________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
109 विशेषा. णेन धूपमुद्माहयति, शा तीर्थकरमनिमादिवदन वीक्षते, मुखेन वृत्तं पठति, इत्यादिवहीनामपि क्रियाणां युगपत्मवृत्तिरध्यक्षतोऽपि वीक्ष्यते ।। इति गाथानवकार्थः ॥ ३७३ ॥
'गृह्णाति कायिकेन' इत्युक्तम् , तत्र यद्यप्यौदारिकादिशरीरपञ्चकभेदात् कायः पञ्चविधः, तथापि त्रिविधेनैव कायेन वाग्द्रव्यग्रहणमवसेयम्, इति दर्शयबाह---
'तिविहम्मि सरीरम्मि जीवपएसा हवंति जीवस्स । जेहि उ गेण्हइ गहणं तो भासइ भासओ भासं ॥३७४॥
औटारिकादिशरीराणां मध्यात त्रिविधे त्रिप्रकारे शरीरे जीवस्याऽऽत्मनः प्रदेशाजीवप्रदेशा भवन्ति, नान्यत्र । एतावति चोच्यमाने 'भिक्षोः पात्रम्' इत्यादौ षष्ठया भेदेऽपि दर्शनाद् मा भूजीवात् प्रदेशानां भेदसंप्रत्यय इत्यत आह- जीवस्येति, त्रिविधेऽपि शरीरे जीवप्रदेशा जीवस्याऽऽत्मभूता भवन्ति, न तु भेदिन इत्यर्थः। तदनेन निष्पदेशात्मवादनिराकरणमाह, निष्पदेशत्वस्य युक्त्यनुपपत्ते, तथाहि- पादतलसंबद्धानां जीवप्रदेशानां शिरःसंबद्धजीवदेशैः सह भेदः, अभेदो वा ? इति वक्तव्यम् । यदि भेदः, तर्हि कथं न सपदेशो जीवः । अथाभेदः, तर्हि सर्वेषामपि शरीरावयवानामेकत्वमसङ्गः, अभिन्नै वैप्रदेशैः संबन्धेनैकत्र क्रोडीकृतत्वात् , इत्यादि तर्कशास्त्रेभ्योऽनुसरणीयम् । यैर्जीवप्रदेशैः किं करोति , इत्याह- यैस्तु गृह्णाति । तुशब्दो विशेषणार्थः । किं विशिनष्टि ?- न सर्वदैव गृह्णाति, किन्तु भाषणाभिमायादिसामग्रीपरिणामे सति । किं पुनर्गृह्णाति ?, इत्याह- गृह्यत इति कर्मणि ल्युमत्यये ग्रहणं वाग्द्रव्यनिकुरम्बमित्यर्थः । ततो भाषको भाषा भाषते, न त्वभाषकोऽपर्याप्तावस्थायां, इच्छाद्यभावतो वेति । 'भापको भाषते' इत्यनेनैव गतार्थत्वात् 'भाष्यमाणैव भाषा, न पूर्व, नापि पश्चात्' इति ज्ञापनार्थमेव भाषाग्रहणमिति ॥ ३७४॥
आह- ननु कतमत् तत् त्रिविधं शरीरं, यद्गतैर्जीवप्रदेशैर्वाग्द्रव्याणि गृहीत्वा भाषको भाषते ?, इत्याह. ओरालिय-वेउव्विय-आहारओ गेण्हइ मुयइ भासं । सच्चं सच्चामोसं मोसं च असच्चमोसं च ॥ ३७५ ॥
इहौदारिकशब्देन शरीर-तद्वतोरभेदोपचारात् , मत्वर्थीयलोपाद् वौदारिकशरीरवान् जीव एव गृह्यते; एवं वैक्रियवान् वैक्रिया, आहारकवानाहारकः । तदयमेवौदारिक-वैक्रिया-ऽऽहारकशरीरी जीवो गृह्णाति, मुश्चति च भाषां पुद्गलसंहतिरूपाम् । भाषां कथंभूताम् ?, इत्याह-सत्यों, सत्यामृषा, मृषां च, असत्यमृषां च ॥ इति नियुक्तिगाथाद्वयार्थः॥ ३७५॥ .
