्य 'जैइणसमुग्धायगईए केई भासंति' इत्यादिना यदादेशान्तरमुक्त, सोऽनादेश एव, इति ख्यापनार्थम् । तत्र दूषणमाह
ने समुग्घायगईए मीसयसवणं, मयं च दंडम्मि । जइ तो वि तीहिं पूरइ समएहिं जओ पराघाओ॥३९२॥
'न समुग्यायगईए त्ति' जैनसमुद्धातगत्या भाषया लोकपूरणे इष्यमाणे न पामोति । किम् ?, इत्याह-मिश्रस्य शब्दस्य श्रवणं मिश्रश्रवर्ण 'सर्वासु दिक्षु' इति शेषः । इदमुक्तं भवति- जैनसमुद्धाते ऊर्ध्वा-धोदिग्द्वयगाम्येव प्रथमसमये दण्डो भवति, तद्यदि भाषाद्रव्येष्वप्येवमिष्यते, तर्हि ऊर्जा-धोदिग्द्वय एव मिश्रशब्दश्रवणं प्रामोति, न पूर्व-पश्चिम-दक्षिणोत्तरदिक्षु, तासु विदिक्ष्विव वक्तृनिसृष्टद्रव्याणामगमनेन पराघातवासिततद्व्याणामेव श्रवणादिति अविशेषेण तु भासासमसेढीओ सह जं सुणइ मीसयं सुणई' इत्यनेन
१'मध्यन्तरालपू'। २ गाथा ३७९। ३ आपूरिते लोके द्वयोरपि लोकस्य तथा च भाषायाः । चरमान्ते चरमान्तश्वरमे समये सर्वत्र ॥ ३९॥ ४ गाथा ३७८ ५ न समुद्घातगत्या मिश्रकश्रवणं, मतं च दण्डे । यदि ततोऽपि त्रिभिः पूर्यते समयैर्यतः परापातः॥३९॥ गाथा ३५१ ।
For Private and Personal Use Only