________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
111
विशेषा०
___ 'मयंतरेहिं तईए सभये पुन्नेहिं पूरिओ लोगो । चउहि समएहिं पूरइ लोगंते भासमाणस्स ॥ ३८५ ॥ ___ यतो लोकमध्यस्थितेन महाप्रयत्नभाषण मुक्तानि तानि भाषाद्रव्याणि प्रथमसमय एव पदसु दिक्षु लोकान्तमाप्नुवन्ति, जीव-रक्ष्मपुद्गलानामनुश्रेणि गमनात् । ततो द्वितीयसमये त एव पड् दण्डाश्चतुर्दिशयेकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षड् मन्यानो भवन्ति । तृतीयसमये तु मन्थान्तरैः पूरितैः पूरितो भवति सर्वोऽपि लोकः, स्वयम्भूरमणपरतटवर्तिनि लोकान्तेऽलोकस्यात्यन्तं निकटीभूय भाषमाणस्य भाषकस्य सनाड्या बहिवा चतसृणां दिशामन्यतमस्यां दिशि भाषमाणस्य तस्येति स्वयमपि द्रष्टव्यम् , चतुर्भि: समयैर्लोकः सर्वोऽपि पूर्यत इति ॥ ३८४ ॥ ३८५ ॥
कथम् , इत्याह
दिसि विडियस्स पढमोऽतिगमे ते चेव सेसया तिन्नि । विदिसि ठियस्स समया पंचातिगमम्मि जं दोणि॥३८६॥
प्रसनाड्या बहिश्चतसृणां दिशामन्यतमस्यां दिशि व्यवस्थितस्य भाषकस्य प्रथमः समयोऽतिगमे नाडीमध्यमवेशे भवति । शेषसमयत्रयभावना तु 'होइ असंखेजइमे भागे' इत्यादिवक्ष्यमाणमाथावृत्तौ 'कथमिति च' इत्यादिना पक्ष्यते । लोकान्तेऽपि स्वयंभूरमणपरतवातिनि चतसृणां दिशामन्यतरस्यां दिशि व्यवस्थितस्य भाषकस्यो -ऽधोलोकस्खलितत्वाद भाषाद्रव्याणां प्रथमः समयोऽतिगमे लोकमध्यमवेशे, अयस्तु समयाः शेषास्तथैव । प्रसनाडीवहिर्विदिग्व्यवस्थितस्य तु भाषकस्य भाषाद्रव्यैः सर्वलोकापूरणे पश्च समया लगन्तीति विशेषः। कुतः १, इत्याह- 'अतिगमम्मि जे दोणि ति' विदिशः सकाशाद् भाषाव्याणि लोकनाडीबहिरेव प्रथमे समये दिशि समागच्छन्ति, द्वितीये तु लोकनाडीमध्ये प्रविशन्ति, इत्येवं यस्मादतिगमे नाडीमध्यमवेशे द्वौ समयौ लगतः, शेषास्तु त्रयः समयाश्चतुःसमयव्याप्तिवद् द्रष्टव्याः, इत्येवं पञ्च समयाः, सर्वेऽपि च लोकापूरणे प्राप्यन्त इति ॥ ३८६ ॥
___ननु याक्तन्यायेन त्रिभिः, चतुर्भिः, पञ्चभिश्च समयैर्लोको वाग्द्रव्यैः पूर्यते, तर्हि किमिति निर्धार्य नियुक्तिकृता चतुःसमयग्रहणमेव कृतम् १, इत्याशङ्कयाह- उसमयमज्झगहणे ति-पंचगहणं तुलाइमज्झस्स । जह गहणे पजंतगहणं चित्ता य सुत्तगई ॥ ३८७ ॥
१.मन्थान्तरैस्तृतीये समये पूर्णैः परितो लोकः । चतुर्भिः समयैः पूर्वते लोकान्ते भाषमाणस्य । ३८५॥ २ दिशि व्यवस्थितस्य प्रथमोऽतिगमे ते एव शेपकास्त्रयः । विदिशि स्थितख समर्याः पञ्चातिगमे यद् द्वौ ॥ १८६ ॥ ३ गाथा ३९०