, त्रिविधे शरीरे जीवप्रदेशा भवन्ति जीवस्य । यैस्तु गृह्णाति ग्रहणं ततो भाषते भाषको भाषाम् ॥ ३४ ॥ २ घ. छ. 'पदेसा'। ३ क. ग. 'वदे। .
औदारिक-वैक्रिया-हारको गृहाति मुश्चति भापाम् । सस्यां सत्यमृपां मृषां चाऽसत्यमृषां च ॥ ३७५॥+स्थामृषा-1.
अथात विषमएदव्याख्यानाय भाष्यम्सच्चा हिया सयामिह संतो मुणओ गुणा पयत्था. वा । तव्विवरीआ मोसा मीसा जा तदुभयसहावा॥३७६॥
अणहिगया जा तीसु वि सदोच्चिय केवलो असच्चमुसा । एया सभेयलक्खणसोदाहरणा जहा सुत्ते ॥ ३७७॥
इह सद्भयो हिताऽऽराधिका यथावस्थितवस्तुप्रत्यायनफला च सत्या भाषा पोच्यते । तत्र के सन्त उच्यन्ते येषां सा हिता, इत्याह- सन्त इह मुनयः साधव उच्यन्ते, तेभ्यो हिता- इह-परलोकाराधकत्वेन मुक्तिभापिकेत्यर्थः, अथवा सन्तो मूलोत्तरगुणरूपा गुणाः, पदार्था वा जीवादयः मोच्यन्ते, तेभ्योऽसौ हिता- अविपरीतयथावस्थितस्वरूपप्ररूपणेन सत्या । विपरीतस्वरूपा तु सूषाभाषाऽभिधीयते । मिश्रा तु सत्यामृषा । का?, इत्याह- या तदुभयखभाषा सत्या-मृषात्मिकेति । या पुनः सत्या-मृषो-भयात्मकासूक्तलक्षणासु तिसृष्वपि भाषाखनधिकृता तल्लक्षणानन्तर्भाविनी, आमन्त्रणाज्ञापनादिविषयो व्यवहारपतितः शब्द एव केवल:, साऽसत्यमृषा चतुर्थी भाषा । एताश्चतस्रोऽपि भाषाः सभेदाः सलक्षणाः सोदाहरणाश्च यथा दशवैकालिकसूत्र-नियुक्तयादिकसूत्रे आगमे भणितास्तथा तत्रैव धोद्धव्या इह तु भाषाद्रव्यग्रहण-निसर्गादिविचारस्यैव प्रस्तुतत्वात् ॥ इति गाथाद्वयार्थः ॥ ३७६ ॥ ३७७ ॥
औदारिकादिशरीरवान् भाषां गृह्णाति, मुञ्चति चेत्युक्तम् । सा पुनर्मुक्ता सती कियत् क्षेत्र व्यामोति ? इति वक्तव्यम् । उच्यते- समस्तमपि लोकम् । आइ- ययेवम्
. केईहिं समएहिं लोगो भासाए निरंतरं तु होइ फुडो । लोगस्स य कइभाए कइभाओ होइ भासाए ॥३७८॥
अथवा द्वादशभ्यो योजनेभ्यः परतो न शृणोति शब्दं मन्दपरिणामत्वात् द्रव्याणामित्युक्तम् । तत्र कि परतोऽपि शब्दद्रव्याणामागतिरस्ति ? यथा च विषयाभ्यन्तरे नैरन्तर्येण तद्वासनासामर्धम् , एवं बहिरप्यस्ति, उतन? इति । उच्यते- अस्ति केषांचित कृत्स्नलोकव्याप्त आह- यद्येवम, 'कईहिं०इत्येवं संबन्धद्वयसमायातेयं गाथा व्याख्यायते-लोक्यत इति लोकश्च
सत्या दिसा सजयः, इह सन्तो मुनयो गुणाः पदार्थाय । सद्विपरीता मृषा, मिश्रा या तदुभयस्वभावा ॥३७६+स्थामृषा- . अनधिकृता वा तिसृष्वपि शब्द एवं केवलोऽसत्यममा । एषा सभेद-लक्षण-सोदाहरणा यथा सूत्रे ॥ ३७॥ .. ३ कतिभिः समयैर्लोको भाषया निरन्तरं तु भवति स्पृष्ठः । खोकस्य च कतिभागे कतिमागो भवति भाषायाः ॥ ३७॥
For Private and Personal Use Only