________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
107
विशेषा
अथ 'एंगतरं च गिण्हई' इत्यादि व्याचिख्यासुराह
जैह गामाओ गामो गामंतरमेवमेग एगाओ । एगंतरं ति भण्णइ समयाओण्णंतरो समओ ॥ ३६५ ॥
यथैकस्मात् प्रामादन्यो ग्रामोऽनन्तरितोऽपि लोकरूढ्या घामान्तरमुच्यते, पुरुषात् वाऽन्या पुरुषोऽनन्तरोऽपि पुरुपान्तरमभिपी. यते: एलमिदापि एकस्मात् समयाद् योऽयमन्यः समयः सोऽयमनन्तरोऽपि समेकान्तरमित्यभिधीयते । ततः किमुक्तं भवति , इलाहएकमात् समयादनन्तरः समय एकान्तरमिति, एवं चाऽनुसमय एव गृहाति, मुञ्चति चेति पर्यवसितं भवति ॥ ३६५॥
अन्ये तु 'एकान्तरम्' इत्येकैकेन समयेनाऽन्तरितं ग्रहणं, निसर्ग चेच्छन्ति, इति दर्शयति" केई एगंतरियं मण्णन्ते गंतरं ति, तेसिं च । विच्छिन्नावलिरूवो होइ धणी, सुयविरोहो य ॥ ३६६ ॥
इह केचिद् व्याख्यातारो मन्यन्ते- ग्रहणं, निसर्जनं चैकैकेन समयेनाऽन्तरितमेकान्तरमुच्यते । एतच्चाऽयुक्तम् , यतस्तेषामेव व्याख्यातृणामन्तरान्तरविच्छिन्नरत्नावलीरूपो ध्वनिः प्राप्नोति, अन्तरान्तरग्रहणसमयेषु सर्वेष्वप्यश्रवणात् । तथा, श्रुतविरोधच, यत उक्तं श्रुते "अणुसमयमविरहिअं निरंतरंगिण्हई" इति; तथाहि-इदं सूत्रं मतिसमयग्रहणप्रतिपादकत्वाद प्रतिसमयनिसर्गप्रतिपादकमपि द्रष्टव्यम्, गृहीतस्य द्वितीयसमयेऽवश्यं निसर्गादिति ॥ ३६६॥ क्षेत्र परः माह
आह, सुए च्चिय निसिरइ संतरियं न उ निरंतरं भणियं । एगेण जओ गिण्हइ समयेणेगेण सो मुयइ ॥३६७॥
परः प्राह- ननु यथा स्वपक्षसमर्थकं मूत्रं त्वया दर्शितं, तथा श्रुत एवाऽस्मत्पक्षसमर्थकमपि तद् भणितमेव । किं तत् ?, इत्याह'निसिरईत्यादि' इदं प्रज्ञापनोक्तसूत्रं गाशायामुपनिवद्धं, तच्चेदम् - "संतरं निसिरह, नो निरंतर निसिरह; एगेणं समयेणं गिण्हइ, एगेणं समयेणं निसिरइ" इत्यादि । तदनेन सूत्रेण निसर्गस्य सान्तरस्योक्तत्वान् मयाख्यानमुपपन्नमेव । इति परस्याभिप्रायः॥ ३६७ ॥
गाथा ३५५ । २ यथा ग्रामात् ग्रामो प्रामान्तरमेवमेक एकम्मान । एकान्तरमिति भण्यते समपादनन्तरः समयः ॥ ३१५॥ ३ केचिदेकान्तरितं मन्यन्त एकान्तरमिति, सेषां च । विच्छिन्नावलिमपो भवति ध्वनिः, श्रुतविरोधश्च ।। ३६६ ॥ ४ अनुसमयमविरहितं निरन्तरं गृह्णाति । ५क. ग. 'अप'।
आह, श्रुत एव निसजति सान्तरितं न तु निरन्तर भणितम् । एकेन यतो गृहाति समयेनकेन समुञ्चति ॥३५॥