४ चतुःसमयमध्यग्रहणे त्रि-पञ्यग्रहणं तुलादिमध्यस्व । यथा ग्रहणे पर्यन्तमहणं चित्रा च सूत्रगतिः ॥ ३८७ ॥ - 'ति-पंचगहणमिति' आद्यन्तवर्तिनां त्रयाणां पञ्चानां च समयाना ग्रहणमिह नियुक्तिकृता विहितमेव द्रष्टव्यम् । क सति?, इत्याहचतुःसमयरूपस्य मध्यस्य ग्रहणे कृते सति । ननु किमन्यत्रापि मध्यग्रहणे सत्यावन्तग्रहणं कापि दृष्टम् ?, इत्याह- 'तुलाईत्यादि' यथा तुलादीनाम्, आदिशब्दाद् नाराच-यष्टयादीनां मध्यस्य ग्रहणे कृते पर्यन्तयोराधन्तलक्षणयोग्रहणं पर्यन्तग्रहणं कृतमेव भवति, एवमि हाऽपीति । नन्वय न्यायः काऽप्यागमे दृश्यते, येनैवमुच्यते ?, इत्याह-चित्रा च भगवतः सूत्रस्य मतिः प्रवृत्चिदृश्यते ॥ ३८७ ॥ तथाहि
कैथइ देसग्गहणं कत्थइ घेप्पति निरवसेसाई । उक्कम-कमजुत्ताई कारणवसओ निउत्ताई ॥ ३८८ ॥
कापि सूत्रे देशस्यैकपक्षलक्षणस्य ग्रहणं, यथाऽत्रैव चतु:समयलक्षणस्य । क्वचित् सूत्रे निरवशेषाण्यपि पक्षान्तराणि गृह्यन्ते । अपरं च, कानिचित् सूत्राणि कुतोऽपि कारणवशादुत्क्रम-युक्तांनि नियुक्तानि निवद्धानि दृश्यन्ते, कानिचित्तु क्रमयुक्तानीति । एवं विचित्रा सूत्रगतिः॥३८८॥ ..
अथ प्रस्तुतार्थस्यैव शास्त्रान्तरसंवादकारिणं दृष्टान्तमाह
चउसमयविग्गहे सति महल्लबंधम्मि तिसमओ जहवा।मोत्तुं ति-पंचसमये तह चउसमओ इह निबद्धो॥३८९॥
यथा वा भगवत्यामष्टमशते महाबन्धोद्देशके सत्यपि चतु:सामयिक विग्रहे त्रिसामयिकोऽयमुपनिबद्धः, तथाऽत्रापि त्रीन्, पञ्च च समयान मुक्त्वा चतुःसामयिक एवं लोकव्याप्तिपक्ष उपनिवद्ध इत्यदोष इति ॥ ३८९ ॥
यदुक्तम्- 'लोगस्स य कइभाए कइभाओ होइ भासाए' एतद्याचिख्यासुराह
होइ असंखेजइमे भागे लोगस्स पढम-बिईएसु । भासाअसंखभागो भयणा सेसेसु समयेसु ॥ ३९० ॥
चतुर्दशरज्जूच्छूितस्य लोकस्याऽसंख्याततमे भागे भाषाया अपि समस्तलोकव्यापिन्या असंख्याततम एव भागो भवति । • कदा ?, इत्याह- प्रथम-द्वितीयसमययोः । इदमुक्तं भवति- त्रिसमयव्याप्तौ, चतुःसमयव्याप्ती, पञ्चसमयव्यासौ च प्रथमसमय
१. कुत्रापि देशग्रहणं कुत्रापि गृह्यन्ते निरवशेषाणि । उत्क्रम-क्रमयुक्तानि कारणवशतो नियुक्तानि ॥ ३८ ॥ २ चतुःसमयविग्रहे सति महाबन्धे त्रिसमयो यथा वा। मोक्तुं त्रि-पञ्चसमयांस्तथा चतुःसमय इह निबद्धो ॥ ३८९॥ ३ गाथा ३७४ । । भवत्यसंख्येयतमे भागे लोकस्य प्रथम-द्वितीययोः । भाषाऽसंख्यभागी भजना शेपेषु समयेषु ॥ ३९०॥
For Private and Personal Use Only