. सान्तरं निसृजति, नो निरन्तरं निसूजति एकेन समयेन गृहाति, एकेन समयेन निस्मति । । अत्रोत्तरमाहअणुसमयमणंतरियं गहणं भणियं जओ विमुक्खो वि । जुत्तो निरंतरो च्चिय, भणइ, कह संतरो भणिओ ? ॥३६८॥
___ आचार्यः माह- हन्त ! तावद् ग्रहणमनुसमयमनन्तरितमव्यवहितं माक्तनसूत्रेण भणितं प्रतिपादितमिति भवतोऽपि प्रतीतम् । यत एवम्, अतो विमोक्षोऽपि निसर्गोऽपि निरन्तर एव युक्तः, गृहीतस्याऽवश्यमेाऽनन्तरसमये निसर्गादिति । प्रेरकः पुनरपि भणति। किम् १, इत्याह- 'कह संतरो भणिउ ति' इदमुक्तं भवति- अहमपि जानामि यतः सूत्रे ग्रहणं निरन्तरमुक्तं, परं यस्तत्रैव निसर्गः सान्तर उक्तः स कथं नीयते ? इति भवानपि निवेदयतु । सत्यम् , किन्तु विषयविभागोत्र द्रष्टव्यः ॥ ३६८ ॥
का पुनरयम् , इति गुरुराहमहणावेक्खाए तओ निरन्तरं जम्मि जाई गहियाई । न वि तम्मि चेव निसिरइ जह पढने निसिरणं नत्थि ॥३६९॥
तकोऽसौ निसर्गो ग्रहणापेक्षया भाषाद्रव्योपादानापेक्षया पूर्व पूर्व ग्रहणमपेक्ष्येत्यर्थः, 'सान्तर उक्तः' इति शेषः । ननु समयापेक्षया तस्य नैरन्तर्येणैव प्रवृत्तेः कथं पुनर्ग्रहणापेक्षया सान्तरत्वम् ?, इत्याह- 'निरन्तरमित्यादि' यतो यस्मिन् प्रथमादिसमये यानि भाषाद्रव्याणि गृहीतानि, न तानि तस्मिन्नेव ग्रहणसमये नैरन्तर्येण निसृजति, किन्तु ग्रहणसमयादनन्तरसमये निसृजति, यथा प्रथमसमयगृहीतानां न तस्मिन्नेव समये निसर्जन निसर्गः, किन्तु द्वितीयसमये एवं द्वितीयसमयगृहीतानां तृतीयसमये, तृतीयसमयगृहीतानां चतुर्थसमये निसर्ग इत्यादि सर्वसमयेष्वपि भावनीयम् । तदेवं ग्रहणापेक्षया निसर्गः सान्तर एव, अगृहीतानां निसर्गायोगात् । समयापेक्षया त्वसौ निरन्तर एव, द्वितीयादिषु सर्वेष्वपि समयेषु निरन्तरं तद्भावादिति ॥ ३६९ ।।
आह- यद्येवम् , ग्रहणमपि निसर्गापेक्षया सान्तरमेवाऽस्तु । नैवम् , ग्रहणस्य स्वतन्त्रत्वात् , निसर्गस्य तु अहणपरतन्त्रत्वात् कुतः १, इत्याह
*निसिरिजइ नागहियं गहणंतरियं ति संतरं तेणं । न निरंतरं ति न समयं न जुगवमिह होति पज्जाया॥३७०
अनुसमयमनन्तरितं प्रहणं भणितं यतो विमोक्षोऽपि । युक्तो निरन्तर एव, भणति, कथं सान्तरो भणितः ॥१५॥ २ अ. 'विमोक्खों'। ३ ग्रहणापेक्षया सको निरन्तरं यस्मिन् यानि गृहीतानि । नापि तस्मिमेव निसृजति यथा प्रथमे निसर्जनं गास्ति ॥ ३९॥ .. निसुज्यते नाऽगृहीतं ग्रहणान्तरितमिति सान्तरं तेन ।न निरन्तरमिति न समकं न युगपदिह भवन्ति पर्यायाः ॥३७॥५घ. 'हुति'।
For Private and Personal Use Only